TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

संधिः - कथा ८

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ८
पुरा दैत्यौ सहोदरौ सुंदोपसुंद-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चंद्र-शेखरम् आराधितवंतौ । ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनंतरं तयोः कंठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अंयद् वक्तु-कामाव् अंयद्-अभिहितवंतौ-यद्य् आवयोर् भवान् परितुष्टस् तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु ।
अथ भगवता क्रुढेन वरदानस्यावश्यकतया, विचार-मूढयोः पार्वती प्रदत्ता । ततस् तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अंयोंयं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृढ-द्विज-रूपः समागत्य तत्रोपस्थितः । अनंतरं-आवाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते-
ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । धन-धांयाधिको वैश्यः शूद्रस् तु द्विज-सेवया ॥२६॥
तद् युवां क्षात्र-धर्मानुगौ । युद्द एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वांयोंय-तुल्य-वीर्यौ, सम-कालम् अंयोंय-घातेन विनाशम् उपागतौ । अतो हं ब्रवीमि-संधिम् इच्छेत् समेनापि इत्य् आदि ।

राजाह-तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः ?
मंत्री ब्रूते-तदा मद्-वचनं किम् अवसान-पर्यंतं श्रुतं भवद्भिः ? तदापि मम संमत्या नायं विग्रहारंभः । यतः-साधु-गुण-युक्तो यं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं-
सत्यार्थौ धार्मिको नार्यो भ्रातृ-सङ्हातवान् बली । अनेक-युढ-विजयी संधेयाः सप्त कीर्तिताः ॥२७॥सत्यो नुपालयन् सत्यं संधितो नैति विक्रियाम् । प्राण-बाधेपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥२८॥धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥२९॥संधिः कार्यो प्य् अनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम् ॥३०॥संहतत्वाद् यथा वेणुर् निविडैः कंटकैर् वृतः । न शक्यते समुच्छेत्तुं भ्रातृ-संघातवांस् तथा ॥३१॥बलिना सह योढव्यम् इति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥३२॥जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेक-युढ-जयिनः प्रतापाद् एव भज्यते ॥३३॥अनेक-युढ-विजयी संधानं यस्य गच्छति । तत्-प्रतापेन तस्याशु वशम् आयांति शत्रवः ॥३४॥
तत्र तावद् बहुभिर् गुणैर् उपेतः संधेयो यं राजा । चक्रवाको वदत्-प्रणिधे ! सर्वम् अवगतम् । व्रज । पुनर् आगमिष्यसि ।
अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्ठवान्-मंत्रिन् ! असंधेयाः कति ? तान् श्रोतुम् इच्छामि । मंत्री ब्रूते-देव ! कथयामि । शृणु-
बालो वृढो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः । भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस् तथा ॥३५॥विरक्त-प्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् । अनेक-चित्त-मंत्रस् तु देव-ब्राह्मण-निंदकः ॥३६॥दैवोपहतकश् चैव तथा दैव-परायणः । दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-संकुलः ॥३७॥अदेशस्थो बहु-रिपुर् युक्तः कालेन यश् च न । सत्य-धर्म-व्यपेतश् च विंशतिः पुरुषा अमी ॥३८॥एतैः संधिं न कुर्वीत विगृह्णीयात् तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यांति रिपोर् वशम् ॥३९॥बालस्याल्प-प्रभावत्वान् न लोको योढुम् इच्छति । युढायुढ-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥४०॥उत्साह-शक्ति-हीनत्वाद् वृढो दीर्घामयस् तथा । स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥४१॥सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः । त एवैनं विनिघ्नंति ज्ञातयस् त्व् आत्म-सात्कृताः ॥४२॥भीरुर् युढ-परित्यागात् स्वयम् एव प्रणश्यति । तथैव भीरु-पुरुषः संग्रामे तैर् विमुच्यते ॥४३॥लुब्धस्यासंविभागित्वान् न युध्यंतेनुजीविनः । लुब्धानुजीवी तैर् एव दान-भिन्नैर् निहंयते ॥४४॥संत्य् अज्यते प्रकृतिभिर् विरक्त-प्रकृतिर् युधि । सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान् ॥४५॥अनेक-चित्त-मंत्रस् तु द्वेष्यो भवति मंत्रिणाम् । अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते ॥४६॥सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निंदकः । विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा ॥४७॥संपत्तेश् च विपत्तेश् च दैवम् एव हि कारणम् । इति दैवपरो ध्यायंन् आत्मना न विचेष्टते ॥४८॥दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति । बल-व्यसन-सक्तस्य योढुं शक्तिर् न जायते ॥४९॥अदेश-स्थो हि रिपुणा स्वल्पकेनापि हंयते । ग्राहो ल्पीयान् अपि जले जलेंद्रम् अपि कर्षति ॥५०॥बहु-शत्रुस् तु संत्रस्तः श्येन-मध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥५१॥अकाल-युक्त-सैंयस् तु हंयते काल-योधिना । कौशिकेन हत-ज्योतिर् निशीथ इव वायसः ॥५२॥सत्य-धर्म-व्यपेतेन संदध्यान् न कदाचन । स संधितो प्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥५३॥
अपरम् अपि कथयामि-संधि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम् । कर्मणाम् आरंभोपायः । पुरुष-द्रव्य-संपत् । देश-काअ-विभागः । विनिपात-प्रतीकारः । कार्य-सिढिश् चेति पञ्चांगो मंत्रः । साम-दान-भेद-दंडाश् चत्वार उपायाः । उत्साह-शक्तिः, मंत्र-शक्तिः, प्रभु- शक्तिश् चेति शक्ति-त्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवंति महांतः । यतः-
या हि प्राण-परित्याग-मूल्येनापि न लभ्यते । सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति ॥५४॥
यथा चोक्तं- वित्तं सदा यस्य समं विभक्तं गूढश् चरः संनिभृतश् च मंत्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरांतां पृथिवीं प्रशास्ति ॥५५॥
किंतु देव यद्यपि महा-मंत्रिणा गृध्रेण संधानम् उपंयस्तं, तथापि तेन राज्ञा संप्रति भूत-जय-दर्पान् न मंतव्यम् । देव ! तद् एवं क्रियतां । सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जंबुद्वीपे कोपं जनयतु । यतः- सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरंन् अरातिम् । संतापयेद् येन समं सुतप्तस् तप्तेन संधानम् उपैति तप्तः ॥५६॥
राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः ।
अथ प्रणिधिः पुनर् आगत्योवाच-देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः ।
एवं तत्र गृध्रेणोक्तम्-देव ! मेघवर्णस् तत्र चिरम् उषितः । स वेत्ति किं संधेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा ? इति ।
ततो सौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः-वायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मंत्री वा कीदृशः ?
वायस उवाच-देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक् । चक्रवाक-समो मंत्री न क्वाप्य् अवलोक्यते ।
राजाह-यद्य् एवं तदा कथम् असौ त्वया वञ्चितः ?
विहस्य मेघवर्णः प्राह-देव !
विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता । अंकम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥५७॥
शृणु देव ! तेन मंत्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किंतु महाशयो सौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम्-
आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् । स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥५८॥
राजोवाच-कथम् एतत् ?
मेघवर्णः कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:42.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Rheum emodi Wall.

  • रेवंदचिनी 
  • Himalayan rhubarb 
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site