TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

समय मातृका - चतुर्थः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।
 


पूजाधरोपन्यासः
अस्मिन्न् अवसरे धूर्त-वार्ता-लीना सुकुट्टनी ।
नापिताख्येन तमसा रजनीव सहाययौ ॥१॥

अस्थि-यन्त्र-शिरा-तन्त्री लीनान्त्रोदर-कृत्तिका ।
शुष्क-काय-करङ्काङ्कावृतेव कट-पूतना ॥२॥

वहन्ती सुबहु-च्छिद्रं शरीरं चर्म-बन्धनम् ।
अन्तर्गत-जगद्-व्याज-शिक्षा-शकुनि-पञ्जरम् ॥३॥

सर्वस्व-ग्रहणेनापि लम्बमान-मुखी सदा ।
तुलेवाङ्क-सहस्राङ्का त्रैलोक्य-तुलने कलेः ॥४॥

समा समधने पापे स-पापाधमगाधमे ।
धात्रा कृत्रिम-रागस्य स्वर-मालेव निर्मिता ॥५॥

सुस्पष्ट-दृष्ट-दीर्घोग्र-दशना भीषणाकृतिः ।
प्रसव-क्रूर-कोपेन संस्थितास्थिरता शुनी ॥६॥

उलूक-वदना काक-ग्रीवा मार्जार-लोचना ।
निर्मिता प्राणिनाम् अङ्गैर् इव नित्य-विरोधिनाम् ॥७॥

वेश्यावनैक-पालिन्या यया राग-महा-व्रते ।
कृता कामुक-लोकस्य खट्वाङ्ग-शरणा तनुः ॥८॥

सक्ताश्रु-पात-जननीं तां विलोक्य कलावती ।
अभिचार-हुतस्याग्नेः कालीं धूम-शिखाम् इव ॥९॥

स-सम्भ्रमोत्थिता तस्याः कृत्वा चरण-वन्दनम् ।
दत्त्वा निजासनं चक्रे स्तुतिं पूजा-पुरःसरान् ॥१०॥
वेश्योपदेश-विषये चतुराननत्वान्
माया-प्रपञ्च-निचयेन जनार्दनत्वात् ।
रिक्त-प्रसक्त-कलहैर् अतिभैरवत्वात्
सर्ग-स्थिति-क्षय-विधातृ-गुणा त्वम् एव ॥११॥
उद्भिन्न-यौवन-मनोहर-रूप-शोभा-
सम्भाविताभिनव-भोग-मनोभवानाम् ।
एणीदृशां त्वद्-उपदेश-विवर्जितानां
मातर् भवन्ति नहि नाम समीहितार्थाः ॥१२॥
तस्माद् भजस्व परिकल्पित-पुत्रिकां मां
भक्ताम् अनन्य-शरणां शरणं प्रपन्नाम् ।
आत्मार्पण-प्रणयिनां नव-दर्शने’पि
जात्यैव पेशल-धियः सदया भवन्ति ॥१३॥
इत्य् अर्थिता कलावत्या प्रत्यासन्न-सुख-स्थितिः ।
मनुष्यामिष-कङ्काली कङ्काली ताम् अभाषत ॥१४॥
सङ्क्रान्त-हृदय-स्नेहा निःशूल-प्रसवोद्भवा ।
गर्भ-भारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥

कङ्केन जन्म-सुहृदा त्वद्-अर्थम् अहम् अर्थिता ।
स्यूतेयं मे विट-च्छिन्ना नासा येन पुनः पुनः ॥१६॥

पात्रं मद्-उपदेशस्य त्वम् एव त्रिदशोचिता ।
सद्-भित्ति-लिखितं चित्रं चित्रताम् एति नेत्रयोः ॥१७॥

श्रूयतां प्रथमं पुत्रि भूत्यै यत् कथयाम्य् अहम् ।
कला-कोषं तु कालेन नित्याभ्यासाद् अवाप्स्यसि ॥१८॥

न कुलेन न शीलेन न रूपेण न विद्यया ।
जीविताभ्यधिकं बुद्धि-लभ्यं धनम् अवाप्यते ॥१९॥

