TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०५ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग २
२.०१
कोशम् अकोशः प्रत्युत्पन्न.अर्थ.कृच्छ्रः संगृह्णीयात् ॥

२.०२
जन.पदं महान्तम् अल्प.प्रमाणं वा_अदेव.मातृकं प्रभूत.धान्यं धान्यस्य_अंशं तृतीयं चतुर्थं वा याचेत, यथा.सारं मध्यम् अवरं वा ॥

२.०३
दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्म.उपकारिणं प्रत्यन्तम् अल्प.प्रमाणं वा न याचेत ॥

२.०४
धान्य.पशु.हिरण्य.आदि निविशमानाय दद्यात् ॥

२.०५
चतुर्थम् अंशं धान्यानां बीज.भक्त.शुद्धं च हिरण्येन क्रीणीयात् ॥

२.०६
अरण्य.जातं श्रोत्रिय.स्वं च परिहरेत् ॥

२.०७
तद् अप्य् अनुग्रहेण क्रीणीयात् ॥

२.०८
तस्य_अकरणे वा समाहर्तृ.पुरुषा ग्रीष्मे कर्षकाणाम् उद्वापं कारयेयुः ॥

२.०९
प्रमाद.अवस्कन्नस्य_अत्ययं द्वि.गुणम् उदाहरन्तो बीज.काले बीज.लेख्यं कुर्युः ॥

२.१०
निष्पन्ने हरित.पक्व.आदानं वारयेयुः, अन्यत्र शाक.कट.भङ्ग.मुष्टिभ्यां देव.पितृ.पूजा.दान.अर्थं गव.अर्थं वा ॥

२.११
भिक्षुक.ग्राम.भृतक.अर्थं च राशि.मूलं परिहरेयुः ॥

२.१२
स्व.सस्य.अपहारिणः प्रतिपातो_अष्ट.गुणः ॥

२.१३
पर.सस्य.अपहारिणः पञ्चाशद्.गुणः सीता.अत्ययः, स्व.वर्गस्य, बाह्यस्य तु वधः ॥

२.१४
चतुर्थम् अंशं धान्यानां षष्ठं वन्यानां तूल.लाक्षा.क्षौम.वल्क.कार्पास.रौम.कौशेय.कौषध.गन्ध.पुष्प.फल.शाक.पण्यानां काष्ठ.वेणु.मांस.वल्लूराणां च गृह्णीयुः, दन्त.अजिनस्य_अर्धम् ॥

२.१५
तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहस.दण्डः ॥

२.१६
इति कर्षकेषु प्रणयः ॥

२.१७
सुवर्ण.रजत.वज्र.मणि.मुक्ता.प्रवाल.अश्व.हस्ति.पण्याः पञ्चाशत्.कराः ॥

२.१८
सूत्र.वस्त्र.ताम्र.वृत्त.कंस.गन्ध.भैषज्य.शीधु.पण्याश् चत्वारिंशत्.कराः ॥

२.१९
धान्य.रस.लोह.पण्याः शकट.व्यवहारिणश् च त्रिंशत्.कराः ॥

२.२०
काच.व्यवहारिणो महा.कारवश् च विंशति.कराः ॥

२.२१
क्षुद्र.कारवो बन्धकी.पोषकाश् च दश.कराः ॥

२.२२
काष्ठ.वेणु.पाषाण.मृद्.भाण्ड.पक्व.अन्न.हरित.पण्याः पञ्च.कराः ॥

२.२३
कुशीलवा रूप.आजीवाश् च वेतन.अर्धं दद्युः ॥

२.२४
हिरण्य.करं कर्मण्यान् आहारयेयुः, न च_एषां कंचिद् अपराधं परिहरेयुः ॥

२.२५
ते ह्य् अपरिगृहीतम् अभिनीय विक्रीणीरन् ॥

२.२६
इति व्यवहारिषु प्रणयः ॥०५.२.२७
कुक्कुट.सूकरम् अर्धं दद्यात्, क्षुद्र.पशवः षड्.भागम्, गो.महिष.अश्वतर.खर.उष्ट्राश् च दश.भागम् ॥

२.२८
बन्धकी.पोषका राज.प्रेष्याभिः परम.रूप.यौवनाभिः कोशं संहरेयुः ॥

२.२९
इति योनि.पोषकेषु प्रणयः ॥

२.३०
सकृद् एव न द्विः प्रयोज्यः ॥

२.३१
तस्य_अकरणे वा समाहर्ता कार्यम् अपदिश्य पौर.जानपदान् भिक्षेत ॥

२.३२
योग.पुरुषाश् च_अत्र पूर्वम् अतिमात्रं दद्युः ॥

२.३३
एतेन प्रदेशेन राजा पौर.जानपदान् भिक्षेत ॥

२.३४
कापटिकाश् च_एनान् अल्पं प्रयच्छतः कुत्सयेयुः ॥

२.३५
सारतो वा हिरण्यम् आढ्यान् याचेत, यथा.उपकारं वा, स्व.वशा वा यद् उपहरेयुः ॥

२.३६
स्थानच्.छत्र.वेष्टन.विभूषाश् च_एषां हिरण्येन प्रयच्छेत् ॥

२.३७
पाषण्ड.संघ.द्रव्यम् अश्रोत्रिय.उपभोग्यं देव.द्रव्यं वा कृत्य.कराः प्रेतस्य दग्ध.गृहस्य वा हस्ते न्यस्तम् इत्य् उपहरेयुः ॥

२.३८
देवता.अध्यक्षो दुर्ग.राष्ट्र.देवतानां यथा.स्वम् एकस्थं कोशं कुर्यात्, तथैव च_उपहरेत् ॥

