समय मातृका - पञ्चमः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।



अथ मन्मथ-मत्तानं करिणाम् इव कामिनाम् ।
बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥

श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये ।
मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥

पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् ।
ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥

कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् ।
लाक्षा-रागो’थ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥

हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः ।
सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥

रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः ।
काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥

सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च ।
वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥

राहु-रागो’ष्टमश् चेति रागा गगन-सङ्गिनः ।
श्रोत्र-रागो’क्षि-रागश् च रसना-संश्रयस् तथा ॥८॥

त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः ।
अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥

वृष-रागो’श्व-रागश् च कृकलासाह्वयस् तथा ।
मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥

मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः ।
शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥

मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः ।
कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥

केश-रागो’स्थि-रागश् च नखाख्यः पाणि-सङ्गतः ।
दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥

कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः ।
छाया-रागस् तथा भूत-रागो’पस्मारवान् अपि ॥१४॥

ग्रह-रागो’थ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् ।
पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥

कौसुमः कुम्भ-रागश् च नारङ्गाङ्को’थ दाडिमः ।
मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥

भ्रामरो’प्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।
भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥

रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः ।
संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥

कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः ।
स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥

अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः ।
तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥

तप्तः शीतश् च माञ्जिष्ट् स्थिर-भोग-क्षमः समः ।
स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥
सुरक्षितो’पि हारिद्रः क्षणेनैव विरज्यते ।
नीलो देह-क्षय-स्थायी वार्यमाणो’पि निश्चलः ॥२२॥

सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा ।
मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥

रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते ।
सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥

तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता ।
मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥

स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः ।
शैलो’पि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥

सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः ।
चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥

ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः ।
वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥

अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः ।
केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥

आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः ।
मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥

श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः ।
अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥

रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् ।
त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥

घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् ।
मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥

बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः ।
अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥

वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः ।
अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥

कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः ।
मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥

श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः ।
गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥

मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः ।
कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥

शुकाभिधो’न्तर् निःस्नेहः कामं मुख-सुख-स्थितिः ।
हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥

पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः ।
मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥

बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः ।
कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥

कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः ।
जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥

केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः ।
अस्थि-संस्थो’न्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥

नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः ।
प्राणि-नामा प्रबुद्धो’पि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥

दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा ।
पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥

तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः ।
कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नो’तिकत्थनः ॥४६॥

सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः ।
अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥

अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे ।
ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥

गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः ।
यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥

यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन्त्रणः ।
पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥

कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः ।
भग्नो’पि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥

नारङ्गः सरसो’प्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् ।
बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥

क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः ।
बीभत्साचार-वैरस्यात् कुष्ठाख्यो’तिजुगुप्सितः ॥५३॥

वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् ।
चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥

भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः ।
पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥

वृश्चिकाख्यो व्यथा-दायी द्वेष्यो’प्य् अत्यन्त-निश्चलः ।
त्यक्ताहारो’तिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥

भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः ।
स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥

रति-ग्रहः सदा स्वप्ने सम्प्राप्त-सुरतोत्सवः ।
रौधिरः कलहे रक्त-पातैर् नीचस्य वर्धते ॥५८॥

इत्य् अशीतिः समासेन राग-भेदाः प्रकीर्तिताः ।
विस्तरेण पुनस् तेषां कः सङ्ख्यां कर्तुम् अर्हति ॥५९॥
सुहृज् जनार्दनं कुर्यात् पूर्वं वार-विलासिनी ।
वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥

सुहृद्भिर् एव जानाति कामुकानां धनं गुणम् ।
हृदय-ग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥

महा-धनस्य सुहृदां कामिनां प्रेम-शालिनाम् ।
प्रच्छन्न-सुरतेनापि कुर्याद् आराधनं सदा ॥६२॥

एको वित्तवतः सूनुः पितृ-हीनः सुयौवने ।
मुग्धे भूभुजि कायस्थः कामि-स्पर्धी वणिक्-सुतः ॥६३॥

नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः ।
प्रच्छन्न-कामो जाड्यः धनः ॥६४॥
नपुंसक-प्रवादस्य प्रशमर्थी फलाशनः ।
मत्तो धूर्त-सहायश् च राज-सूनुर् निरङ्कुशः ॥६५॥

ग्राम्यो धातृ-द्विज-सुतः प्रप्त-लाभश् च गायनः ।
सद्यः सार्थ-पतिः प्राप्तः श्रीमान् दैव-परायणः ॥६६॥

गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः ।
नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥

प्रथमं प्रार्थिता वेश्या न क्षणो’स्तीत्य् उदाहरेत् ।
जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥

शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् ।
अवहारोपयोगाय पूर्वम् एव समादिशेत् ॥६९॥
पत्नीव कुर्याद् अनुवृत्ति-पूर्वं
पूर्वं महार्थस्य वरोपचारम् ।
द्रव्यैस् त्वया मन्त्र-जपादिभिर् वा
वशीकृतास्मीति वदेच् च सर्वम् ॥७०॥
स्वयं प्रदत्ते’पि नख-क्षते च
शङ्केत तद्-भक्ति-विवाद-शीलम् ।
निन्देत् प्रकामं जननीं विरुद्धां
गच्छेत् स्वयं वेश्म च कामुकस्य ॥७१॥
विदेश-यात्राम् अपि मन्त्रयेत
तेनैव सार्धं विहितानुबन्धा ।
सुप्तस्य कुर्यात् परिचुम्बनम् च
गुण-स्तुतिं चार्ध-विबोध-भाजः ॥७२॥
स्वप्ने सदैव प्रलपेत् सरागं
सर्वं च तन्-नाम-निबद्धम् एव ।
न चास्य तृप्तिं सुरतेषु गच्छेद्
व्ययस्य कुर्याच् च मुहुर् निषेधम् ॥७३॥
तस्माच् च पुत्रार्थ-मनोरथा स्यात्
प्राणात्ययं तद्-विरहे वदेच् च ।
इत्य् आदिभिः स्वीकरणाद्य्-उपायैर्
निबद्ध-बुद्धेर् द्रविणं लभेत ॥७४॥
तावच् च तूर्णं धनम् आहरेत
यावत् स रागेण विनष्ट-संज्ञः ।
प्रशान्त-रागानल-शीतलस् तु
स लोह-पिण्डी-कठिनत्वम् एति ॥७५॥
याचेत सर्वं सुरतार्ति-काले
तम् ऊरु-बन्धेन निरुद्ध-कायम् ।
प्रायेण तृप्ताय न रोचते हि
विनम्र-शाखा-परिपक्वम् आम्रम् ॥७६॥
सन्धारयेत् तं च विशेष-वित्तं
यावन् न निःशेष-धनत्वम् एति ।
पुनः पुनः स्नेह-लवार्द्र-वक्त्रा
दीपं यथा दीपक-दीप-वर्तिः ॥७७॥
निष्पीत-सारं विरतोपकारं
क्षुण्णेक्षु-शुल्क-प्रतिमं त्यजेत् तम् ।
लब्धाधिवास-क्षय-कारि-शुष्कं
पुष्पं त्यजत्य् एव हि केश-पाशः ॥७८॥
हेमन्त-मार्जार इवातिलीनः
स चेन् न निर्याति निरस्यमानः ।
तद् एष कार्यस् तनु-मर्म-भेदी
प्रवर्धमानः परुषोपचारः ॥७९॥
शय्यावहारैर् वचन-प्रहारैः
कोप-प्रकारैर् जननी-विकारैः ।
कौटिल्य-सारैर् विविध-प्रसारैर्
विपद्-विचारैर् गणितापचारैः ॥८०॥
याच्ञा-विवादैर् अधनापवादैर्
दत्तानुवादैः पर-साधु-वादैः ।
निन्दा-प्रवादैः परुष-प्रवादैर्
विट-प्रवादैः कथितावसादैः ॥८१॥
मुहुः प्रवासैः कलहोपवासैर्
माया-निवासैः कटुकाधिवासैः ।
स-भ्रू-विलासैर् व्यसनोपवासैर्
निष्कासनीयः स पृथु-प्रवासैः ॥८२॥
स चेत् पुना राग-जतु-प्रसक्तस्
तीव्रावमानैर् अपि न प्रयाति ।
तदा तम् उत्क्षिप्त-भुजान्य-वक्त्रा
दासी वदेद् वित्त-वियोग-दीनम् ॥८३॥
यत्राभवत्-कामुक-लोक-यात्रा
विचित्र-रूपा सततं विभूतिः ।
गृहे चतुर्थं दिनम् अद्य तस्मिन्
दृष्टस्य दृष्टस्य वधूत्सवस्य ॥८४॥
क्लीबस्य यस्यास्ति न भोग-सम्पत्
स किं भुजिष्याभवने करोति ।
न यस्य हस्ते तर-मूल्यम् अस्ति
स किं समारोहति नावम् अग्रे ॥८५॥
प्रक्षीण-वित्तेन निरुद्यमेन
किं रूप-युक्तेन करोति वेश्या ।
विच्छिन्न-दुग्धा न पुनः स-गर्भा
सा कस्य गौश् चारुतयोपयुक्ता ॥८६॥
मिथ्यैव रिक्तः कुरुते जडानाम्
आवर्जनं प्रेम-मयैर् वचोभिः ।
क्षीर-क्षये चुम्बन-लालनेन
बालस्य वृद्धिं विदधाति धात्री ॥८७॥
इत्य् आदिभिस् तद्-वचनावमानैस्
तस्मिन् गते ग्रीष्म-तुषार-तुल्ये ।
क्षिणं निरस्तं पुनर् आप्त-वित्तं
भजेत यत्नाहृत-वित्तम् अन्यत् ॥८८॥
प्राप्ते कान्ते कथम् अपि धनादान-पात्रे च वित्ते
त्वं मे सर्वं त्वम् असि हृदयं जीवितं च त्वम् एव ।
इत्य् उक्त्वा तं क्षपित-विभवं कञ्चुकाभं भुजङ्गी
त्यक्त्वा गच्छेत् स-धनम् अपरं वैशिको’यं समासः ॥८९॥
उद्देश-लेशेन यद् एतद् उक्तं
तत्-कार्य-काले विविध-प्रयोगम् ।
तस्मिन् स्व-बुद्ध्यैव विचार्य कार्यम्
उक्त्वेति तूष्णीं जरती चकार ॥९०॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां राग-विभागोपन्यासो नाम पञ्चमः समयः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP