TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

संधिः - कथा ११

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ११
अस्ति जीर्णोद्याने मंद-विषो नाम सर्पः । सो तिजीर्णतया स्वाहारम् अप्य् अंवेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन् मंडूकेन दृष्टः, पृष्टश् च-किम् इति त्वाम् आहारं नांविष्यति ?
सर्पो वदत्-गच्छ भद्र ! किं ते मम मंद-भाग्यस्य वृत्तांत-प्रश्नेन ? ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पो प्य् आह-भद्र ! पुर-वासिनः श्रोत्रियस्य कौंडिंयस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-संपंनो दुर्दैवान् मया नृशंसेन दष्टः । ततस् तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौंडिंयः पृथिव्यां लुलोठ । अनंतरं ब्रह्मपुर-वासिनः सर्वे बांधवास् तत्रागत्योपविष्टाः । तथा चोक्तम्-
उत्सवे व्यसने युढे दुर्भिक्षे राष्ट्र-विप्लवे । राज-द्वारे श्मशाने च यस् तिष्ठति स बांधवः ॥६७॥
तत्र कपिलो नाम स्नातको वदत्-अरे कौंडिंय ! मूढो सि येनैवं विलपसि । शृणु- क्रोडीकरोति प्रथमं यदा जातम् अनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥६८॥
तथा च- क्व गताः पृथिवी-पालाः स-सैंय-बल-वाहनाः । वियोग-साक्षिणी येषां भूमिर् अद्यापि तिष्ठति ॥६९॥
तथा च- जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । अद्य वाब्द-शतांते वा मृत्युर् वै प्राणिनां ध्रुवः ॥७०॥
अपरं च- कायः संनिहितापायः संपदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भंगुरम् ॥७१॥प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते । आमकुंभ इवांभः-स्थो विशीर्णः सन् विभाष्यते ॥७२॥आसन्नतरतामेति मृत्युर् जंतोर् दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥७३॥
यतः- अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः । ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पंडितः ॥७४॥यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूत-समागमः ॥७५॥यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति । विश्रम्य च पुनर् गच्छेद् तद्वद् भूत-समागमः ॥७६॥
अंयच् च- पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते । स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥७७॥यावतः कुरुते जंतुः संबंधान् मनसः प्रियान् । तावंतो स्य निखंयंते हृदये शोक-शंकवः ॥७८॥नायम् अत्यंत-संवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किम् उतांयेन केनचित् ॥७९॥
अपि च- संयोगो हि वियोगस्य संसूचयति संभवम् । अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम् ॥८०॥आपात-रमणीयानां संयोगानां प्रियैः सह । अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥८१॥
अपरं च- व्रजंति न निवर्तंते स्रोतांसि सरितां यथा । आयुर् आदाय मर्त्यानां तथा रात्र्य्-अहनी सदा ॥८२॥सुखास्वाद-परो यस् तु संसारे सत्-समागमः । स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥८३॥अत एव हि नेच्छंति साधवः सत्-समागमम् । यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम् ॥८४॥सुकृतांय् अपि कर्माणि राजभिः सगरादिभिः । अथ तांय् एव कर्माणि ते चापि प्रलयं गताः ॥८५॥
संचिंत्य संचिंत्य तम् उग्र-दंडं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षांबु-सिक्ता इव चर्म-बंधाः सर्वे प्रयत्नाः शिथिलीभवंति ॥८६॥
याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्य् अस्खलित-प्रयाणः स प्रत्यहं मृत्यु-समीपम् एति ॥८७॥
अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥८८॥
तद् भद्र ! तद् आत्मानम् अनुसंधेहि । शोक-चर्चां च परिहर, यतः-
अकांड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम् । गाढ-शोक-प्रहाराणाम् अचिंतैव महौषधम् ॥८९॥
ततस् तद्-वचनं निशम्य, प्रबुढ इव कौंडिंय उठायाब्रवीत् । तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि । कपिलः पुनर् आह-
वनेपि दोषाः प्रभवंति रागिणां गृहेपि पञ्चेंद्रिय-निग्रहस् तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्त-रागस्य गृहं तपोवनम् ॥९०॥
यतः- दुःखितो पि चरेद् धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिंगं धर्म-कारणम् ॥९१॥
उक्तं च- वृत्त्य्-अर्थं भोजनं येषां संतानार्थं च मैथुनम् । वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरंति ते ॥९२॥
