TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

समय मातृका - प्रथमः समयः

क्षेमेंद्र के ग्रंथ समयमातृका का रचनाकाल १०५० ई है। यह एक हास्य प्रहसन का अत्युत्तम ग्रंथ है ।


चिन्ता-परिप्रश्नः
अनङ्ग-वातलास्त्रेण जिता येन जगत्-त्रयी ।
विचित्र-शक्तये तस्मै नमः कुसुम-धन्वने ॥१॥
यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते
क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी ।
ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि
प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥
क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी ।
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥
अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः
केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः ।
कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं
सौभाग्याभरणं मही-वर-तनोः सङ्केत-सद्म श्रियः ॥४॥
यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् ।
पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥
तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः ।
कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥
कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः ।
नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥
सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् ।
कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥

श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् ।
पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥
विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् ।
दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥
ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् ।
आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥
स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् ।
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥
ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं
लुप्त-व्यञ्जनम् अञ्जनं नयनयोर् निःश्वास-तान्तो’धरः ।
मौन-क्लीब-निलीन-केलि-विहगं निद्रायमाणं गृहे
वेषः प्रोषित-योषितां समुचितः कस्माद् अकस्मात् तव ॥१३॥
किं मेखला मदन-वन्दि-वधूर् नितम्बे
सुश्रोणि नैव बत गायति मङ्गलानि ।
अङ्गं कृशाङ्गि किम् अनङ्ग-यशः-प्रभेण
कर्पूर-चन्दन-रसेन न लिप्तम् एतत् ॥१४॥
प्राप्तं पुरः प्रचुर-लाभम् असंस्पृशन्ती
भावि-प्रभूत-विभवाय कृताभियोगा ।
किं केनचित् सुचिर-सेवन-निष्फलेन
मिथ्योपचार-वचनेन न वञ्चितासि ॥१५॥
लोभाद् गृहीतम् अविभाव्य भयं भवत्या
दर्पात् प्रदर्शितम् अशङ्कितया सखीभिः ।
दत्तं तवाप्रतिमम् आभरणं नृपार्हं
चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥
दानोद्यतेन धनिकेन विशेष-सङ्गात्
सक्तो’यम् इत्य् अथ शनैर् अवसायितेन ।
लब्धान्तर-स्वजन-मित्र-विरोधितेन
किं त्वन्-निकार-कुपितेन कृतो विवाहः ॥१७॥
दत्त्वा सकृत् तनु-विभूषणम् अंशुकं वा
यद् वानुबन्ध-विरलीकृत-कामुकेन ।
यक्षेण सर्व-जनता-सुख-भूः प्रपेव
तीक्ष्णेन भीरु किम् उ केनचिद् आवृतासि ॥१८॥
वित्त-प्रदान-विफलेन पलायमाना
कौटिल्य-चारु-चटुला शफरीव तोये ।
गूढं वशीकरण-चूर्ण-मुचा कचेषु
किं केनचिन् न कुहकेन वशीकृतासि ॥१९॥
निष्कासितुं हृदय-स्ञ्चित-तीव्र-वैरे
सन्दर्शित-प्रकट-कूट-धनोपचारे ।
लोभात् त्वयानपचयैः पुनर् आवृतेव
प्राप्तः किम् उ प्रसभयम् अर्थ-वशाद् अनर्थः ॥२०॥
कैर् नित्य-सम्भव-निजं वणिजं त्यजन्त्या
यान्त्या तृण-ज्वलन-दीप्ति-नियोग-लक्ष्मीम् ।
नष्टे सुवस्त्र-विभवे विरते पुराणे
जातस् तव स्तवकितोभय-लाभ-भङ्गः ॥२१॥
सिद्धः प्रयत्न-विभवैः परितोषितस्य
दातुं समुद्यत-मतिः स्वयम् अर्थ-शास्त्रम् ।
नीतस् तव प्रचुर-मत्सरयान्यया किं
गेहान् निधिर् बहु-धनः स्व-सखी-मुखेन ॥२२॥
किं वावसाद-पदवीम् अतिवाह्य कष्टां
लब्धाविकार-विभवेन विवर्जितासि ।
किं मूर्छितासि विरतासि सुखोज्झितासि
ध्यानावधान-वधिरासि निमीलितासि ॥२३॥
अप्य् उद्दाम-व्यसन-सरणेः सङ्गमे कामुकानां
भद्रं भद्रे भुवन-जयिनस् त्वत्-कला-कौशलस्य ।
