अर्थशास्त्रम् अध्याय ०५ - भाग ४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


४.०१
लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.संपन्नं प्रिय.हित.द्वारेण_आश्रयेत ॥

४.०२
यं वा मन्येत "यथा_अहम् आश्रय.ईप्सुर् एवम् असौ विनय.ईप्सुर् आभिगामिक.गुण.युक्तः" इति, द्रव्य.प्रकृति.हीनम् अप्य् एनम् आश्रयेत, न त्व् एव_अनात्म.संपन्नम् ॥

४.०३
अनात्मवा हि नीति.शास्त्र.द्वेषाद् अनर्थ्य.संयोगाद् वा प्राप्य_अपि महद् ऐश्वर्यं न भवति ॥

४.०४
आत्मवति लब्ध.अवकाशः शास्त्र.अनुयोगं दद्यात् ॥

४.०५
अविसंवादाद्द् हि स्थान.स्थैर्यम् अवाप्नोति ॥

४.०६
मति.कर्मसु पृष्ठस् तदात्वे च_आयत्यां च धर्म.अर्थ.संयुक्तं समर्थं प्रवीणवद् अपरिषद्.भीरुः कथयेत् ॥

४.०७
ईप्सितः पणेत "धर्म.अर्थ.अनुयोगम् अविशिष्टेषु बलवत्.संयुक्तेषु दण्ड.धारणं मत्.संयोगे तदात्वे च दण्ड.धारणम् इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे न_उपहन्याः, संज्ञया च त्वां काम.क्रोध.दण्डनेषु वारयेयम्" इति ॥

४.०८
आदिष्टः प्रदिष्टायां भूमाव् अनुज्ञातः प्रविशेत्, उपविशेच् च पार्श्वतः संनिकृष्ट.विप्रकृष्टः पर.आसनम् ॥

४.०९
विगृह्य कथनम् असभ्यम् अप्रत्यक्षम् अश्रद्धेयम् अनृतं च वाक्यम् उच्चैर् अनर्मणि हासं वात.ष्ठीवने च शब्दवती न कुर्यात् ॥

४.१०
मिथः कथनम् अन्येन, जन.वादे द्वन्द्व.कथनम्, राज्ञो वेषम् उद्धत.कुहकानां च, रत्न.अतिशय.प्रकाश.अभ्यर्थनम्, एक.अक्ष्य्.ओष्ठ.निर्भोगं भ्रुकुटी.कर्म वाक्य.अवक्षेपणं च ब्रुवति, बलवत् संयुक्त.विरोधम्, स्त्रीभिः स्त्री.दर्शिभिः सामन्त.दूतैर् द्वेष्य.पक्ष.अवक्षिप्तान् अर्थ्यैश् च प्रतिसंसर्गम् एक.अर्थ.चर्यां संघातं च वर्जयेत्  ॥

४.११
अहीन.कालं राज.अर्थं स्व.अर्थं प्रिय.हितैः सह ।

४.११
पर.अर्थं देश.काले च ब्रूयाद् धर्म.अर्थ.संहितम् ॥

४.१२
पृष्टः प्रिय.हितं ब्रूयान् न ब्रूयाद् अहितं प्रियम् ।

४.१२
अप्रियं वा हितं ब्रूयात्_शृण्वतो_अनुमतो मिथः ॥

४.१३
तूष्णीं वा प्रतिवाक्ये स्याद् वेष्य.आदींश् च न वर्णयेत् ।

४.१३
अप्रिया अपि दक्षाः स्युस् तद्.भावाद् ये बहिष्.कृताः ॥

४.१४
अनर्थ्याश् च प्रिया दृष्टाश् चित्त.ज्ञान.अनुवर्तिनः ।

४.१४
अभिहास्येष्व् अभिहसेद् घोर.हासांश् च वर्जयेत् ॥

४.१५
परात् संक्रामयेद् घोरं न च घोरं परे वदेत् ।

४.१५
तितिक्षेत_आत्मनश् चैव क्षमावान् पृथिवी.समः ॥

४.१६
आत्म.रक्षा हि सततं पूर्वं कार्या विजानता ।

४.१६
अग्नाव् इव हि संप्रोक्ता वृत्ती राजा_उपजीविनाम् ॥

४.१७
एक.देशं दहेद् अग्निः शरीरं वा परं गतः ।

४.१७
स-पुत्र.दारं राजा तु घातयेद् अर्धयेत वा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP