TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

समय मातृका - द्वितीयः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।



चरितोपन्यासः
अथ दत्तावधानायां कलावत्यां यथाविधि ।
कथाम् अकथयत् कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥
सर्व-भक्षां नमस्कृत्य ताम् एव भव-भैरवीम् ।
वदामि चरितं तस्याः कुक्षौ यस्या जगत्-त्रयी ॥२॥
परिहास-पुरे पूर्वं पान्थावसथ-पालिका ।
बभूव भूमिका नाम ... ॥३ ॥ .... कन्यका ।
जाता घरट्टमालायाम् अर्घ-घर्घटिकाभिधा ॥४॥
सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।
तद्-गृहेष्व् अकरोच् चौरी पूजा-भाजन-सङ्क्षयम् ॥५॥
सप्त-वर्षैव सा लोभाद् वाक्-प्रौढा हट्ट-तोरणे ।
जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥
सुवृत्त-शङ्ख-लतिका सकूट-कुच-कञ्चुका ।
कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥
कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा ।
सुन्दरः पूर्णिको नाम पूर्ण-वर्ण-सुवर्णवान् ॥८ ॥
सभायां नेत्र-वलनालोल-भ्रू-लास्य-विभ्रमैः ।
कृष्टः कौतुकवान् भेजे चपला-सङ्गमं निशि ॥९॥
सा तस्य क्षैब्य-सुप्तस्य निशि कण्ठावलम्बिनी ।
निगीर्य शनकैः सर्वं कर्णाभरण-काञ्चनम् ॥१०॥
अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः ।
चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥
प्रतिबुद्धो’थ सहसा स तया मुषितो वणिक् ।
वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥
ततः सा यौवनवती रुचिराभरणाम्बरा ।
उवास शङ्कर-पुरे मह्लणेति कृताभिधा ॥१३॥
भूरि-भाग्य-भरैः सक्ता सा कामि-कुसुमोच्चये ।
लेभे सम्भोग-विश्रान्तिं न रजन्यां न वासरे ॥१४॥
निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।
बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५ ॥
कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु ।
सखी-गृहे च तुल्याप्तान् सा सिषेवे’ह्नि कामुकान् ॥१६
क्षपारम्भे क्षीबं शिशुकम् इव निक्षिप्य शयने
जगामान्यं तस्मिन् सुरत-घन-निद्रा-परम् अपि ।
निशा-शेषे शूलाकुल-निज-सखी-वेश्म-गमना-
पदेशेनान्यं सा सततम् अगमत् स्व-क्रय-भर ॥१७॥
नानावहार-कुपितैः सान्विष्टा सुभगैर् भृशम् ।
पलायमाना गुप्तेषु तस्थौ कामुक-वेश्मसु ॥१८॥

ततः प्रासाद-पालेन नन्दि-सोमेन सा निशि ।
गौरी-गर्भ-गृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥
निःश्वास-निद्रया तस्मिन् प्रयाते काष्ठ-भूतताम् ।
देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात् ॥२०॥
ततः समर-सिंहस्य डामरस्यावरुद्धिका ।
भूत्वा नागरिका-नाम प्रताप-पुर-वासिनः ॥२१॥
प्रभूत-पिशिताहार-सम्भारैः स्थूलतां गता ।
सा तस्य भीमसेनस्य हिडिम्बेवाभवत् प्रिया ॥२२॥
सर्वस्व-स्वामि-भावं सा सम्प्राप्ता तस्य रागिणः ।
प्रेरणं बन्धु-युद्धेषु विदधे निधनैषिणी ॥२३॥
हते पितृ-व्रजे तस्मिन् बद्ध-मूला परं गृहे ।