अप्य् उत्साह-प्रचुर-सुहृदः काम-केली-निवासाः
प्रौढोत्साहास् तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥
इत्य् आदि तेन हित-संनिहितेन पृष्टा
स्पृष्टा भृशं विभव-भङ्ग-भयोद्भवेन ।
सा तं जगाद सुख-दुःख-सहाय-भूतं
चिन्ता-विशेष-विवशा बहुशः श्वसन्ती ॥२५॥
शृणु कङ्क ममानन्तां चिन्तां सन्ताप-कारिणीम् ।
ययाहम् अवसीदामि ग्रीष्म-ग्लानेव मञ्जरी ॥२६॥
सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः ।
व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥
यो’साव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः ।
दर्पाद् आतुर-वित्तेन वृद्धो’पि तरुणायते ॥२८॥
तेन रोग-धराख्येन दत्ता रसवती मम ।
त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९
प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता ।
काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥
हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणे’पि सा ।
दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥
ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् ।
पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥
रिक्तः शक्तो न निर्याति नाप्नोत्य् अवसरं धनी ।
शून्य-शालेव पथिकैर् निरुद्धा कामुकैर् अहम् ॥३३॥
तस्माद् विदेशं गच्छामि नेच्छाम्य् उच्छृङ्खलां स्थितिम् ।
कथं रक्त-विरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥
इत्य् उद्बाष्प-सदृशस् तस्याः प्रलापं वृद्ध-नापितः ।
आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥
भवत्या वित्त-लोभेन निर्विचारतया परम् ।
भिषग्-दुष्ट-भुजङ्गो’सौ स्वयम् एव प्रवेशितः ॥३६ ॥
जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः ।
किं कुट्टनी-कृतान्तो’सौ वैद्यो न विदितस् तव ॥३७॥
स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि ।
इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व-प्राण-हराय च ॥३९॥
अधुना दुःखम् उत्सृज्य मनः-स्थित्यै विधीयताम् ।
कृत्रिमः क्रियतां गेहे रक्षायै जननी-जनः ॥४०॥
व्याघ्रीव कुट्टनी यत्र रक्त-पानामिषैषिणी ।
नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥
यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।
सन्ध्ययोर् दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥
न भवत्य् एव धूर्तस्य वेश्या-वेश्मन्य् अमातृके ।
चुल्ली-सुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥
प्रविष्टा कुट्टनी-हीन-गृहं क्षीण-पटा विटाः ।
गाथाः पठन्ति गायन्ति व्यय-द्रविणम् अर्थिताः ॥४४॥
अकण्टका पुष्प-मही वेश-योषिद् अमातृका ।
मन्त्रि-हीना च राज्य-श्रीर् भुज्यते विट-चेटकैः ॥४५॥
अयं पीन-स्तनाभोग-सौभाग्य-विभवोचितः ।
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥
खला इवातिचपलाः कृतालिङ्गन-सङ्गमाः ।
न गताः पुनर् आयान्ति बाले यौवन-वासराः ॥४७॥
प्रथम... ...नां पुष्पवतीनां लतानां च ॥४८॥
तस्मान् मानिनि कापि हेम-कुसुमारामोच्चयाय त्वया
माता तावद् अनेक-कूट-कुटिला काचित् समन्विष्यताम् ।
एताः सुभ्रु भवन्ति यौवन-भरारम्भे विजृम्भा-भुवो
वेश्यानां हि नियोगिनाम् इव शरत्-काले घनाः सम्पदः ॥४९॥
अस्त्य् एव सा बहुतराङ्कवती तुलेव
कालस्य सर्व-जन-पण्य-परिग्रहेषु ।
क्षिप्र-प्रकृष्ट-पल-कल्पनया ययासौ
भागी कृतः परिमितत्वम् उपैति मेरुः ॥५०॥
यासौ रामा मलयज-लता-गाढ-संरोध-लीला
निर्यन्त्राणां नियम-जननी भोगिनां मन्त्र-मुद्रा ।
विश्वं यस्याः फल-कलनया लक्ष्यताम् एति पाणौ
तस्या जन्म-क्रम-परिगतं श्रूयतां वृत्तम् एतत् ॥५१॥
तद्-वृत्त-मात्र-श्रवणेन को’पि
संजायते बुद्धि-विशेष-लाभः ।
तयोपदेशे स्वयम् एव दत्ते
भवत्य् असौ हस्त-गता त्रिलोकी ॥५२॥

इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चिन्ता-परिप्रश्नो नाम प्रथमः समयः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-11-26T04:49:42.7730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

KOKILA(कोकिल)

  • See under Ḍiṇḍika. 
RANDOM WORD

Did you know?

कोणता शब्द योग्य आहे ? नखाला जिव्हारी लागणे की जिव्हाळी लागणे?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.