२.३९
दैवत.चैत्यं सिद्ध.पुण्य.स्थानम् औपपादिकं वा रात्राव् उत्थाप्य यात्रा.समाजाभ्याम् आजीवेत् ॥

२.४०
चैत्य.उपवन.वृक्षेण वा देवता.अभिगमनम् अनार्तव.पुष्प.फल.युक्तेन ख्यापयेत् ॥

२.४१
मनुष्य.करं वा वृक्षे रक्षो.भयं प्ररूपयित्वा सिद्ध.व्यञ्जनाः पौर.जानपदानां हिरण्येन प्रतिकुर्युः ॥

२.४२
सुरुङ्गा.युक्ते वा कूपे नागम् अनियत.शिरस्कं हिरण्य.उपहारेण दर्शयेत् ॥

२.४३
नाग.प्रतिमायाम् अन्तश्.छन्नायां चैत्यच्.छिद्रे वल्मीकच्.छिद्रे वा सर्प.दर्शनम् आहारेण प्रतिबद्ध.संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥

२.४४
अश्रद्दधानानाम् आचमन.प्रोक्षणेषु रसम् उपचार्य देवता.अभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा ॥

२.४५
योग.दर्शन.प्रतीकारेण वा कोश.अभिसंहरणं कुर्यात् ॥

२.४६
वैदेहक.व्यञ्जनो वा प्रभूत.पण्य.अन्तेवासी व्यवहरेत ॥

२.४७
स यदा पण्य.मूल्ये निक्षेप.प्रयोगैर् उपचितः स्यात् तदा_एनं रात्रौ मोषयेत् ॥

२.४८
एतेन रूप.दर्शकः सुवर्ण.कारश् च व्याख्यातौ ॥

२.४९
वैदेहक.व्यञ्जनो वा प्रख्यात.व्यवहारः प्रहवण.निमित्तं याचितकम् अवक्रीतकं वा रूप्य.सुवर्ण.भाण्डम् अनेकं गृह्णीयात् ॥

२.५०
समाजे वा सर्व.पण्य.संदोहेन प्रभूतं हिरण्य.सुवर्णम् ऋणं गृह्णीयात्, प्रतिभाण्ड.मूल्यं च ॥

२.५१
तद् उभयं रात्रौ मोषयेत् ॥

२.५२
साध्वी.व्यञ्जनाभिः स्त्रीभिर् दूष्यान् उन्मादयित्वा तासाम् एव वेश्मस्व् अभिगृह्य सर्व.स्वान्य् आहरेयुः ॥

२.५३
दूष्य.कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥

२.५४
तेन दोषेण_इतरे पर्यादातव्याः ॥

२.५५
दूष्यम् अभित्यक्तो वा श्रद्धेय.अपदेशं पण्यं हिरण्य.निक्षेपम् ऋण.प्रयोगं दायं वा याचेत ॥

२.५६
दास.शब्देन वा दूष्यम् आलम्बेत, भार्याम् अस्य स्नुषां दुहितरं वा दासी.शब्देन भार्या.शब्देन वा ॥

२.५७
तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् "हतो_अयम् अर्थ.कामुकः" इति ॥

२.५८
तेन दोषेण_इतरे पर्यादातव्याः ॥

२.५९
सिद्ध.व्यञ्जनो वा दूष्यं जम्भक.विद्याभिः प्रलोभयित्वा ब्रूयात् "अक्षय.हिरण्यं राज.द्वारिकं स्त्री.हृदयम् अरि.व्याधि.करम् आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥

२.६०
प्रतिपन्नं चैत्य.स्थाने रात्रौ प्रभूत.सुरा.मांस.गन्धम् उपहारं कारयेत् ॥

२.६१
एक.रूपं च_अत्र हिरण्यं पूर्व.निखातं प्रेत.अङ्गं प्रेत.शिशुर् वा यत्र निहितः स्यात्, ततो हिरण्यम् अस्य दर्शयेद् "अत्यल्पम्" इति च ब्रूयात् ॥

२.६२
"प्रभूत.हिरण्य.हेतोः पुनर् उपहारः कर्तव्य इति स्वयम् एव_एतेन हिरण्येन श्वो.भूते प्रभूतम् औपहारिकं क्रीणीहि" इति ॥

२.६३
स तेन हिरण्येन_औपहारिक.क्रये गृह्येत ॥

२.६४
मातृ.व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्य् अवकुपिता स्यात् ॥

२.६५
संसिद्धम् एव_अस्य रात्रि.यागे वन.यागे वन.क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्य_अभित्यक्तम् अतिनयेयुः ॥

२.६६
दूष्यस्य वा भृतक.व्यञ्जनो वेतन.हिरण्ये कूट.रूपं प्रक्षिप्य प्ररूपयेत् ॥

२.६७
कर्म.कर.व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन.कूट.रूप.कारक.उपकरणम् उपनिदध्यात्, चिकित्सक.व्यञ्जनो वा गरम् अगद.अपदेशेन ॥

२.६८
प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितम् अभिषेक.भाण्डम् अमित्र.शासनं च कापटिक.मुखेन_आचक्षीत, कारणं च ब्रूयात् ॥

२.६९
एवं दूष्येष्व् अधार्मिकेषु च वर्तेत, न_इतरेषु ॥

२.७०
पक्वं पक्वम् इव_आरामात् फलं राज्याद् अवाप्नुयात् ।

२.७०
आत्मच्.छेद.भयाद् आमं वर्जयेत् कोप.कारकम् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:23.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उपवाह्यका

RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.