तथा हि- आत्मा नदी संयम् अपुण्य-तीर्था सत्योदका शील-तटा दयोर्मिः । तत्राभिषेकं कुरु पांडु-पुत्र ! न वारिणा शुष्यति चांतरात्मा ॥९३॥
विशेषतश् च- जन्म-मृत्यु-जरा-व्याधि-वेदनाभिर् उपद्रुतम् । संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥९४॥
यतः- दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुख-संज्ञा विधीयते ॥९५॥
कौंडिंयो ब्रूते-एवम् एव । ततो हं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मंडूकानां वाहनं भविष्यतीति ।
कपिलो ब्रूते-संप्रत्य् उपदेशासहिष्णुर् भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु- संगः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां संगो हि भेषजम् ॥९६॥
अंयच् च- कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते । स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥९७॥
एतच् छ्रुत्वा स कौंडिंयः कपिलोपदेशामृत-प्रशांत-शोकानलो यथाविधि दंड-ग्रहणं कृतवान् । अतो ब्राह्मण-शापान् मंडूकान् वोढुम् अत्र तिष्ठामि । अनंतरं तेन मंडूकेन गत्वा मंडूक-नाथस्य जालपाद-नाम्नो ग्रे तत् कथितम् । ततो साव् आगत्य मंडूक-नाथस् तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस् तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम ।
परेद्युश् चलितुम् असमर्थं तं मंडूक-नाथम् अवदत्-किम् अद्य भवान् मंद-गतिः ?
सर्पो ब्रूते-देव ! आहार-विरहाद् असमर्थो स्मि ।
मंडूक-नाथो वदत्-अस्माद् आज्ञया मंडूकान् भक्षय । ततः गृहीतो यं महा-प्रसाद इत्य् उक्त्वा क्रमशो मंडूकान् खादितवान् । अथ निर्मंडूकं सरो विलोक्य मंडूक-नाथो पि तेन खादितः । अतो हं ब्रवीमि-स्कंधेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा संधेयो यं हिरण्यगर्भ-राजा संधीयताम् इति मे मतिः ।
राजोवाच-को यं भवतो विचारः ? यतो जितस् तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् ।
अत्रांतरे जंबूद्वीपाद् आगत्य शुकेनोक्तं-देव ! सिंहल-द्वीपस्य सारसो राजा संप्रति जंबूद्वीपम् आक्रम्यावतिष्ठते ।
राजा स-संभ्रमं ब्रूते-किं किम् ?
शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच-साधु रे चक्रवाक मंत्रिन् ! साधु !
राजा स-कोपम् आह-आस्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि ।
दूरदर्शी विहस्याह-
न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम् । परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥९८॥
अपरं च- एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । स-दर्पो प्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम् ॥९९॥
देव ! किम् इतो विना संधानं गमनम् अस्ति ? यतस् तदास्माकं पश्चात् प्रकोपो नेन कर्तव्यः । अपरं च-
यो र्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥१००॥
राजाह--कथम् एतत् ?

अस्त्य् उज्जयिंयां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वण-श्राढं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणो पि सहज-दारिद्र्याद् अचिंतयत्-यदि सत्वरं न गच्छामि, तदांया कश्चिच् छ्रुत्वा श्राढं ग्रहीष्यति । यतः- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥१०१॥
किंतु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खंडं खंडं कृत्वा भक्षितश् च । ततो सौ नकुलो ब्राह्मणम् आयांतम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ । ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको नेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनंतरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् । अतो हं ब्रवीमि-यो र्थ-तत्त्वम् अविज्ञाय इत्य् आदि । अपरं च-
कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥१०२॥
राजाह-मंत्रिन् ! एष ते निश्चयः ?
मंत्री ब्रूते-एवम् एव । यतः- स्मृतिस् तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः । दृढता मंत्र-गुप्तिश् च मंत्रिणः परमो गुणः ॥१०३॥
तथा च- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुण-लुब्धाः स्वयम् एव संपदः ॥१०४॥
तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा संधाय गम्यताम् । यतः-
यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः सध्य-साधने । संख्या-मात्रं फलं तेषां सिढिः साम्नि व्यवस्थिता ॥१०५॥
राजाह-कथम् एवं सत्वरं संभाव्यते ?
मंत्री ब्रूते-देव ! सत्वरं भविष्यति । यतः-
मृद्-घटवत् सुख-भेद्यो दुःसंधानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु संधेयः ॥१०६॥
अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥१०७॥कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः । तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ॥१०८॥
राजाह-अलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन् मंत्रयित्वा गृध्रो महामंत्री-तत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यंतरं चलितः । ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं-देव ! संधि-कर्तुं महामंत्री गृध्रो स्मत्-समीपम् आगच्छति ।
राजहंसो ब्रूते-मंत्रिन् ! पुनर् अभिसंधिना केनचिद् अत्रागमनम् ।
सर्वज्ञो विहस्याह-देव ! न शंकास्पदम् एतत् । यतो सौ महाशयो दूरदर्शी । अथवा स्थितिर् इयं मंद-मतीनां, कदाचिच् छंकैव न क्रियते, कदाचित् सर्वत्र शंका । तथा हि-
सरसि बहुशस् ताराच्छायेक्षणात् परिवञ्चितः कुमुद-विटपांवेषी हंसो निशास्वविचक्षणः । न दशति पुनस् ताराशंकी दिवापि सितोत्पलं कुहुक-चकितो लोकः सत्येप्य् अपायम् अपेक्षते ॥१०९॥
दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः । बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥११०॥
तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच-मंत्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् æ
राजहंसो ब्रूते-एवम् एव ।
दूरदर्शी कथयति-एवम् एवैतत् । किंत्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम् । यतः-
लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा । मूर्खं छंदानुरोधेन याथातथ्येन पंडितम् ॥१११॥
अंयच् च- सद्-भावेन हरेन् मित्रं संभ्रमेण तु बांधवान् । स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान् ॥११२॥
तद् इदानीं संधातुं गम्यताम् । महा-प्रतापश् चित्रवर्णो राजा ।
चक्रवाको ब्रूते-यथा संधानं कार्यम् । तद् अप्य् उच्यताम् ।
राजहंसो ब्रूते-कति प्रकाराः संधीनां संभवंति ?
गृध्रो ब्रूते-कथयामि श्रूयताम्-
बलीयसाभियुक्तस् तु नृपो नांय-प्रतिक्रियः । आपन्नः संधिम् अंविच्छेत् कुर्वाणः काल-यापनम् ॥११३॥कपाल उपहारश् च संतानः संगतस् तथा । उपंयासः प्रतीकारः संयोगः पुरुषांतरः ॥११४॥अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस् तथोच्छिन्नस् तथा च पर-दूषणः ॥११५॥स्कंधोपनेयः संधिश् च षोडशः परकीर्तितः । इति षोडशकं प्राहुः संधिं संधि-विचक्षणाः ॥११६॥कपाल-संधिर् विज्ञेयः केवलं सम-संधिकः । संप्रदानाद् भवति य उपहारः स उच्यते ॥११७॥संतान-संधिर् विज्ञेयो दारिका-दान-पूर्वकः । सद्भिस् तु संगतः संधिर् मैत्री-पूर्व उदाहृतः ॥११८॥यावद् आयुः-प्रमाणस् तु समानार्थ-प्रयोजनः । संपत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते ॥११९॥संगतः संधिर् एवायं प्रकृष्टत्वात् सुवर्णवत् । तथांयैः संधि-कुशलैः काञ्चनः समुदाहृतः ॥१२०॥आत्म-कार्यस्य सिढिं तु समुद्दिश्य क्रियेत यः । स उपंयास-कुशलैर् उपंयास उदाहृतः ॥१२१॥मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति । इति यः क्रियते संधिः प्रतीकारः स उच्यते ॥१२२॥उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति । अयं चापि प्रतीकारो राम-सुगृवयोर् इव ॥१२३॥एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः । सुसंहित-प्रयाणस् तु संधिः संयोग उच्यते ॥१२४॥आवयोर् योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति । यस्मिन् पणः प्रक्रियते स संधिः पुरुषांतरः ॥१२५॥त्वयैकेन मदीयो र्थः संप्रसाध्यस् त्व् असाव् इति । यत्र शत्रुः पणं कुर्यात् सो दृष्ट-पुरुषः स्मृतः ॥१२६॥यत्र भूम्य्-एक-देशेन पणेन रिपुर् ऊर्जितः । संधीयते संधि-विद्भिः स चादिष्ट उदाहृतः ॥१२७॥स्व-सैंयेन तु संधानम् आत्मादिष्ट उदाहृतः । क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः ॥