TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

समय मातृका - अष्टमः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।


कामुक-प्राप्तिः
अथ सित-किरण-रति-श्रम-खिन्नेव विनिद्र-तारका-रजनी ।
प्राभातिक-सलिल-लव-स्वेद-वती क्षामतां प्रययौ ॥१॥
गणिका ततः प्रभाते सकल-निशा-जागरेण ताम्राक्षी ।
रात्रि-सुख-प्रश्न-परां प्रोवाच समेत्य कङ्कालीम् ॥२॥
शृणु मातः शिशु-वयस् तस्य स्फुटताम् अकाल-पुष्टस्य ।
यस्याल्पकस्य बहुलं मरिच-कणस्येव तीक्ष्णत्वम् ॥३॥
आरोपितः स चेट्या खट्वाम् अत्युन्नतां शनैः शिशुकः ।
निश्चल-तनुर् मुहूर्तं धूर्तः स च कृतक-सुप्तो’भूत् ॥४॥
ललना-सुलभ-कुतूहल-चपलतयालिङ्गितः स्वयं स मया ।
तत्-क्षण-नव-सुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥
पूग-फलम् अस्य लग्नं ज्ञात्वेति मया स शीत-सलिलार्द्रम् ।
दत्त्वा वक्षसि हस्तं प्रलय-भयाल् लम्भितः संज्ञाम् ॥६॥
लब्धास्वादः स ततश् चटक-रतिर् मां प्रजागरो मूर्तः ।
खेद-क्लान्ताम् अकरोद् गणनातीतैः समारोहैः ॥७॥
बाल-मुखं तरुणतरं रभस-रसेन प्रबोधयन्त्या तम् ।
कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्व-हस्तेन ॥८॥
रोदिति शिशुर् इति दयया यस्य न दशन-क्षतं मया दत्तम् ।
तेन ममाधर-बिम्बं शुकेनेव खण्डितं बहुशः ॥९॥
मुहुर् आरोहण-हेला-परिरम्भैर् वामनीकृतं तेन ।
शिशु-सङ्गमनात् क्षणं मे लज्जितम् इव नोन्ननाम कुच-युगलम् ॥१०॥
अहम् अस्थान-नख-क्षत-विक्षत-तनु-वल्लरी परं तेन ।
गुप्तिं कथं करिष्ये विदग्ध-जन-सङ्गमे’ङ्गानाम् ॥११॥
उक्त्वेति वार-रमणी निखिल-निशीथ-प्रजागरोद्विग्ना ।
क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥
ताम् अवदत् कङ्काली सस्मित-वदना विटङ्क-दंष्ट्राभिः ।
भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥१३॥
एवं-विधैव मुग्धे परिशीलित-हट्ट-चेट-कटुकानाम् ।
प्रौढिः कण्टक-तीक्ष्णा भवति परं पण्य-जीवन-शिशूनाम् ॥१४॥
पितृ-भवन-हृतं नियतं हस्त-गतं विद्यते धनं तस्य ।
भवति न तद्-विधम् अधिकं प्रागल्भ्यं रिक्त-हस्तस्य ॥१५॥
बिल-निहित-द्रविण-कणश् चपल-गतिर् मूषको’प्य् अलं प्लवते ।
दान-क्षीणस् तन्द्रीं सुषिर-करः कुञ्जरो भजते ॥१६॥
विट-विनिवारण-युक्त्या निर्मक्षिकम् आक्षिकोपमं सहसा ।
गत्वा करोमि तावत् तवोपजीव्यं वणिक्-तनयम् ॥१७॥
अस्माकम् अङ्गम् अङ्गं पण्योपनतं महा-धन-निधानम् ।
दासी-सुताः किम् एते स्वादन्ति विटाः प्रसङ्गेन ॥१८॥
