TransLiteral Foundation

समय मातृका - सप्तमः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।



कामुक-समागमः
N/Aअथाययौ शनैः श्रीमन्-नवोद्भूत-मनोभवः ।
लतालिङ्गन-कृद्-भालः कालः कुसुम-लाञ्छनः ॥१॥
सम्भोग-सुख-सम्पत्तिः पराधीनेव कामिनाम् ।
आललम्बे धनेशाशाम् इतीवाकलयन् रविः ॥२॥
दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः ।
जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥
दग्धे’न्धक-द्विषा रोषात् पुराणे पञ्चसायके ।
नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥
प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः ।
वेश्या इव मधु-क्षीवा विरेजुर् वनराजयः ॥५॥
नव-किसलय-लेखा-पङ्क्ति-सङ्गे लतानां
नख-मुख-लिपि-लीला-लोभिनीम् आकलय्य ।
मधु-मद-परिरम्भे भेजिरे लोहितत्वं
स्थल-कमल-वनानाम् ईर्ष्ययेवाननानि ॥६॥
क्षैण्य-क्षामं शिशिर-समयं वृद्धम् उत्सृज्य दूरे
त्यक्त्वा शीतं तरुणम् असकृद् गाढ-रागानुबन्धम् ।
उद्यान-श्रीर् मधुम् अभिमतं बालम् एवालिलिङ्ग
प्रायः स्त्रीणां वयसि नियतिर् नास्ति कार्यार्थिनीनाम् ॥७॥
अथ नापित-दूतेन कृत-द्वित्र-गतागता ।
मिथ्या कृत-निषेधापि ग्रहणाग्रहणे शिशोः ॥८॥
कथञ्चिद् अभ्यर्थनया गृहीतार्था कलावती ।
सन्ध्यायां मण्डनासक्ता ययौ वासक-सज्जताम् ॥९॥
कपोले कस्तूरी-स्फुट-कुटिल-पत्राङ्कुर-लिपिर्
ललाटे कार्पूरं तिलकम् अलकाली-परिसरे ।
तनौ लीना हेम-द्युति-परिचिता कुङ्कुम-रुचिः
स तस्या को’प्य् आसील् ललित-मधुरो मण्डन-विधिः ॥१०॥
प्रौढ-कामुक-सम्भोग-साक्षिणी बाल-सङ्गमे ।
नोचितास्मीति ताम् ऊचे लज्जया नत-मेखला ॥११॥
हारिणी सा तनु-लता हारिणी च कुच-स्थली ।
दृष्टिश् च हारिणी तस्या बभौ स्मर-विहारीणी ॥१२॥
अत्रान्तरे वणिक्-सूनुर् विवेश गणिका-गृहम् ।
आसन्न-लाभाभिमुखैर् आवृतं क्षेत्र-वासिभिः ॥१३॥

कर्ण-संसक्त-मुक्ताङ्क-कनक-स्थूल-बालकः ।
बहु-हेम-भराक्रान्ति-सव्यथ-श्रवण-द्वयः ॥१४॥
कण्ठाभरण-मध्यस्थ-हैम-रक्षा-चतुष्टयः ।
जननी-हस्त-विन्यस्त-सर्षपाङ्कित-चूलिकः ॥१५॥
राजावर्त-मणि-स्थूल-गुलिकाभ्यां विराजितम् ।
राजतं चरणालीनं बिभ्राणः कटक-द्वयम् ॥१६॥
मुहुर् दीर्घाञ्चल-दशां स्रस्तां सङ्कलयन् पटीम् ।
बहु-चूर्णक-ताम्बूल-दग्धास्य-कृत-सीत्कृतः ॥१७॥
स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् ।
कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥
कथं लालना-योग्यो’यं बालः सम्भोग-भाग् भवेत् ।
इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥
द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः ।
ऋत्विजः सप्त विविशुः पुरस् तस्य महा-विटाः ॥२०॥
निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।
रेचको भरताचार्यः क्षुण्ण-पाणिस् तुलाधरः ॥२१॥
गणकः सिंह-गुप्तश् च तिक्त-नामा भिषक्-सुतः ।
कटिः कुटिलकश् चेति भोगाम्भोरुह-षट्पदाः ॥२२॥
वेश्या-समागमे शैलीं शिक्षीतः स विटैर् बहिः ।
प्रविश्य कामिनी-पार्श्वे प्रौढ-वत्सम् उपाविशत् ॥२३॥
वाससाच्छाद्य नासार्धम् अप्रस्ताव-कटूत्कटाम् ।
नर्म-गोष्ठीं स विदधे शिक्षितां शुक-पाठवत् ॥२४॥
ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।
रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥
धन्यो’यं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः ।
युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥
शिशुर् अप्य् अयम् अस्माकं कामुको’भिमतः परम् ।
बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥
इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले ।
स्वीकृते भूर् अभूत् क्षिप्रं ताम्बूलावेल-पाटला ॥२८॥
ततः काली कलावत्या धात्री वेतालिकाभिधा ।
ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥
अत्यल्पः परिवारो’यं ताम्बूल-प्रणयी स्थितः ।
नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥
कङ्कः प्रथम-पूज्यो’यं देवाकृतिर् उदार-धीः ।
यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥
आमाता गौरवार्हो’यं पूज्यः कन्यार्पणेन नः ।
शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥
अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही ।
ह्यः पर्व-दिवसावाप्त शक्तिर् महा-व्रती ॥३३॥
अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।
गुरु-भ्राता कलावत्याः कल्पपालो मधु-प्रदः ॥३४॥
मृदङ्गोदर-नामायं कलावत्याः स्वसुः पतिः ।
मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥
इयं दत्तक-पुत्रस्य कलावत्याः कलायुषः ।
धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥
अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः ।
गायनः खर-दासो’यं महामात्यस्य वल्लभः ॥३७॥
निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः ।
बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥
रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् ।
आरामिकः करालो’यं कीलवर्तश् च नाविकः ॥३९॥
उद्यानपालः कन्दो’यं मुकुलाख्यश् च पौष्पिकः ।
चर्मकृद्-वर्मदत्तो’यं मार-च्छिद्रस्य धावकः ॥४०॥
बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।
डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥
ताम्बूलं देयम् एतेभ्यः प्रहेयं प्रातर् एव तु ।
सख्यै शम्बर-मालायै गुरवे दम्भ-भूतये ॥४२॥
उक्त्वेति पूग-फल-लुण्ठि-निविष्ट-चित्ता
वैतालिका विविध-वेश-वनी-प्रविष्टाः ।
चक्रुः प्रभूत-मधु-पान-विघूर्णमानास्
ताम्बूल-दान-बहु-मान-गतागतानि ॥४३॥
ततः क्षीवैर् असम्भाव्यं कत्थमानैर् विटैः परम् ।
उद्वेजितेव रजनी धूप-व्याजेन निर्ययौ ॥४४॥
नृपस्य बाहुर् युधि दक्षिणो’हं
ममैव राज्यं कलमान्तरस्थम् ।
मयि स्थिते तिष्ठति नाट्य-शास्त्रं
सूते तुला वित्त-पति-श्रियं मे ॥४५॥
त्रैलोक्य-वृत्तं गणितेन वेद्मि
मयैव भोजस्य कृता चिकित्सा ।
भुक्ता मया भूपतयः स्व-सूक्तैर्
इत्य् ऊचिरे मद्य-मदोद्धतास् ते ॥४६॥
विसृष्टास् ते कलावत्या ताम्बूलार्पण-लीलया ।
निर्ययुः कलयन्तो’न्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥
अथ वितत-वितानं हंस-शुभ्रोपधानं
शयनम् अमल-चीन-प्रच्छदाच्छादिताग्रम् ।
अभजत हरिणाक्षी क्षीवम् आदाय बालं
निज-परिजन-नर्म-स्मेर-वक्त्राम्बुज-श्रीः ॥४८॥
शिशुतर-रमणे’स्याः कौसुमामोद-लुभ्यद्-
भ्रमर-भर-निपातैर् घूर्णमानाः प्रकामम् ।
प्रसरद्-अगुरु-धूम-श्यामलाग्रा बभूवुर्
वलित-विरत-वक्त्रा लज्जयेव प्रदीपाः ॥४९॥
इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-समागमो नाम सप्तमः समयः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:19.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Surtax

  • उपरिकर 
  • पु. उपरिकर 
  • (a special tax levied against certain classes of persons or goods over and above the general charge upon the whole gorup, a graduated income-tax imposed on the amount by which the net income of an individual exceeds a specific sum) 
  • पु. उपरिकर 
More meanings
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site