प्रायेण जगति प्रज्ञा नाना स्ति कस्यचित् ।
इयतीं जगतीं वेद्मि पूर्णाम् ऊर्णायिभिर् जडैः ॥२०॥
अज्ञात-कालोचित-कर्म-योगा
रोगा इवाहर्निश-पच्यमानाः ।
जगत्-त्रये देव-मनुष्य-नागाः
प्रज्ञा-दरिद्राः खलु सर्व एव ॥२१॥
ज्येष्ठेन तावत् परमेष्ठिनैव
विचार-शून्येन कृतं किम् एतत् ।
यत् कामिनी-पीन-पयोधराणां
विद्युद्-विलोला किल यौवन-श्रीः ॥२२॥
का नाम बुद्धि-हीनस्य विधेर् अस्ति विदग्धता ।
कूष्माण्डानां न यश् चक्रे तैलम् ऊर्णां च दन्तिनाम् ॥२३॥
रत्नार्थिना जलनिधौ मधुसूदनेन
क्लेशः किलाद्रि-वलन-प्रभवो’नुभूतः ।
किं सैव पूर्वम् अखिलार्थ-विलुण्ठनाय
कान्ताकृतिः कपट-काम-मयी न सृष्टा ॥२४॥
निद्रा मही-भार-परिग्रहश् च
श्री-संश्रयत्वं पर-याचनं च ।
अत्युन्नतत्वं गुण-हीनता च
किं युक्तम् एतत् पुरुषोत्तमस्य ॥२५॥
कृशः शशी गुणा नग्ना भार्या वस्त्रार्ध-हारिनी ।
शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥
भस्माङ्गः प्रकटं बिभर्ति ललनां यो’ङ्गे स किं युक्त-कृन्
निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः ।
यः सक्तः परमेश्वरो’पि वृषभृद्-वर्गे स किं नीतिमान्
गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धी-धनः ॥२७॥
किं कामिनी-प्रणयिना दिन-नायकेन
संशातितं भ्रम-कृता कृतिना स्व-तेजः ।
अर्थेन किं न विहिताभिमुखा मृगाक्षी
वित्तेन तीक्ष्णतरम् अप्य् अबला सहेत ॥२८॥
चन्द्रस्येश्वर-सेवया कृश-तनोः क्षैण्यं न निर्मूलितं
मानी मूर्ध्नि जडः स्थितः कथम् इव प्राप्नोति सम्पूर्णताम् ।
वृद्ध्य्-अर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं
हन्त्य् एव स्व-समीहितं गुण-मदाद् उच्चैः स्थितः सेवकः ॥२९॥
यातः प्रतारयितुम् ईश्वरम् अङ्गनायां
मारः पुरा किम् इति कार्मुक-बाण-पाणिः ।
नाग्रे ततान वनिता-गुण-वर्णनानां
यत् सौ तेन नियतं विननाश मूर्खः ॥३०॥
रक्तो’प्य् अशोक-विटपी परपुष्ट-बन्धोः
प्राप्नोति यस्य विभवे चरण-प्रहारम् ।
तस्मै समृद्दि-सचिवैर् मधुपैर् निपत्य
धूतैर् निपीत-मधवे मधवे नमो’स्तु ॥३१॥
स्वाम्यं सर्व-जगत्सु दिव्य-मुनयस् तत्रोचिता मन्त्रिणो
राष्ट्रं स्वर्ग-मही महा-मणि-गुरुः कोषः सुधाम्भोनिधिः ।
दुर्गं मेरु-शिरः स्व-सैन्यम् अमराः श्रीमान् मुरारिः सुहृत्
सा बुद्धिर् विबुधाधिपस्य तु यया व्याप्तं भगाङ्कैर् वपुः ॥३२॥
लुब्धस्याफल-कालकूट-कटुक-क्रोधस्य निस्तेजसः
सर्वाक्रान्ति-निपीडितस्य जलधेर् दातुं प्रवृत्तस्य ते ।
सङ्ख्यातीत-समस्त-रत्न-वसतेर् मूर्खाः किइम् एतावता
मोहाद् एक-गजाश्व-पादप-सुरा-मात्रेण तुष्टाः सुराः ॥३३॥
रामेण हेम-हरिणाहरणोत्सुकेन
कूटाक्ष-केलि-सरणेन युधिष्ठिरेण ।
ईर्ष्या-रुषा दिव्ज-रुषा जनमेजयेन
दत्तः परं मनुज-वर्त्मनि मौग्ध्य-सेतुः ॥३४॥
नागैस् तार्क्ष्य-समर्पितं तद् अमृतं यत्न-श्रमैर् दुर्लभं
नो पीतं न विलोकितं न पिहितं मोहात् परं हारितम् ।
तस्मान् नास्ति जगत्-त्रये’पि विमलः प्रज्ञा-कणः कस्यचित्
सर्वः प्राक्तन-जन्म-कर्म वशाद् अर्थोद्यमे धावति ॥३५॥
एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥

मुग्धः प्रत्ययम् आयाति प्रत्यक्षे’प्य् अन्यथा कृते ।
माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥

पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।
ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥

मुग्धस् ततो’वमानेन सो’भिजातो’भिमानवान् ।
जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥

साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् ।
न मया ष्ठीवितं किञ्चिद् भित्तौ पाणिः प्रमृज्यताम् ॥४०॥

जात्या चर्म-मयं चक्षुस् तस्मिन् कः प्रत्ययस् तव ।
मम सद्-भाव-शीलायाः प्रमाणं वचनं न किम् ॥४१॥
इत्य् उक्त्वा तीव्र-शपथैर् गलहस्तादि-वादनैः ।
स मया प्रकृतिं नीतस् तथेति प्रत्ययं ययौ ॥४२॥

पदे पदे जगत्य् अस्मिन् निधिर् देवेन निर्मितः ।
विट-चारण-वेश्यानां बुद्धि-हीनावलम्बनम् ॥४३॥
नव-यौवन-काले मे गृहं विप्र-सुतः पुरा ।
विवेश रात्रि-भोगाय नाम्ना शङ्कर-वाहनः ॥४४॥

शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् ।
तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥

कठिनो’यं निशा दीर्घा क्षपिता कामुकैर् अहम् ।
तस्माद् भोगावहारो’स्य मया कार्यः प्रयत्नतः ॥४६॥
इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः ।
आसन्न-शय्यावसरे यामः पूर्वो’तिवाहितः ॥४७॥

कथा-बन्धे’थ विरते तत्-सङ्गम-निवृत्तये ।
शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥

सो’थ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः ।
चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥

सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।
प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥

ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया ।
पशु-बुद्धिर् वराको’यं मया शूलेन वाहितः ॥५२॥

अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा ।
भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥

तस्माद् एव रति-स्पृष्टीकार्यस् तावद् यथा तथा ।
न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥

इति ध्यात्वाहम् आरब्ध-रति-भोगा क्षपा-क्षये ।
प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥

आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः ।
अलं मत्-सङ्गमेनेति सानुरोधो’वदत् स माम् ॥५६॥

आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः ।
मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥

अहो बतामृत-स्पर्शस् तवाङ्गेषु विभाव्यते ।
अधुनैव मया दृष्टं यस्य प्रत्यक्ष-लक्षणम् ॥५८॥

गूढाङ्गेन त्वया स्पृष्टे ममास्मिन् रमण-स्थले ।
न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥

इति श्रुत्वैव मद्-वक्यम् सहस साश्रु-लोचनह् ।
रत्य्-अर्ध-रवितः शोकात् सो’न्तः सानुशयः परम् ॥६०॥

निजं वक्षो ललाटं च ताडयित्वा स पाणिना ।
हा कष्टं हा हतो’स्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥

पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः ।
शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥

मन्द-पुण्यस्य जननी वात्सल्य-जननी मम ।
सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥

विदितो’यं प्रकारश् चेद् अभविष्यद् असंशयः ।
तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥
इत्य् उक्त्वा वञ्चितो’स्मीति स रुदित्वा विनिर्ययौ ।
पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥
नित्यं भोजन-मैथुन-प्रणयिनस् त्यक्तान्य-कार्याः परम्
लोके’स्मिन् गल-गर्त-मात्र-सुखिनः सन्त्य् एव शून्याशयाः ।
ये मेष-प्रतिमाः क्षयोद्यत-मतेः सर्वस्व-हर्तुः क्षणाद्
आप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कम् अङ्के शिरः ॥६६॥
इत्य् अबुद्धि-धनाधान-निधानैर् विविधोदयैः ।
कूट-पुण्यैर् असामान्यैस् तारुण्यम् अतिवाह्यते ॥६७॥