इत्य् उक्त्वा तूर्णतरं शय्या-भवन-स्थितं समभ्येत्य ।
शिशुम् अवदत् कङ्काली विजन-कथा-केलि-तन्त्रेण ॥१९॥
अपि पुत्र रात्रिर् अखिला सुखेन ते कुमुद-हासिनी याता ।
बन्धन-योग्यो’स्माकं कलावती-हृदय-चोरस् त्वम् ॥२०॥
ध्यानं वलनं जृम्भणम् उच्छ्वसनं वेपनं परिस्खलनम् ।
त्वत्-सङ्गमे’पि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥
लङ्घित-तरुण-समुद्रा कलावती यत्-पटाञ्चले लग्ना ।
याम् अर्थयते दूतैर् दक्षिण-दिग्-वल्लभो भोजः ॥२२॥
जन्मान्तरे’नुबद्धा यदि नेयं सङ्गतिः कृता विधिना ।
तत् किं त्वयि मम जाता पर-लोके पुत्र-कार्याशा ॥२३॥
विघ्नस् तु सङ्गमे’स्मिन्न् एकः परिचिन्तितो’स्ति मे भयदः ।
यद् अयं विट-सङ्घातः कण्टक-जालायते परितः ॥२४॥
भुक्त्वा पीत्वा भवतः पर-धन-वर्णाः स्व-वित्त-परिहीणाः ।
धूर्तास् त्वाम् एव पितुर् बन्धन-योग्यं प्रयच्छन्ति ॥२५॥
तस्माद् यादि दिनम् एकं तिष्ठसि सुतराम् अदृश्य-रूपस् त्वम् ।
तद् अयं कुटिल-विटानां नैराश्याद् भिद्यते यूथः ॥२६॥
इत्य् उक्ते कुट्टन्या शैशव-सरलाशयो वणिक्-सुतः ।
ताम् अवदत् सत्यम् इदं स्नेहान् मातस् त्वया कथितम् ॥२७॥
अस्ति ग्रन्थि-निबद्धं मम किंचिज् जनक-भाण्ड-शालात्तम् ।
तद् इदं गृहाण दुहितुर् मण्डन-भोग-व्यये योग्यम् ॥२८॥
इत्य् उक्त्वा सारतरं दत्त्वा तस्यै शिशुर् गुरु-द्रविणम् ।
तत् सन्दर्शितम् अविशच् छन्न-पथं पृथुल-हर्म्य-तल-कोष्ठम् ॥२९॥
तं प्रच्छाद्य स-हर्षा कृत्वा मिथ्या मुखं नव-विषादम् ।
अभ्येत्य विटान् अवदत् कङ्काली कलकलारम्भे ॥३०॥
आजन्म-सहज-सुहृदाम् अस्मत्-प्रणयोपचार-तुष्टानाम् ।
उचितः किम् अयम् अकस्माद् भवतां निन्द्यः समाचारः ॥३१॥
दस्यु-सुतस् तीक्ष्णतरः स भवद्भिः किं वणिक्-सुत-व्याजात् ।
रत्नाभरणाकीर्णं प्रवेशितो’स्मद्-गृहं रात्रौ ॥३२॥
अन्य-गणिका-प्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।
तत् किं स्त्री-वध-सदृशं क्रियते पृथु-साहसं पापम् ॥३३॥
स परं प्रभात-निद्रालव-विवशायां क्षणं कलावत्याम् ।
आदाय हार-सहितं केयूर-युगं गतः कामी ॥३४॥
श्रूयन्ते प्रतिनगरं भूषण-लुब्धैः पणाङ्गना निहताः ।
निज-देवता-प्रसादात् कलावती किं तु मुक्ताद्य ॥३५॥
तेन यद् एतन् नीतं राज-कुले कस्य मूर्ध्नि परिपतति ।
प्रतिभूर् भवद्-विधानां क्व गृहीतः पण्य-ललनाभिः ॥३६॥
पश्यत पश्यत लोकाः कलि-कालः कीदृशः प्रवृत्तो’यम् ।
स्निग्धाः सुहृदः सधनाः स्त्री-वध-पापं भजन्ते यत् ॥३७॥
को वेत्ति गुण-विभागं हस्तेन परीक्ष्यते कथं जातिः ।