साभूद् अपर-पुत्रस्य श्री-सिंहस्यावरुद्धिका ॥२४॥
विगलद्-यौवना यूनः सा सपत्नी-जिगीषया ।
चकार तस्य स्वीकारं वशीकरण-मूलकैः ॥२५॥
मत्स्य-यूष-घृत-क्षीर-पलाण्डु-लशुनादिभिः ।
प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥
अथ भूप-भयात् तस्य प्रत्यासत्ते’थ भूतपे ।
भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥
ततस् तनुतर-स्वच्छ-वसना विनतानना ।
रण्डा मृगवती नाम साभूत् स्पर्श-स्पृहा-मही ॥२८॥
सदा सुरेश्वरीं गत्वा शत-धारा-तटे चिरम् ।
तल-बालुक-दर्भाङ्का सा चक्रे पितृ-तर्पणम् ॥२९॥
तत्र बन्धुरसाराख्यम् अश्वारोहं महा-धनम् ।
तीर्थ-स्थिता सा जग्राह मत्स्यं बक-वधूर् इव ॥३०॥
गृहं मुष्ट्या गृहीत्वेव चित्त-ग्रहण-कोविदा ।
सर्वाय-व्यय-कार्येषु सैव तस्याभवद् विभुः ॥३१॥
मासेन सा गते तस्मिन् पञ्चतां बहु-सञ्चये ।
तस्थौ पादाव् अवष्टभ्य तस्यानुगमनोद्यता ॥३२॥
तद्-बान्धवैर् वार्यमाणा मिथ्यैवारब्ध-दुर्ग्रहा ।
धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥
कुले महति वैधव्यं वैधव्ये शील-विप्लवः ।
शील-भ्रंशे वियोगो’यं वह्निना मम यास्यति ॥३४॥
इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा ।
तद्-वित्तावाप्त-हर्षेण सत्त्व-व्यक्तिम् इवावहत् ॥३५॥
ततस् तद्-द्रविण-स्वाम्यं राजादेशाद् अवाप्य सा ।
प्रार्थिता राज-पुरुषैस् तस्थौ लीलावलम्बिनी ॥३६॥
अथाश्व-शाला-दिविरं स्वीकृत्य रति-बाडवम् ।
सा चक्रे जीव-लोकस्य स्व-नाम-परिवर्तनम् ॥३७॥
तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके ।
विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥
कृत्वा लुण्ठिं दिवसम् अखिलं भूरि-भूर्ज-प्रयोगैर्
भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः ।
प्रातः स्नान-व्यतिकर-कला-दम्भ-सम्भावनाभूर्
माद्यं दाहं नयति दिविरः शान्तिम् अन्तर् जलेन ॥३९॥
प्रवृद्धापर-पुत्राथ दिविराराधन-व्रता ।
निखिलं जीव-लोकं सा विक्रीय धनम् आददे ॥४०॥
सा वेश्म-विक्रयादाने पुत्रैर् आकृष्य वारिते ।
गत्वाधिकरणं चक्रे मठि-भट्टोपसेवनम् ॥४१॥
उत्कोचारब्ध-सङ्घट्टैर् भट्टैः कूट-रथादिभिः ।
सादिष्टाभीष्ट-सम्पत्तिर् जग्राह जय-पट्टकम् ॥४२॥
गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी ।
सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥
कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा ।
र् जलेव सा तत्र नव-पण्याङ्गनाभवत् ॥४४॥
चलित्वाभ्यागता ... वणिग्-वधूः ।
इति तस्याः प्रवादेन बभूवाधिक-विक्रयः ॥४५॥
सत्यासत्य-कथा-तत्त्वम् अविचार्यैव धावति ।
गतानुगतिकत्वेन प्रवाद-प्रणयी जनः ॥४६॥
क्षीण-जिह्वाधर-करा कोष-पानेन कामिनाम् ।
छिन्नाङ्गुलिः सा जग्राह राग-वेलां पुनः पुनः ॥४७॥
सा चौर-द्रविणादानाद् गृहीता शठ-चेटकैः ।
प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥
तत्र बन्धन-पालेन भुजङ्गाख्येन सङ्गता ।
निर्विकल्प-सुखा चक्रे मत्स्यापूप-मधु-क्षयम् ॥४९॥
साथ बन्धन-पालस्य गाढालिङ्गन-सङ्गमे ।
क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥
सा जिह्वा-च्छेद-निःसंज्ञं तम् आक्रन्द-विवर्जितम् ।
स्त्री-वेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्त-शृङ्खला ॥५१॥
सा भग्न-निगडा प्राप्य रजन्यां विजयेश्वरम् ।
महामात्य-सुतास्मीति जगादानुपमाभिधाम् ॥५२॥
सा तत्र भोगमित्रस्य प्रीत्या रत्नैर् अवाकिरत् ।
पुराण-चित्र-रूपस्य यौवनस्याल्प-शेषताम् ॥५३॥
यत्नोत्क्षिप्त-कुचा कचायततया ... करे
बद्धापाटल-पट्टकेन सरल-स्थूलाञ्जन-व्यञ्जना ।
नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी
केयं नूतन-निर्गतेति विदधे सा मुग्ध-संमोहनम् ॥५४॥
ताम् एक-वारं दृष्ट्वैव नग्नां प्रथम-कौतुकात् ।
पथापि तेन वैरस्यान् न कश्चित् पुनर् आययौ ॥५५॥
शीत-शालेव शिशिरे दीप-मालेव वासरे ।
जीर्णा निर्माल्य-मालेव वेश्या कस्योपयुज्यते ॥५६॥
सा तत्र ग्राहकाभावान् मृष्यन्ती पथिकांश् चलान् ।
सन्ध्यायाम् अञ्चलाकर्षैः स्वल्प-भाटीम् अयाचत ॥५७॥
तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना ।
तत्र भैरव-सोमेन भिक्षा-भक्तार्ध-दायिना ॥५८॥
भस्म-स्मेर-शरीर-सञ्चित-रुचिर् दत्ताक्षि-जीवाञ्जना
बिभ्राणा स्फटिकाक्ष-सूत्रम् अमलं वैचित्र्य-मित्रं गले ।
निःसङ्कोच-निलीन-कञ्चुक-कचत्-सुस्तब्ध-बाहु-स्तनी
साभूत् क्षोभ-विधायिनी हत-धियां भिक्षा-क्षणे निर्गता ॥५९॥
जाते तत्राथ दुर्भिक्षे भिक्षाभक्ते’तिदुर्लभे ।
सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥

सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः ।
भिक्षुकी वज्रघण्टाख्या बभूव ध्यान-निश्चला ॥६१॥
पात्रं तत्र गुणोचितं कर-तले कृत्वाथ भिक्षास्पदं
जीर्णं कामुक-कूट-राग-सदृशं काषायम् आदाय सा ।
चक्रे मुण्डन-मण्डनं परिणमत्-कूष्माण्ड-खण्डोपमं
पिण्डाप्त्यै विट-टक्कना-परिचय-श्रेणी-विहारं शिरः ॥६२॥
पट्वी मण्डल-शिक्षायै प्रणतानां सदैव सा ।
गृहे गृहे कुल-स्त्रीणां ददौ दौःशील्य-देशनाम् ॥६३॥
वश्य-प्रयोगैर् वेश्यानां वणिजाम् ऋद्धि-वर्धनैः ।
मन्त्र-वादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥
तत्रोपासक-दासेन मङ्गलाख्येन सङ्गता ।
सा गर्भं दम्भ-भोगानां मूर्तं विघ्नम् इवादधे ॥६५॥
विच्छिन्ने पिण्ड-पाते सा लम्बमान-महोदरी ।
प्रसूता धर्मम् उत्सृज्य जगाम नगरं पुनः ॥६६॥
कूट-केशवती तत्र चित्रसेनस्य मन्त्रिणः ।
पुत्र-जन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥
सार्ध-क्षीराभिधा धात्री सिंह-पाद-वृसी-स्थिता ।
बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुम् इवैक्षत ॥६८॥
क्षीर-सङ्क्षय-रक्षायै सम्प्राप्त-सरसाशना ।
सा मन्त्रि-भवने धात्रा धात्री पात्री-कृता श्रियः ॥६९॥
कण्ठे विद्रुम-मालिका श्रवणयोस् ताडी-युगं राजतं
स्थूल-स्थूल-विभक्ति-सक्त-वटक-प्राग्-भार-भाजौ भुजौ ।
गुल्फास्फाल-विलम्बि-कम्बल-घनारम्भा नितम्ब-स्थली
धात्र्याः सम्भृत-भोजनैर् अभिनवी-भूतं पुराणं वपुः ॥७०॥