असत्येनैव जीवन्ति वेश्याः सत्य-विवर्जिताः ।
एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥
सत्यं विनाशाय पराङ्गनानां
असत्य-सारा गणिका-गण-श्रीः ।
सत्येन वेश्या किल दृष्ट-सारा
दरिद्र-शाला इव कस्य सेव्याः ॥६९॥
दानेन नश्यति वणिङ् नश्यति सत्येन सर्वथा वेश्या ।
नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥

वेश्या-जनस्य कितवस्येव वञ्चन-मायया ।
अहो वैदग्ध्यम् इत्य् उक्त्वा परो’पि परितुष्यति ॥७१॥
पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् ।
प्राप्ता वेश्यास्पदं लोभात् पुरं पाटलिपुत्रकम् ॥७२॥

कुट्टन्यस् तत्र सर्वज्ञा दृष्ट्वा माम् अल्प-कौशलाम् ।
जहसुः स-स्वनं येन ह्रीताहं क्ष्माम् इवाविशम् ॥७३॥

ततस् तेनावमानेन गणेशायतनाग्रतः ।
स्थिता कृतोपवासाहम् अहङ्कार-विवर्जिता ॥७४॥
अथ स्वप्ने गणेनाहं पृष्टा शङ्कर-सूनुना ।
उपवासाः कियन्तस् ते प्राप्ता इति पुनः पुनः ॥७५॥

स मयाभिहितः कूट-कृत-प्राणान्त-चेष्टया ।
मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥

तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः ।
अहो व्रते’पि स्वप्ने’पि नासत्याद् अस्ति ते च्युतिः ॥७७॥

परितुष्टो’स्मि ते भद्रे निश्चलासत्य-निश्चयात् ।
महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥

गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ ।
असत्येनैव वेश्यानां भवन्ति धन-सम्पदः ॥७९॥
धन-प्रधानं जन-जीव-भूतं
लोकेषु तत्रापि विशेष-योगात् ।
जनाभिसार-प्रतिपत्ति-भाजां
महीभुजां वेश-मृगीदृशां च ॥८०॥
धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् ।
प्रज्ञार्थौ जीव-लोके’स्मिन् परस्पर-निबन्धनौ ॥८१॥

ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः ।
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥

स एवाहृदयो राहुर् अलसः स शनैश्चरः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥

सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् ।
धनिकस्य विकारो’पि क्षीबस्येव जन-प्रियः ॥८४॥

धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः ।
निष्फलस्यापि लोको’यं सम्पर्कं बहु मन्यते ॥८५॥

निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् ।
स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥

सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् ।
गति-प्रदो’र्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥

विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः ।
सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥

गुणिनां चित्त-वैकल्याद् गुणा निर्गुण-वाञ्छया ।
हृदयेष्व् एव सीदन्ति विधवानाम् इव स्तनाः ॥८९॥
विद्वद्भिः परिवारिताः सगुणताम् आयान्ति वित्तैर् नराः
शूरत्वं सुभतैः कुलोन्नततरैः प्रख्यात-सद्-वंशताम् ।
तस्माद् वित्त-समाश्रये गुण-गणे वित्ते च नान्याश्रये
वित्तं वित्तम् अनन्य-चित्त-नियताः सम्पन्-निमित्तं नुमः ॥९०॥
अम्लान-माल्याभरणाम्बरस्य
वराङ्गना-नन्दन-मन्दिरस्य ।
नित्य-प्रकाशोत्सव-सेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥९१॥
अशेष-दोषापगम-प्रकाश- मित्रागमोत्साह-महोत्सवार्हम् ।
विकास-शोभां जनयत्य् अजस्रं
धनं जनानां दिनम् अम्बुजानाम् ॥९२॥
वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः
सद्भिर् जन्तुर् उपैति साधु-पदवीं किं वा बहु ब्रूमहे ।
वित्तेन व्रत-तीर्थ-सार्थ-सरण-क्लेशाभियोगं विना
तीर्यन्ते तत-पातक-व्यतिकरास् ते ब्रह्म-हत्यादयः ॥९३॥
श्रूयतां यत् पुरा वृत्तं वाराणस्यां स्वयं मया ।
श्रुतं विश्रुत-सत्त्वस्य चरितं गृहमेधिनः ॥९४॥