दुर्ज्ञेयं कुटिलानां चेष्टितम् अन्यद् वचश् चान्यत् ॥३८॥
इत्य् उक्त्वा गृह-परिजन-कलहोदग्र-दुःसह-विकारा ।
कङ्काली राज-पथे चुक्रोश गतागतैस् तारम् ॥३९॥
तद्-भीत्यैव विटास् ते सपदि विवर्णा निरुत्तर-प्रतिभाः ।
निर्गत्योत्पथ-विवरैर् दूरतरे सङ्गमं चक्रुः ॥४०॥
अथ ते विचार्य सुचिरं भोग-भ्रष्टाः समापतित-कष्टाः ।
मिथ्यापवाद-नष्टा विफल-क्लिष्टाः मिथो जग्मुः ॥४१॥
जाताक्ष-पटल-दोषैर् इव नास्माभिर् व्रजन् वणिग्-दृष्टः ।
कङ्काल्यैव हृतो’साव् इत्य् अवदन् निर्गुटस् तत्र ॥४२॥
राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहो’स्माकम् ।
कुट्टन्यैव कृतो’यं परिशोचन्न् अब्रवीद् दिविरः ॥४३॥
विहिताङ्ग-हार-युक्तिः कुट्टन्या पूर्व-रङ्ग-योग्यो’यम् ।
अस्मन्-नृत्तं वृत्तं किम् अन्यद् इति नाट्यवित् प्राह ॥४४॥
कपट-तुलां कङ्कालीम् अङ्क-शताङ्काम् अहं वेद्मि ।
विहिस्तया भ्रमो’साव् इत्य् आह तुलाधरः कोपात् ॥४५॥
आकृष्य मेष-भोगाद् दूरतरं मित्र-मण्डलं वणिजः ।
काल-कलयेव नीतं कङ्काल्या गणक इत्य् ऊचे ॥४६॥
पेया मद्य-समृद्धिस् तयैव सा कृत-चिकित्सायाम् ।
लङ्घनम् इदम् उपदिष्टं तापाद् इत्य् अब्रवीद् वैद्यः ॥४७॥
नव-सुख-चरितं नष्टं कष्टं विभ्रष्ट-नियम-वृत्तानाम् ।
अस्माकम् एतद् अनुपमम् इत्य् आह कविः श्वसन् विरसः ॥४८॥
इति दुःख-कोप-विस्मय-लज्जाकुलिताः कथां मिथः कृत्वा ।
कुसुमाराम-भ्रष्टा इव मधुपास् ते विटाः प्रययुः ॥४९॥
अथ कङ्काली गूढं निःशल्यां काम-भोग-सामग्रीम् ।
आस्वाद्य निशाम् अनयन् निःशब्द-महोत्सवोत्साहा ॥५०॥
प्रातर् विचिन्त्य युक्तिं सा गत्वा हट्ट-भाण्ड-शालाग्रम् ।
कामि-जनकस्य वणिजः स्फीतार्थ-समृद्धिम् अद्राक्षीत् ॥५१॥
सो’पि महा-धन-सञ्चय-लाभ-विशेषे’पि सद्-ग्राहः ।
पुत्र-हृत-हेम-चिन्ता-सन्तापात् कातरतरो’भूत् ॥५२॥
उन्नत-बृसी-निविष्टः कोटि-त्रय-लेख्य-सम्पुटी-हस्तः ।
अर्थि-जन-वदन-दर्शन-मीलित-नयन-प्रसक्त-सततान्ध्यः ॥५३॥
बन्धादि-मोक्षणागत-लाभ-परित्याग-याचने बधिरः ।
अत्यल्प-पण्य-दान-प्रश्न-प्रतिवचन-जल्पेन मूकः ॥५४॥
तैल-मल-कलल-लाञ्छित-मूषक-जग्धार्ध-टुप्पिका-विकटः ।
शीर्णोर्णा-प्रावरण-प्रलम्ब-घन-कञ्चुकाञ्चलालोलः ॥५५॥
नग्नोरु-जानु-जर्जर-धूमारुण-पृथुल-शिथिल-मोचोटः ।
रूक्ष-श्मश्रु-कलाप-स्थूल-प्रचलल्-लटुम्पक-ग्रन्थिः ॥५६॥
निज-गृह-दिवस-परिव्यय-याच्ञा-गत-कन्यका-प्रहारोग्रः ।
रज्जु-ग्रथित-बुभुक्षित-मार्जारी-राव-निर्दय-प्रकृतिः ॥५७॥
दूराद् वितर्क्यमाणः स तया नासार्पिताङ्गुली-लतया ।
ख्यातः स एव वणिग् अयम् इति विदधे स निश्चितं तस्य ॥५८॥
साथ शनैर् उपसृत्य प्रविरल-जन-निर्मलावसरे ।
तम् अभाषत भाण्ड-पते वक्तव्यं किञ्चिद् अस्ति मम विजने ॥५९॥
पुत्रस् ते मुग्ध-मतिर् मृग-शिशुर् इव लुब्धकैर् विटैः कृष्टः ।
हारित-भूषण-वसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥
दयया प्रवेशितो’सौ मया स्व-गेहं मनोहराकारः ।
अविशत् क्षणं न जाने केन पथा मत्-सुता-हृदयम् ॥६१॥
स तया स्नानानन्तर-रुचिर् आम्बर-भूषणार्पण-प्रणयैः ।
राजार्ह-विविध-भोगैः काम इवाभ्यर्चितो भक्त्या ॥६२॥
वंशज-गौरव-योगात् सुवृत्तता-श्लाघ्य-रूप-सम्भारः ।
कण्ठे हार इवासौ कृतस् तया गुण-गणोदारः ॥६३॥
काय-पणार्जित-बहु-विध-राज-सुतामात्य-बहु-धनेन सह ।
अधुना त्वत्-तनयो’स्याः स्वामी प्राग्-जन्म-सम्बन्धात् ॥६४॥
उचिततर-सङ्ग-सुभगां दृष्ट्वैव कलावतीं राग-यौवनोन्मत्ताम् ।
तव हस्ते निक्षिप्तं स्त्री-धन-सहितं मया गेहम् ॥६५॥
यातायां मयि तीर्थं कञ्चित् कालं त्वया कलावत्याः ।
मुद्रा मुद्रितम् अखिलं सर्वस्वं पालनीयं तत् ॥६६॥
अद्य तु भवता कार्यः पुत्र-स्नेहात् स्नुषानुरोधाच् च ।
अस्मद्-गेहे स्वल्पो भोज्योत्सव-मङ्गलाचारः ॥६७॥
उक्त्वेति साश्रु-नयना कङ्काली तस्य वज्र-हृदयस्य ।
निपपात चरण-युगले सुत-लाभ-विशेष-तुष्टस्य ॥६८॥
स च ताम् उवाच भद्रे सर्वम् इदं हर्ष-कारि कुशलतरम् ।
किं तु त्वद्-गमनं मे नाभिमतं सह गमिष्यावः ॥६९॥
पर-भोजन-नियमवता भोक्तव्यं त्वद्-गृहे कथं नु मया ।
सम्भोजन-मूल्यं मे गृह्णासि तदा गमिष्यामि ॥७०॥
इत्य् उक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् ।
ताम् अन्तः स्मित-वदनां विसृज्य पश्चाद् ययौ भोक्तुम् ॥७१॥
तत्र सुतं स-विलासं दृष्ट्वा कान्ता-स-नाथ-सम्भोगम् ।
निर्व्यय-भोज्य-समृद्ध्या निश्चिन्तः प्रीतिमान् अभवत् ॥७२॥

कर्पूरैला-परिमल-रस-वासित-विविध-भोजनं भुक्त्वा ।
पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥७३॥
सततं दिन-व्ययं वः सर्वम् अहं समुचितं प्रदास्यामि ।
एवं-विधस् तु न पुनः कार्यः स्थूल-व्ययारम्भः ॥७४॥
इत्य् उक्त्वा स गृहं निजम् अगमद् गगन-स्थली-कृषि-कृताशः ।
लाभ-प्रदर्शनं किल लुब्ध-धियां वञ्चनोपायः ॥७५॥
अन्ये-द्युर् दिवस-व्ययम् आनेतुं कुटिल-चेतसस् तस्मात् ।
चित्त-ग्रहणाय निजां विससर्ज कलावती दासीम् ॥७६॥
सुचिरात् समेत्य दासी शराव-चञ्चत्-स-हिङ्गु-कण-भूर्जा ।
हस्तेन विस्फुटन्ती कलावतीं स-स्मिताम् अवदत् ॥७७॥
श्वशुरेण ते महार्घः प्रहितो’यं भूरि-भोज्य-सम्भारः ।
उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धु-वर्गश् च ॥७८॥
तैलस्य तोलकम् इदं तोलक-युगलं च चूर्ण-लवणस्य ।
दत्त्वा माम् इदम् ऊचे भ्रुकुटी-कुटिलाननः स परम् ॥७९॥
तैलम् इदं लवणम् इदं शाकाय श्वेतिका-द्वयं दत्तम् ।
वेश्यायाः किं कामी ददाति दिवस-व्यये लक्षम् ॥८०॥
इत्य उक्त्वा तत्-प्रहितं दासी सन्दर्श्य थूत्कृतं बहुशः ।
क्षिप्त्वा दूरे तन्-मुख-दर्शन-मलिनां निनिन्द दृशम् ॥८१॥
अन्येद्युः कङ्काली विचिन्त्य तद्-वञ्चने सुखोपायम् ।
प्रययौ कृत्वा विजने कलावतीं विदित-वृत्तान्ताम् ॥८२॥
सा वर्ण-मान-मुद्रा-सदृश-समुद्ग-द्वयं विधाय नवम् ।
एकस्मिन्न् आभरणान्य् अन्यस्मिन्न् उपल-खण्डिकां विदधे ॥८३॥
स्थूलतर-तूल-पटिका-प्रावरणं प्राप्य भाण्ड-शालाग्रम् ।
सा कक्षाञ्चल-संवृत-समुद्ग-युगलावदद् वणिजम् ॥८४॥
वाराणसी-प्रयाणे नक्षत्रं क्षिप्र-कृन् ममोपनतम् ।
नास्ति पुनर्-वसुना तव दर्शन-मात्रं मयि गतायाम् ॥८५॥
इदम् आभरणं सर्वं समुद्गक-न्यस्तम् अस्ति रत्नाङ्कम् ।
स्त्री-बाल-धनं भवता प्राण-समं सर्वथा रक्ष्यम् ॥८६॥
इत्य् उक्त्वा तत् सर्वं सन्दर्श्य पुनः सुमुद्रितं कृत्वा ।
निक्षिप्य पुरः प्रचुरं सा तम् अवादीत् सहेलैव ॥८७॥
पाथेयम् अतः पृष्ठाल् लाभे न ममोपयुज्यते लक्षम् ।
त्वं दातुम् अर्हसि सखे देवालय-धान्य-भुक्ति-संशोध्यम् ॥८८॥
इति लीलया ब्रुवाणा समुद्ग-युगलस्य विनिमयं कृत्वा ।
लक्षं क्षणाद् गृहीत्वा जगाम निज-वेश्म कङ्काली ॥८९॥
अथ निर्वर्तित-कृत्यां ज्ञात्वा ताम् आगतां वणिग्-भवनात् ।
शङ्ख-सुतं हर्म्य-गता प्रोवाच कलावती विजने ॥९०॥
त्वयि मे हृदयम् अकस्माद् अन्तः सक्तं बलान् न निर्याति ।
त्वं तु धनवान् विवाहं करिष्यसीत्य् एव मे शङ्का ॥९१॥

दिन-रमणीयः पुंसां जन्म-जघन्यस् तु गेहिनी-सङ्गः ।
तद् अपि विवाहे मोहाद् अविचारतरादराः पशवः ॥९२॥
नित्य-प्रसूति-हत-सुस्थिर-यौवनेषु
वेशोपचार-रहितेषु मदोज्झितेषु ।
गोष्ठी-विलास-रस-केलि-निरादरेषु
दारेषु का स्मर-रुचिः कलहाङ्कुरेषु ॥९३॥
जात्यैव कामि-जन-रञ्जन-जीवितासु
वेशोपचार-निरतासु स-सौरभासु ।
काम-प्रमोद-ममकासु सविभ्रमासु
वेश्यासु कस्य न रतिः सतत-स्मितासु ॥९४॥
कुरु मे प्रत्यय-हेतोर् धन-धारण-पत्रिकां विवहे त्वम् ।
विहिता सैव तवास्ते मत्त-गजस्याङ्कुश-शिखेव ॥९५॥

इत्य् उक्तः स रमण्या स्थूलतरोज्जास-पत्रिकाम् अलिखत् ।
नाम्ना विक्रम-शक्तेर् नृप-महिषी-भ्रातृ-पुत्रस्य ॥९६॥
अथ शय्या-भवन-गतं प्रातः स्वयम् एत्य कङ्काली ।
जामातरम् इदम् अवदन् मिथ्यैव स-खेद-वदनेव ॥९७॥
आसन्न-यौवनस् त्वं दुहितुर् मे यौवनं त्वया प्रायः ।
क्षपितम् अलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥९८॥
स्थिर-यौवनाः प्रकृत्या पुरुषाः किल ताल-साल-सङ्काशाः ।
ह्यः कन्यकाद्य तरुणी प्रातर् वृद्धा भवत्य् एव ॥९९॥
मासाद् अधिकायातं दिन-द्वयं पुष्प-दर्शन-स्नाने ।
अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥१००॥
यौवन-विभ्रम-शापस् तनु-नलिनी-तुहिन-निकर-घन-पातः ।
प्रसव-दिनं नारीणां पातकम् उग्रं स्तन-युगस्य ॥१०१॥
प्रसव-हृत-यौवनानाम् अधोमुखे लज्जयेव कुच-युगले ।
भवति न पण्य-वधूनां विक्रय-चर्चा तृणेनापि ॥१०२॥
स्थविरत्वे पुरुषाणां भवन्ति सुख-जीविकाः परिज्ञानैः ।
यौवन-नाशे वेश्या यदि परम् अटति स्फुटं भिक्षाम् ॥१०३॥
तस्माज् जनकाभावाद् अविकलम् आपत्स्यमान-निज-विभवम् ।
अधिकरण-पत्र-लिखितं प्रयच्छ सुमते कलावत्यै ॥१०४॥
इत्य् उक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्-तनयः ।
आपत्स्यमानम् अखिलं प्रददौ हृष्टः कलावत्यै ॥१०५॥
अथ शिथिलादरया स द्वित्रैर् दिवसैः समेत्य कङ्काल्या ।
कृत-सङ्केतः कङ्कः ॰ श्रुत्यै कलावतीम् ऊचे ॥१०६॥
अयि राग-दग्ध-हृदये कलावति व्रतवतीव कस्य त्वम् ।
एष त्वाम् अर्थयते ठक्कुर-पुत्रो रण-विलासः ॥१०७॥
देव-गृह-गज्ज-दिविरस् तव सतत-प्रार्थनानुबन्धेन ।
पद-मुक्ति-धन्य-काले गणयति चण्डं मकर-गुप्तः ॥१०८॥
अद्यापि महामात्यः सत्यरथस् त्वत्-कृते समर्घ-दिने ।
प्रहिणोति वस्त्र-युगलं न च प्रसादस् त्वयास्य कृतः ॥१०९॥
प्रेक्षणके त्वाम् दृष्ट्वा साहस-राजेन राज-पुत्रेण ।
त्वद्-गत-सरभस-मनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥
विरजसि वयसि नवे’स्मिन्न् एकश् चेदीप्सितस् तव स्वामी ।
तत् किं यौवन-भङ्गे ददाति कश्चिद् धनं मुग्धे ॥१११॥
याभिर् यौवन-समये रागेण धनार्जनं परित्यक्तम् ।
ता एताः पर्यन्ते भस्माङ्ग्यश् चीवरिण्यश् च ॥११२॥
कुच-काञ्चन-कलशवती नितम्ब-सिंहासना स्मित-च्छत्रा ।
एक-पुरुषोपसेव्या नूनं त्वं रति-रमण-राज्य-श्रीः ॥११३॥
भुक्तं मयास्य वित्तं दाक्षिण्यम् इति प्रनष्ट-विभवे’पि ।
मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्ति-करम् ॥११४॥
दासी दासी तावद् यावत् पुरुषस्य किञ्चिद् अस्ति करे ।
क्षीण-धन-पुण्य-राशेर् दुष्प्रापा स्वर्ग-नगरीव ॥११५॥