ततस् तद्-अपचारेण शिशौ जात-ज्वरे व्यधात् ।
वैद्य-दत्तोपवासा सा मत्स्य-सूप-परिक्षयम् ॥७१॥
पानीयं विनिवारणीयम् अहितं भक्तस्य वार्तैव का
द्वित्राण्य् एव दिनानि धात्रि-दयया धात्री-रसः पीयताम् ।
जीवत्व् एष शिशुर् भजस्व विविधैर् अस्योत्सवैः सम्पदं
वैद्येनेति निवेद्यमानम् अकरोत् सा सर्वम् एवाश्रुतम् ॥७२॥
दृष्ट्वा तत्रातुरं बालं तृणवत्-सुत-रागिणी ।
सा ययौ निर्दया रात्रौ गृहीत्वा हेम-सूतिकाम् ॥७३॥
ततः प्रत्यन्त-विषये प्रभूत-च्छाग-गोचरा ।
ख्याता धनवती नाम स्फीतां चक्रे गृह-स्थितिम् ॥७४॥
साथ मेघापघातेन तस्मिन् पशु-धने वने ।
स्व-काय इव सापाये याते चर्मावशेषताम् ॥७५॥
गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् ।
गत्वावन्तिपुरं चक्रे ताराख्यापूप-विक्रयम् ॥७६ ॥
क्रीत्वा गणेश-नैवेद्यम् अण्डकानां करण्डकम् ।
पुनः पाकोष्मणा नित्यम् अकरोद् विक्रयं पथि ॥७७॥
साभुङ्क्त गृह-नारीणां प्रभूतोज्जाम-तण्डुलम् ।
प्रभूत-लाभ-लुब्धानां मूलस्यापि परिक्षयः ॥७८॥
पान्थ-कन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा ।
मिथ्यासन्न-विवाहार्थम् अयाचत गृहे गृहे ॥७९॥
ततः सा पञ्जिका नाम द्यूत-शाला-पुरः-स्थिता ।
कपटाक्ष-शलाकानाम् अकरोद् गूढ-विक्रयम् ॥८०॥
सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य-विक्रयम् ।
देव-प्रासाद-पालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥
ग्राम-यात्रासु सा वारि-सत्त्र-दात्री हिमाभिधा ।
रङ्ग-प्रेक्षण-बालानां निनाय वलयादिकम् ॥८२॥
सा नक्षत्र-परावृतिं कृत्वा षट्काष्टकेष्व् अपि ।
विवाहेष्व् अकरोद् यत्नं वर्णाख्या कूट-वर्णनैः ॥८३॥
गण-विज्ञानिका मुग्ध-प्रत्ययैः ख्यातिम् आययौ ।
नामाभिज्ञान-मात्र-ज्ञा न तु चौरान् विवेद सा ॥८४॥
भाव-सिद्ध्य्-अभिधाना सा देवता-वेश-धारिणी ।
उपहारान् प्रयच्छेति वदन्ती नावदत् परम् ॥८५॥
तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः ।
कुम्भा-देवीति विख्याता प्राप पूजा-परम्पराम् ॥८६॥
क्षिप्रोपदेश-लुब्धेन कुल-दासेन मन्त्रिणा ।
सार्चिता प्रययौ हृत्वा पूजा-राजत-भाजनम् ॥८७॥
साथ तक्षक-यात्रायां चल-हण्ठा दिन-त्रयम् ।
कल्प-पाली कला नाम विदधे मद्य-विक्रयम् ॥८८॥
कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः ।
रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥
ततः सा भूरि-धत्तूर-मधुना नष्ट-चेतसाम् ।
पान्थानां सर्वम् आदाय निशि शूर-पुरं ययौ ॥९०॥
एवं कृत्वा लवण-सरणौ भारिकं भर्तृ-संज्ञं
तस्मिन् निद्रा-वशम् उपगते रात्रिम् अन्यैः क्षिपन्ती ।
प्रातर् बद्ध्वा पृथु-कटि-तटं सङ्कटे दीर्घ-दाम्ना
मूर्ध्ना भारं दिवसम् अखिलं सा विलासैर् उवाह ॥९१॥
निःशुष्कैर् अतटैर् महा-हिम-पथैर् उल्लङ्घ्य घोरान् गिरीन्
बम्बा-नाम दिनावसान-समये मान्याङ्गना-रूपिणी ।
हेमन्ते वसनावगुण्ठित-मुखी पञ्चाल-धारा-मठे
शीतार्ता घन-लम्ब-कम्बलवती चक्रे स्पृहां कातरा ॥९२॥