तत्राभवद् ग्र्हपतिर् धरातल-धनाधिपः ।
द्विजन्मा श्रीधरो नाम महाब्धिर् इव रत्नवान् ॥९५॥

अर्थि-कल्पतरोस् तस्य राजार्ह-वर-भोजनैः ।
अवारितम् अभूद् गेहे भोज्य-सत्त्रं सदार्थिनाम् ॥९६॥

तस्य विप्र-सहस्रेषु भुञ्जानेषु सदा गृहे ।
लोके युधिष्ठिर-कथा श्लथादर-कथां ययौ ॥९७॥

ततः कदाचिद् आचार-निधेस् तस्य समाययौ ।
नियतात्मा यतिर् गेहं ज्ञानात्मा नाम दिव्य-धीः ॥९८॥

स पूज्यः पूजितस् तेन श्रद्धयोपनिमन्त्रितः ।
पाक-शालां ययौ द्रष्टुं भक्ष्य-राशि-शतान्विताम् ॥९९॥

तत्रापश्यत् स सर्वान्न-व्यञ्जनादि-गणोपरि ।
सित-यज्ञोपवीताङ्कं लम्बमान-तनुं शवम् ॥१००॥

स्रवद्भिस् तस्य गात्रेभ्यः सूक्ष्म-शोणित-बिन्दुभिः ।
अन्नं सर्व-जनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥

दृष्ट्वा तद् अतिबीभत्सं घृणा-सङ्कुचिताशयः ।
संस्पृष्ट-कर्णः स ययौ ततस् तूर्णम् अलक्षितः ॥१०२॥
अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् ।
सो’पश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥

शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् ।
स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥

वर्षेण पुनर् आयातः सो’स्थि-शेष-शव-स्रुतैः ।
अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥

कौतुकाद् वत्सरे याते सो’पश्यत् पुनर् आगतः ।
कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥

षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् ।
रम्यं महानसं दृष्ट्वा पुरोहितम् उवाच सः ॥१०७॥

अहो गृहपतेर् अस्य महा-सत्रेण पातकम् ।
क्षीनम् अल्पेन कालेन लीढं याचक-कोटिभिः ॥१०८॥

बभूव पूर्व-पुरुषोपार्जितास्य गृहाश्रया ।
ब्रह्म-हत्या शतवती सात्र दानात् क्षयं गता ॥१०९॥

यैस् तस्य भवने भुक्तं तैस् तत्-पापं समाहृतम् ।
पापम् अनाश्रयं पुंसां होक्तारम् उपसर्पति ॥११०॥

ब्रह्म-हत्या भवस्यापि या बभूव भय-प्रदा ।
धनेन क्षपिता सेयम् अहो धनम् अहो धनम् ॥१११॥
इत्य् उक्त्वा स शिला-पट्टे लिखित्वा श्लोकम् आदरात् ।
पुरोहितेनार्च्यमानः प्रययौ ज्ञान-लोचनः ॥११२॥

वाच्यमानः स विद्वद्भिः कस् तवाद्भुत-वादिभिः ।
श्लोकार्थ-गौरव-रसान् मया तत्र स्वयं श्रुतः ॥११३॥
शमयति चितं पापं शापं विलुम्पति दुःसहं
कलयति कुलं कल्याणानाम् कलङ्क-कणोज्झितम् ।
धनम् अकलुषं तीर्थं पुंसां तद् एव महत् तपः
सुकृत-निधये श्रद्धा-धाम्ने धनाय नमो नमः ॥११४॥
एतद् आकर्ण्य युक्तार्थम् अर्थ-स्तुति-मयं मया ।
नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥

कुरु चित्तार्जनं तूर्णं भवति योषिता ।
न यौवन-सहायो’यं तनये काय-विक्रमः ॥११६॥
तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा ।
पयोधरोद्गम-प्रावृट् चपला यौवन-द्युतिः ॥११७॥

तारुण्ये तरले सुभ्रूर् भ्रमद्-भ्रू-भङ्ग-विभ्रमे ।
स्त्रीणां पीन-स्तनाभोगा भोगा द्वि-त्रि-दिनोत्सवः ॥११८॥
अयं मुख-सरोरुह-भ्रमर-विभ्रमः सुभ्रुवां
कुच-स्थल-कुरङ्गकः पृथु-नितम्ब-लीला-शिखी ।
न यौवन-मदोदयश् चरति चारु-कान्ति-च्छटा-
कुल-त्रिवलि-कूलिनी-पुलिन-राजहंसश् चिरम् ॥११९॥
आलानम् उन्मूल्य सुखाभिधानं
तारुण्य-नागे गमनोद्यते’स्मिन् ।
पलायते कामि-गणे’ङ्गनानां
विमर्द-भीत्येव कुचाः पतन्ति ॥१२०॥
युवति-तटिनी-प्रावृट्-कालः स-पीन-पयोधरः
कृत-मद-भरारम्भः कामी विलास-शिखण्डिनाम् ।
मदन-पवनालोल ॥१२१॥
क्रीडा-वल्ली-कुसुम-समये राग-पद्माकरार्के
दर्पोद्याने वदन-शशभृत्-कौमुदी-कार्तिके’स्मिन् ।
याते मुग्ध-द्रविण-तुलया यौवने कामि-मित्रे
पण्य-स्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥१२२॥
न तु यौवन-मात्रेण लभन्ते ललनाः श्रियम् ।
भोगार्हा वृद्ध-करिणी तरुणी हरिणी वने ॥१२३॥

रूपवत्य् अद्भुतास्मीति कान्ते त्याज्यस् त्वया मदः ।
वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥

पूर्णां वक्र-चलां ते जनाः ।
क्षीणो’पि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥
भ्रू-युग्मं कुसुमेषु-कार्मुक-लता-लावण्य-लीला-हरं
वक्त्रं न्यक्-कृत-चन्द्र-बिम्बम् अधरो बिम्ब-प्रभा-तस्करः ।
रूपं नेत्र-रसायनं किम् अपरं सुश्रोणि तत्रापि ते
शिक्षा-हीनतया मद-द्विरदवत् प्राप्नोति नार्थाक्रियाम् ॥१२६॥
तवेयं यौवन-तरोश् छाया विस्मय-कारिणी ।
यया कामुक-लोकस्य स्मर-तापः प्रवर्तते ॥१२७॥

राग-सागर-सञ्जात-विद्रुम-द्रुम-पल्लवैः ।
तवाधरे स्मित-रुचिः करोति कुसुम-भ्रमम् ॥१२८॥
भाति सुचन्दन-तिलकं
कालागुरु-कुटिल-पल्लवाभरणम् ।
वदनं नन्दनम् एतद्
भ्रू-लतिकालास्य-ललितं ते ॥१२९॥
यातः सुन्दरि सुतरां स्तन-भार-परिश्रमः शनकैः ।
प्रोषित-शैशव-शोकाद् इव मध्यः कृशतरत्वं ते ॥१३०॥

तथाप्य् उपाय-शून्येन रूपेणानेन सुन्दरि ।
न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥
गुणवती ललितापि न शोभते
तनुतरार्थ-कदर्थनयान्विता ।
सुकवि-सूक्तिर् इवार्थवती
परं व्रजति वेश-वधूः स्पृहणीयताम् ॥१३२॥
संसक्तेषु सुरामयी धन-गुणाधानेषु लक्ष्मी-मयी
स्फीतार्थेषु सुधा-मयी विषमयी निष्क्रान्त-वित्तेषु च ।
वेश्या शङ्ख-मयी नितान्त-कुटिला सद्-भाव-लीनेषु या
देवानाम् अपि सुभ्रु मोह-जननी क्षीरोद-वेलेव सा ॥१३३॥
इति तया वचनामृतम् अर्पितं
श्रवण-पेयम् अवाप्य कलावती ।
जननि मे द्रविणाधिगमोचितं
परिचयं कथयेति जगाद ताम् ॥१३४॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां पूजाधरोपन्यासो नाम चतुर्थः समयः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:49:43.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोष्‍टी खालपणें

  • (व.) गप्पा छाटणें 
  • बाता मारणें 
  • बोलण्यात वेळ घालविणें. 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.