ह्यो दत्त्वार्थं कथम् इव गच्छाम्य् अद्येति निवसते प्रायम् ।
कः कुरुते वेश्यानां तत्-क्षण-धन-दान-भोग्यानाम् ॥११६॥
इति कङ्क-वदन-निर्गत-वचन-शरैर् दारितो वणिक्-तनयः ।
निश्चेष्टः क्षणम् अभवद् वैलक्ष्याद् वीक्ष्यमाणः क्ष्माम् ॥११७॥
अथ शूल-बन्धु-निधन-व्यसनाद्य्-अङ्ग-प्रसङ्ग-कथनाद्यैः ।
शय्यावहारम् अकरोत् कलावती शङ्ख-तनयस्य ॥११८॥
अद्य व्रत-नियमो मे दुःस्वप्न-निरीक्षणात् परं मातुः ।
षष्ठी-प्रजागरे’द्य च राजकुले तत्र मे शय्या ॥११९॥
अद्य वयस्यासूनोश् चूडाकरणं मृगाङ्क-दत्तस्य ।
इत्य् आदिभिर् अपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥
त्वरिता ततः प्रभाते कदाचिद् अभ्येत्य कम्प-विकलाङ्गी ।
कङ्काली शङ्ख-सुतं जगाद भय-सम्भ्रमार्तेव ॥१२१॥
उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिद् अविभाव्यम् ।
अस्मत्-कृते’द्य यूनोः सपत्न-कलहे वधो वृत्तः ॥१२२॥
नगर-पतिर् विषमतरः कलावती मित्र-मन्दिरं याता ।
त्वं तु वणिक्-सुत साधुर् धन-गन्धे धावति क्ष्मापः ॥१२३॥
तूल-पटीं त्यज पृष्ठाद् गृहाण तूस्तीं घरट्ट-मालातः ।
को जानीते वर्त्मनि किं कुरुते कः परिज्ञाय ॥१२४॥
इत्य् उक्ते कङ्काल्या मिथ्यैव विशल्य-वेश्म-करणाय ।

कृत्वा तद् उक्तम् अखिलं पङ्कः प्रययौ कुमार्गेण ॥१२५॥

वेश्यालताः सरागं पूर्वं तद् अनु प्रलीन-तनु-रागम् ।
पश्चाद् अपगत-रागं पल्लवम् इव दर्शयन्ति निज-चरितम् ॥१२६॥
इति समय-मातृकायाः कङ्काल्याः बुद्धि-संविभागेन ।
भुक्त्वा वणिजः सकलं कलावती पूर्ण-विभवाभूत् ॥१२७॥

इति बहुभिर् उपायैः कुट्टनी कामुकानां
कृत-सुकृत-विहीना वञ्चनां सा कृतघ्ना ।
वन-भुवि मृग-बन्धं हन्त पश्यन्ति नित्यं
तद् अपि हरिण-शावाः कूट-पाशं विशन्ति ॥१२८॥
समयेन मातृका सा कृत्रिम-रूपा कृता कलावत्याः ।
तन्-नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धो’यम् ॥१२९॥
इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-प्राप्तिर् नाम अष्टमः समयः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:19.9900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रहाळी

  • स्त्री. पु . 
  • दाट परिचय ; सहवास ( माणूस , व्यवहार यांशीं ). 
  • घरोबा ; निकट स्नेहसंबध . 
  • ( क्व . ) येणाराजाणारांची गर्दी , दाटी , वर्दळ . रहाळणें - क्रि . 
More meanings
RANDOM WORD

Did you know?

सौभाग्यवती स्त्रियांनी कुंकू का लावावे ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.