१२८॥कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः । शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥१२९॥भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते । भूम्य्-उठ-फल-दानेन सर्वेण पर-भूषणः ॥१३०॥परिच्छिन्नं फलं यत्र प्रतिस्कंधेन दीयते । स्कंधोपनेयं तं प्राहुः संधिं संधि-विचक्षणाः ॥१३१॥परस्परोपकारस् तु मैत्री संबंधकस् तथा । उपहारश् च विज्ञेयाश् चत्वारश् चैव संधयः ॥१३२॥एक एवोपहारस् तु संधिर् एतन् मतं हि नः । उपहारस्य भेदास् तु सर्वेंये मैत्र-वर्जिताः ॥१३३॥अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । उपहाराद् ऋते तस्मात् संधिर् अंयो न विद्यते ॥१३४॥
राजाह-भवंतो महांतः पंडिताश् च । तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम् ।
दूरदर्शी ब्रूते-आः किम् एवम् उच्यते?
आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने । को हि नाम शरीराय धर्मापेतं समाचरेत् ॥१३५॥जलांतश् चंद्र-चपलं जीवितं खलु देहिनाम् । तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत् ॥१३६॥
वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम् आपात-मात्र-मधुरो विषयोपभोगः । प्राणास् तृणाग्र-जल-बिंदु-समान-लोला धर्मः सखा परम् अहो परलोक-याने ॥१३७॥
मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भंगुरम् । सज्जनैः संगतं कुर्याद् धर्माय च सुखाय च ॥१३८॥
तन् मम संमतेन तद् एव क्रियताम् । यतः-
अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते ॥१३९॥
अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर् भूपालयोः काञ्चनाभिधानः संधिर् विधीयताम् । सर्वज्ञो ब्रूते-एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालंकारोपहारैः स मंत्री दूरदर्शी पूजितः । प्रहृष्ट-मनाश् चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं संभाषितस् तथा-विधं संधिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः ।
दूरदर्शी ब्रूते-देव ! सिढं नः समीहितम् । इदानीं स्वस्थानम् एव विंध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवंन् इति ।
विष्णुशर्मेनोक्तं-अपरं किं कथयामि, तद् उच्यताम् ।
राज-पुत्रा ऊचुः-आर्य ! तव प्रसादात् सकल-राज्य-व्यवहारांगं जातम् । ततः सुखिनो भूता वयम् ।
विष्णु-शर्मोवाच-यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु  ।
संधिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा संतः संतु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम् । नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता वक्त्रं चुंबतु मंत्रिणाम् अहरहर् भूयान् महान् उत्सवः ॥१४०॥
अंयच् चास्तु- प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश् चंद्रमौलिः स यावद् यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरंती । यावत् स्वर्णाचलो यं दव-दहन-समो यस्य सूर्यः स्फुलिंगस् तावन् नारायणेन प्रचरतु रचितः संग्रहो यं कथानाम् ॥१४१॥
किं च- उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः । आकल्पांतं च भूयात् स्थिर-समुपचिता संगतिः सज्जनानां निःशेषं यांतु शांतिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः ॥१४२॥
अपरं च- श्रीमांधवलचंद्रो सौ जीयान् मांडलिको रिपून् । येनायं संग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥१४३॥
इति हितोपदेशे संधिर् नाम चतुर्थः कथा-संग्रहः ॥ समाप्तश् चायं हितोपदेशः ॥    


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:42.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पोट सुटणें

  • वातानें दोंद वाढणें 
  • पोट लठ्ठ होणें. 
  • उदरनिर्वाहाचा खर्च बाहेर पडणें. 
  • स्वास्थ्य, सुख असणें. 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.