संधिः - कथा ९

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामांतराच् छागम् उपक्रीय, स्कंधे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः । ततस् ते धूर्ताः-यद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशांतरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः ।
तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो भिहितः-भो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कंधेनोह्यते ।
विप्रेणोक्तं-नायं श्वा, किंतु यज्ञ-च्छागः ।
अथांतर-स्थितेनांयेन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य, पुनः स्कंधे कृत्वा दोलायमान-मतिश् चलितः । यतः-
मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः । ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥५९॥
राजाह--कथम् एतत् ?
स कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP