TransLiteral Foundation

अर्थशास्त्रम् अध्याय ०५ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


भाग १
१.०१
दुर्ग.राष्ट्रयोः कण्टक.शोधनम् उक्तम् ॥

१.०२
राज.राज्ययोर् वक्ष्यामः ॥

१.०३
राजानम् अवगृह्य_उपजीविनः शत्रु.साधारणा वा ये मुख्यास् तेषु गूढ.पुरुष.प्रणिधिः कृत्य.पक्ष.उपग्रहो वा सिद्धिः यथा.उक्तं पुरस्ताद्, उपजापो_अपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥

१.०४
राज्य.उपघातिनस् तु वल्लभाः संहता वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म.रुचिर् उपांशु.दण्डं प्रयुञ्जीत ॥

१.०५
दूष्य.महा.मात्र.भ्रातरम् असत्.कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥

१.०६
तं राजा दूष्य.द्रव्य.उपभोग.अतिसर्गेण दूष्ये विक्रमयेत् ॥

१.०७
शस्त्रेण रसेन वा विक्रान्तं तत्र_एव घातयेद् "भ्रातृ.घातको_अयम्" इति ॥

१.०८
तेन पारशवः परिचारिका.पुत्रश् च व्याख्यातौ ॥

१.०९
दूष्यं.महामात्रं वा सत्त्रि.प्रोत्साहितो भ्राता दायं याचेत ॥

१.१०
तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् "हतो_अयं दाय.कामुकः" इति ॥

१.११
ततो हत.पक्षम् उपगृह्य_इतरं निगृह्णीयात् ॥

१.१२
दूष्य.समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥

१.१३
तं रात्रौ इति समानम् ॥

१.१४
दूष्य.महा.मात्रयोर् वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिक.मुखः कलहः पूर्वेण व्याख्यातः ॥

१.१५
दूष्य.महा.मात्र.पुत्रम् आत्म.संभावितं वा सत्त्री "राज.पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो_असि" इत्य् उपजपेत् ॥

१.१६
प्रतिपन्नं राजा रहसि पूजयेत् "प्राप्त.यौवराज्य.कालं त्वां महा.मात्र.भयान् न_अभिषिञ्चामि" इति ॥

१.१७
तं सत्त्री महा.मात्र.वधे योजयेत् ॥

१.१८
विक्रान्तं तत्र_एव घातयेत् "पितृ.घातको_अयम्" इति ॥

१.१९
भिक्षुकी वा दूष्य.भार्यां सांवदनिकीभिर् औषधीभिः संवास्य रसेन_अतिसंदध्यात् ॥

१.२०
इत्य् आप्य.प्रयोगः ॥

१.२१
दूष्य.महा.मात्रम् अटवीं पर.ग्रामं वा हन्तुं कान्तार.व्यवहिते वा देशे राष्ट्र.पालम् अन्त.पालं वा स्थापयितुं नागर.स्थानं वा कुपितम् अवग्राहितुं सार्थ.अतिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयम् आदातुं फल्गु.बलं तीक्ष्ण.युक्तं प्रेषयेत् ॥

१.२२
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक.व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥

१.२३
यात्रा.विहार.गतो वा दूष्य.महा.मात्रान् दर्शनाय_आह्वयेत् ॥

१.२४
ते गूढ.शस्त्रैस् तीक्ष्णैः सह प्रविष्टा मध्यम.कक्ष्यायाम् आत्म.विचयम् अन्तः.प्रवेशन.अर्थं दद्युः ॥

१.२५
ततो दौवारिक.अभिगृहीतास् तीक्ष्णाः "दूष्य.प्रयुक्ताः स्म" इति ब्रूयुः ॥

१.२६
ते तद्.अभिविख्याप्य दूष्यान् हन्युः ॥

१.२७
तीक्ष्ण.स्थाने च_अन्ये वध्याः ॥

१.२८
बहिर्.विहार.गतो वा दूष्यान् आसन्न.आवासान् पूजयेत् ॥

१.२९
तेषां देवी.व्यञ्जना वा दुःस्त्री रात्राव् आवासेषु गृह्येत_इति समानं पूर्वेण ॥

१.३०
दूष्य.महा.मात्रं वा "सूदो भक्ष.कारो वा ते शोभनः" इति स्तवेन भक्ष्य.भोज्यं याचेत, बहिर् वा क्वचिद् अध्व.गतः पानीयम् ॥

१.३१
तद्.उभयं रसेन योजयित्वा प्रतिस्वादने ताव् एव_उपयोजयेत् ॥

१.३२
तद्.अभिविख्याप्य "रसदौ" इति घातयेत् ॥

१.३३
अभिचार.शीलं वा सिद्ध.व्यञ्जनो "गोधा.कूर्म.कर्कटक.कूटानां लक्षण्यानाम् अन्यतम.प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥

१.३४
प्रतिपन्नं कर्मणि रसेन लोह.मुसलैर् वा घातयेत् "कर्म.व्यापदा हतः" इति ॥

१.३५
चिकित्सक.व्यञ्जनो वा दौरात्मिकम् असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य.आहार.योगेषु रसेन_अतिसंदध्यात् ॥

१.३६
सूद.आरालिक.व्यञ्जना वा प्रणिहिता दूष्यं रसेन_अतिसंदध्युः ॥

१.३७
इत्य् उपनिषत्.प्रतिषेधः ॥

१.३८
उभय.दूष्य.प्रतिषेधस् तु ॥

१.३९
यत्र दूष्यः प्रतिषेद्धव्यस् तत्र दूष्यम् एव फल्गु.बल.तीक्ष्ण.युक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यम् आहारय, वल्लभ.कन्यां वा प्रसह्य_आनय, दुर्ग.सेतु.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्मणाम् अन्यतमद् वा कारय राष्ट्र.पाल्यम् अन्त.पाल्यं वा_ यश् च त्वा प्रतिषेधयेन् न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात्" इति ॥

१.४०
तथैव_इतरेषां प्रेषयेद् "अमुष्य_अविनयः प्रतिषेद्धव्यः" इति ॥

१.४१
तम् एतेषु कलह.स्थानेषु कर्म.प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥

१.४२
तेन दोषेण_इतरे नियन्तव्याः ॥

१.४३
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा.क्षेत्र.खल.वेश्म.मर्यादासु द्रव्य.उपकरण.सस्य.वाहन.हिंसासु प्रेक्षा.कृत्य_उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैर् उत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते ये_अमुना कलहायन्ते॒ इति ॥

१.४४
तेन दोषेण_इतरे नियन्तव्याः ॥

१.४५
येषां वा दूष्याणां जात.मूलाः कलहास् तेषां क्षेत्र.खल.वेश्मान्य् आदीपयित्वा बन्धु.संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥

४.४६
तेन दोषेण_इतरे नियन्तव्याः ॥

१.४७
दुर्ग.राष्ट्र.दूष्यान् वा सत्त्रिणः परस्परस्य_आवेशनिकान् कारयेयुः ॥

१.४८
तत्र रसदा रसं दद्युः ॥

१.४९
तेन दोषेण_इतरे नियन्तव्याः ॥

१.५०
भिक्षुकी वा दूष्य.राष्ट्र.मुख्यं "दूष्य.राष्ट्र.मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्य् उपजपेत् ॥

१.५१
प्रतिपन्नस्य_आभरणम् आदाय स्वामिने दर्शयेत् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यां स्नुषां दुहितरं वा_अभिमन्यते" इति ॥

१.५२
तयोः कलहो रात्रौ इति समानम् ॥

१.५३
दूष्य.दण्ड.उपनतेषु तु - युव.राजः सेना.पतिर् वा किंचिद् अपकृत्य_अपक्रान्तो विक्रमेत ॥

१.५४
ततो राजा दूष्य.दण्ड.उपनतान् एव प्रेषयेत् फल्गु.बल.तीक्ष्ण.युक्तान् इति समानाः सर्व एव योगाः ॥

१.५५
तेषां च पुत्रेष्व् अनुक्षियत्सु यो निर्विकारः स पितृ.दायं लभेत ॥

१.५६
एवम् अस्य पुत्र.पौत्रान् अनुवर्तते राज्यम् अपास्त.पुरुष.दोषम् ॥

१.५७
स्व.पक्षे पर.पक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।

१.५७
आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:23.5770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

long-term operations-funds

  • दीर्घकालीन प्रवर्तन निधि 
RANDOM WORD

Did you know?

In Hinduism, are women and men treated as equals?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site