साथ सत्यवती नाम वृद्धा ब्राह्मण्य-वादिनी ।
बभ्राम सागर-द्वीप-रशनाभरणां भुवम् ॥९३॥
क्वचिद् योग-कथाभिज्ञा क्वचिन् मासोपवासिनी ।
क्वचित् तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥
वेध-धूनन-धूपेन मूर्ख-श्रद्धा-विधायिनी ।
महतीं प्रतिपत्तिं सा लेभे भूपति-वेश्मसु ॥९५॥
सेना-स्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् ।
भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥
केदाराम्बु-गया-श्राद्ध-गङ्गा-स्नानादि-वादिनी ।
तत्-फलं बन्धम् आधाय सार्थेभ्यः साग्रहीद् धनम् ॥९७॥
नष्ट-च्छायोपदेशार्थं सार्थिता पथि दस्युभिः ।
रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥
चीनानकानाम् अण्डानि साथ रुद्राक्ष-संज्ञया ।
ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्य-वादिनी ॥९९॥
बिल-सिद्धि-धृत-श्रद्धा-गृहीताभरणाम्बरान् ।
सा चिक्षेपान्ध-कूपेषु पाताल-ललनोत्सुकान् ॥१००॥
अङ्ग-विद्ध-विषास्मीति सुस्निग्ध-विष-गण्डकैः ।
सा बबन्ध गले मालां विष-जाङ्गुलिकाभिधा ॥१०१॥
शुल्क-स्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।
मुहूर्त-मोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥
वर्षाणां मे सहस्रं गतम् अधिकतरं वेद्म्य् अहं धातु-वादं
सिद्धो मे वाक्-प्रपञ्चः करतल-कलितं त्रैपुरं काम-तत्त्वम् ।
उर्वर्यां गर्व-खर्वी-कृत-सकल-गुरु-ग्राम-भक्त्या तयास्याम्
इत्य् आख्यानेन नीताश् चरण-तल-लिहष् ठक्कुराः कुक्कुरत्वम् ॥१०३॥
पूजा-सज्जा भजन्ते जय-नुतिषु नतिं दिक्षु काम्बोज-भोजाः
सेवा-शुष्कास् तरुष्काः परिचरण-रसे किं च चीनाः प्रलीनाः ।
उत्कण्ठार्तास् त्रिगर्ताः परिचरण-विधौ पीडयन्त्य् एव गौडा
दम्भा-रम्भेण तस्या विदधति कुसुमोत्सङ्गताम् अङ्ग-बङ्गाः ॥१०४॥
भ्रान्त्वा महीं जल-निधि-प्रथिताम् अशेषां
माया-विनीति-विदिताविरतोन्नतिः सा ।
प्राप्ता पुनर् निज-पदं तनु-वीर-शेषा
क्षीणो’पि देहम् इव कस् त्यजति स्व-देशम् ॥१०५॥
सा सर्व-देश-परिशीलित-वेष-भाषा
प्रभ्रष्ट-भूपति-सुताहम् इति ब्रुवाणा ।
छिन्नाङ्गुलिर् दशन-खण्डित-नासिकाग्रा
लालाट-नील-तिलकैर् विदिता ममैव ॥१०६॥
सा चेत् प्रकीर्ण-धन-गेह-निधान-सर्पी
गृह्णाति लोभ-जननी जननी-पदं ते ।
तत्-कामि-लोक-सकलार्थ-समृद्धिम् एतां
यत्नाद् विना सुतनु हस्त-गताम् अवेहि ॥१०७॥
तस्मात् ताम् अहम् एव कूट-कुटिलां गत्वा स्वयं त्वत्-कृते
सर्वज्ञां सकलार्थ-सार्थ-सरणेः सिद्ध्यै समभ्यर्थये ।
किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया
नास्त्य् अन्या गतिर् इत्य् उदीर्य हित-कृत् तूर्णं ययौ नापितः ॥१०८॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चरितोपन्यासो नाम द्वितीयः समयः ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:49:42.8670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

listed stocks

  • शेयर बाजार में सूचीबद्ध शेयर 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.