समय मातृका - षष्ठः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।


अथ क्षण-क्षीण-धनायमाने
शनैः शनैर् निष्प्रतिभे शशङ्के ।
द्यौर् दोष-युक्तैव विलोकनेन
स-विप्लवा मीलित-तारकाभूत् ॥१॥
इन्दौ प्रयाते कृत-रात्रि-भोगे
प्रवेश-काले चिर-कामुकस्य ।
वेश्येव सन्ध्या गगनाङ्गनाग्रं
निर्दिष्ट-तारा-कुसुमं चकार ॥२॥
अथोदिते स्व-स्थिति-दान-दक्षे
बाले रवौ श्रीमति पङ्कजिन्याः ।
विकास-काले मधु-पान-केलिर्
अभूद् विटानाम् इव षट्-पदानाम् ॥३॥
कलावती मौक्तिक-भूषणाङ्का
धम्मिल्ल-माल्य-प्रणय-प्रसक्तैः ।
भृङ्गैर् वृता दर्पणम् ईक्षमाणा
स-तारका चन्द्रवती निशेव ॥४॥
स्मराङ्गना-केलि-शुकायमान-
कर-स्थ-ताम्बूल-विलास-पूर्णा ।
समातृका नापित-दत्त-हस्ता
कान्तां तनुं पण्य-दशां नयन्ती ॥५॥
स-लीलम् आक्रान्ति-विलोल-काञ्ची-
रवेण पारावत-दत्त-संज्ञा ।
अर्थार्थिनी राज-पथ-प्रकारं
हर्म्यं प्रियोत्सङ्गम् इवारुरोह ॥६॥
ताम् अब्रवीत् तत्-परिभोग-योग्यं
प्रातर् नवं कामुकम् ईक्षमाणः ।
विलोक्य कङ्कःशयनोत्थितानां
पण्याङ्गनानां गणयन् विचेष्टाः ॥७॥
आसन्न-मित्रागमम् उच्यमान-
समागमे वासर-वल्लभस्य ।
निर्यान्ति दीपा इव रात्रि-भोग्याः
पश्य प्रभाते गणिका-गृहेभ्यः ॥८॥
एष प्रबुद्धः सहसा जटा-भृल्-
लीला-शिवः कुक्कुट-कूजितेन ।
गृहान् नलिन्याः परिहृत्य राज-
रथ्यां कुमार्गेण मठं प्रयाति ॥९॥
एते निधेर् ग्रह-भट्ट-सूनोः
पृष्टा विटा रात्रि-सुखं प्रभाते ।
कर्तुं प्रवृत्ताः पृथु-भोज्य-भूरि-
व्ययाय भद्रा-भवने विभागम् ॥१०॥
प्राप्ते गृह-द्वारम् अनङ्ग-सारे
महा-विटे पश्य वसन्त-सेना ।
शून्य-प्रसुप्तापि पुरः समेत्य
निशीथ-भोगं कथयत्य् असत्यम् ॥११॥
भग्नाङ्गदा त्रोटित-कर्ण-पाली
मतङ्ग-नाम्ना गण-पालकेन ।
आत्मापराध् विनिगूहमाना
विरौति रामा जननी-जनाग्रे ॥१२॥
निर्गच्छतो ग्राम-नियोगिनो’स्य
ददाति गुप्तस्य समेत्य पश्चात् ।
इदं तथेदं च पुरः प्रहेयम्
इत्य् आदि सन्देश-शतानि वृद्धा ॥१३॥
सम्प्रस्थितेयं सह माधवेन
कोशं ध्रुवं पातुम् अनङ्ग-लेखा ।
अग्रे यद् अस्या मधु-कुम्भ-वाही
मेसं विकर्षन् पुरुषः प्रयाति ॥१४॥
टक्कस्य सा च्चलितस्य
विप्राय यत् स्कन्दकदान-काले ।
प्रसाधनाय स्वयम् एव गन्तुं
समुद्यता पश्य शशाङ्क-लेखा ॥१५॥
उद्यान-लीला-गमने निशायां
सुनिश्चिते मल्लिकयार्जुनस्य ।
कृतः प्रभाते नव-चीन-वस्त्र-
दानं विना पश्य मुहूर्त-विघ्नः ॥१६॥
मेष-प्रदस्येन्द्र-वसोर् द्विजस्य
मुक्त्वा प्रभूतं निशि काल-खण्डम् ।
विषूचिकार्ता विट-हर्ष-हेतुर्
वैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥१७॥
वैद्यो’प्य् असौ मण्डल-गुल्म-नामा
प्रभात-चारी नगरार्जितानि ।
समुद्युतः पूग-फलानि दातुं
कुरङ्गिकायै निज-मुष्टि-पूरैः ॥१८॥
कक्षाल-नाम्ना निशि गायनेन
वारावहारान् निश-भग्न-भाण्डा ।
गृह्णाति का नो चरण-स्पृशो’स्य
वरांशुकं कुण्ड-घटादि-मूल्यात् ॥१९॥
प्राप्तस्य शम्भोर् वणिजस् तु वारे
सुप्तस्य शून्ये शयने निशायाम् ।
नन्दा समेत्यापर-कामि-गेहात्
स-विप्रलम्भं शपथं करोति ॥२०॥
पितुर् गृहाद् भूरि-विभूषणानि
प्राप्तं गृहीत्वा मदनं मृणाली ।
निगूह्य सन्दर्शयति स्व-गेहं
शून्यं तम् अन्विष्टुम् उपागतानाम् ॥२१॥
भोज्यं विना पाटलिका प्रविष्टं
मुष्टि-प्रदं श्रोत्रियम् अत्रिरात्रम् ।
शुष्कान्न-दाता पितृ-कार्यम् एतत् किं
किं करोषीत्य् असकृद् ब्रवीति ॥२२॥
मार्जार-जिह्वा जननी हरिण्याः
पद्मस्य भोज्यं निशि लुण्ठितं यत् ।
तस्मिन् गते तद्-विजने विशङ्का
पश्य प्रभाते कवलीकरोति ॥२३॥
ईर्ष्या-विशेषात् कृत-कोप-वाद-
संमूर्च्छितायां मलयं रमण्याम् ।
विभूषणं तोषणम् आशु किञ्चिद्
अस्यै प्रयच्छेति वदन्ति सख्यः ॥२४॥
रागेण कृष्णीकृत-केश एष
बली-विशेष-स्फुट-वृद्ध-भावः ।
योगागृहं शम्बरसार-नामा
यागाय युग् येन गुरुः प्रयाति ॥२५॥
अयं जन-स्थान-विनाश-हेतुः
केतुः खर-क्रूरतया प्रसिद्धः ।
आस्थान-भट्टश् चिटिवत्स-नामा
प्रयाति युग्येन विशीर्ण-वस्त्रः ॥२६॥
उच्चैश् चिरात् सौध-निषक्त-दृष्टिर्
अश्वाधिरूढः कमलो’धिकारी ।
कलावति त्वाम् अयम् ईक्षमाणः
शूलार्पिताकार-तुलां बिभर्ति ॥२७॥
श्रीखण्डोज्ज्वल-मल्लिका-तिलकवान् अक्षाम-हेमाङ्गदश्
छिन्न-श्लिष्ट-विनष्ट-नासिकतया प्रख्यात-जार-ज्वरः ।
एष त्वाम् अवलोक्य मालव-पतेर् दूतः प्रपञ्चाभिधः
पश्योद्वेष्ट-विवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥२८॥

एष प्रख्यात-कूटः कपट-विट-घटा-नर्म-कर्म-प्रगल्भः
श्रीगुप्तो नाम धूर्तः सकल-कलि-कला-कल्पना-मूल-देवः ।
दृष्ट्वा दूरात् प्रसिद्धां तव नव-जननीम् अञ्जलि-श्लिष्ट-हस्तः
पश्याक्ष्णा दत्त-संज्ञः स्मित-चल-चिबुकः स्तोतुम् एतां प्रवृत्तः ॥२९॥

पातालोत्ताल-तालु-प्रवितत-वदन-स्पष्ट-दृष्टोग्र-दंष्ट्रा
विश्व-ग्रासावहेला-कुलित-शिखि-शिखा-विभ्रमोद्भ्रान्त-जिह्वा ।
मेषाणां चण्ड-मुण्डा-हरण-कटकटा-राव-पिष्टास्थि-संस्था
सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्ड-घण्टा ॥३०॥

एष स्फीत-घनस्य लोभ-वसतेः पापस्य मूर्ति-स्पृशः
शङ्खाख्यस्य महार्घ-हट्ट-वणिजः पङ्काभिधानः सुतः ।
आकृष्टः प्रतिवेश्म-निर्गत-विटैः सारङ्ग-मुग्धः शिशुः
सुभ्रु त्वां तुषराशि-लोल-चटकाकारः समुद्वीक्षते ॥३१॥

एष निधिर् विधिना तव नूनं
मेषमतिर् विधितः प्रहितो वा ।
स्थूल-मुखः पृथु-चूल-कलापः
स्कन्ध-युगाञ्चित-कर्ण-सुवर्णः ॥३२॥

इत्य् आदि कङ्केन वितर्क्यमाणं
वणिक्-सुतं दृक्-पतितं विचार्य ।
मनोरथाभ्यर्थित-लाभ-तुष्टा
कङ्कालिका स-स्मितम् इत्य् उवाच ॥३३॥

निर्यत्-ताम्बूल-लाला-लव-शवल-वलद्-ग्रीव-वक्त्रावलोकी
रक्तोपानद्-युगोद्यत्-सरसर-मुखर-प्रस्खलत्-पाद-चारैः ।
एवं-रूपो’तिमुग्धः शिशुर् अखिल-धनावाप्तये बन्धकीनां
अक्लेशाराधनार्हः स्वयम् उपनमति प्रायशः पण्य-पुण्यैः ॥३४॥

कलावति त्वन्-मुख-निश्चलो’यं
महा-विटश् चारण-चक्र-चारैः ।
निवेदितो’ग्रे तव देवतायाः
शिशुः पशुर् भोग-विभूति-कामैः ॥३५॥

पार्श्वे त्वम् एषां व्रज कङ्क तूर्णं
दूतं करिष्यन्ति भवन्तम् एते ।
तयेति दत्तोचित-शासनो’सौ
जगाम सौधाद् अवरुह्य हृष्टः ॥३६॥
इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां दूत-प्रेषणं नाम षष्ठः समयः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP