मित्र लाभः - कथा ३

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उढृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस् तम् आयांतं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्-को यम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो स्मि यतो यं मां व्यापादयिष्यति । अथवा-
तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥५७॥
अधुनातिसंनिधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवंदे ।
गृध्रो वदत्-कस् त्वम् ?
सो वदत्-मार्जारो हम् ।
गृध्रो ब्रूते-दूरम् अपसर नो चेत् हंतव्यो सि मया ।
मार्जारो वदत्-श्रूयतां तावत् मद्-वचनम् । ततो यद्य् अहं वध्यस् तदा हंतव्यः । यतः -
जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यो थवा भवेत् ॥५८॥
गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो सि ?
सो वदत्-अहम् अत्र गंगा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चांद्रायण-व्रतम् आचरंस् तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवंति, अतो भवद्भ्यो विद्यावयो-वृढेभ्यो धर्मं श्रोतुम् इहागतः । भवंतश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हंतुम् उद्यताः ? गृहस्थ-धर्मश् च एषः -
अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः ॥५९॥
किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव ।
तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । एतांय् अपि सतां गेहे नोच्छिद्यंते कदाचन ॥६०॥
अंयच् च- बालो वा यदि वा वृढो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥६१॥
अपरं च- निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वंति साधवः । न हि संहरते ज्योत्स्नां चंद्रश् चांडाल-वेश्मनः ॥६२॥
अंयच् च- अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥६३॥
अंयच् च- उत्तमस्यापि वर्णस्य नीचो पि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो तिथिः ॥६४॥
गृध्रो वदत्-मार्जारो हि मांस-रुचिः । पक्षि-शावकाश् चात्र निवसंति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चांद्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः-
सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये । सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः ॥६५॥
अंयच् च- एक एव सुहृद् धर्मो निधनेप्य् अनुयाति यः । शरीरेण समं नाशं सर्वम् अंयद् हि गच्छति ॥६६॥
किं च- यो त्ति यस्य यदा मांसम् उभयोः पश्यतांतरम् । एकस्य क्षणिका प्रीतिर् अंयः प्राणैर् विमुच्यते ॥६७॥
अपि च- मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते । शक्यस् तेनानुमानेन परो पि परिरक्षितुम् ॥६८॥
शृणु पुनः- स्वच्छंद-वन-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥६९॥
एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः । अतो हं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि ।

इत्य् आकर्ण्य स जंबुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा-
यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि । निरस्त-पादपे देशे एरंडो पि द्रुमायते ॥७०॥
अंयच् च- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुंबकम् ॥७१॥
यथा चायं मृगो मम बंधुस् तथा भवान् अपि । मृगो ब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रंभालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायंते रिपवस् तथा ॥७२॥
काकेन उक्तम्-एवम् अस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिंन् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । अनंतरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बढो चिंतयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अंयः समर्थः ?
अत्रांतरे जंबुकस् तत्रागत्य उपस्थितो चिंतयत्-फलितस् तावद् अस्माकं कपट-प्रबंधः । मनोरथ-सिढिर् अपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यंति । स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिंधि तावन् मम बंधनम् । सत्वरं त्रायस्व माम् । यतः-
आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बांधवान् ॥७३॥
अपरं च- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-संकटे । राज-द्वारे श्मशाने च यस् तिष्ठति स बांधवः ॥७४॥
जंबुकः पाशं मुहुर् मुहुर् विलोक्याचिंतयत्-दृढस् तावद् अयं बंधः । ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दंतैः स्पृशामि ? मित्र ! यदि चित्ते न अंयथा मंयसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनंतरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ंविष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्-
सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् संनिहिता तस्य स नरः शत्रुनंदनः ॥७५॥
काको ब्रूते-स वञ्चकः क्वास्ते ?
मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव ।
काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम् ।
अपराधो न मेस्तीति नैतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥७६॥
दीप-निर्वाण-गंधं च सुहृद्-वाक्यम् अरुंधतीम् । न जिघ्रंति न शृण्वंति न प्श्यंति गतायुषः ॥७७॥
परोक्षे कार्य-हंतारं प्रत्यक्षे प्रिय-वादिनम् । वर्जयेत् तादृशं मित्रं विष-कुंभं पयोमुखम् ॥७८॥
ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः- संलापितानां मधुरैर् वचोभिर् मिथ्योपचारैश् च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥७९॥
अंयच् च- उपकारिणि विश्रब्धे शुढ-मतौ यः समाचरति पापम् । तं जनम् असत्य-संधं भगवति वसुधे कथं वहसि ॥८०॥
दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चांगारः शीतः कृष्णायते करम् ॥८१॥
अथवा स्थितिर् इयं दुर्जनानाम्-
प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किम् अपि रौति शनैर् विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्य् अशंकः सर्वं खलस्य चरितं मशकः करोति ॥८२॥
तथा च- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥८३॥
अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् संदर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उठाय सत्वरं पलायिष्यसे ।
मृगस् तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ-आः ! स्वयं मृतो सि ? इत्य् उक्त्वा मृगं बंधनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अंतरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उठाय पलायितः । तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्-
त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः । अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते ॥८४॥
अतो हं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि ।
इति मृग-वायस-शृगाल-कथा
काकः पुनर् आह-
भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥८५॥
अंयच् च- तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥८६॥
किं च- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागरांभस् तृणोल्कया ॥८७॥
हिरण्यको ब्रूते-चपलस् त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्-
मार्जारो महिषो मेषः काकः कापुरुषस् तथा । विश्वासात् प्रभवंत्य् एते विश्वासस् तत्र नो हितः ॥८८॥
किं चांयत्-शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा संधिर् न विधेयम् । उक्तं चैतत्- शत्रुणा न हि संदध्यात् संश्लिष्टेनापि संधिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥८९॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतो पि सन् । मणिना भूषितः सर्पः किम् असौ न भयंकरः ॥९०॥
यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् । नोदके शकटं याति न च नौर् गच्छति स्थले ॥९१॥
अपरं च- महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्-अंतं तस्य जीवनम् ॥९२॥
लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव संकल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अंयथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि-
मृद्-घटवत् सुख-भेद्यो दुःसंधानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु संधेयः ॥९३॥
किं च- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयाल् लोभाच् च मूर्खाणां संगतः दर्शनात् सताम् ॥९४॥
किं च- नारिकेल-समाकारा दृश्यंते हि सुहृज्जनाः । अंये बदरिकाकारा बहिर् एव मनोहराः ॥९५॥
अंयच् च- स्नेह-च्छेदेपि साधूनां गुणा नायांति विक्रियाम् । भंगेपि हि मृणालानाम् अनुबध्नंति तंतवः ॥९६॥
अंयच् च- शुचित्वम् त्यागिता शौर्यं सामांयं सुख-दुःखयोः । दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः ॥९७॥
एतैर् गुणैर् उपेतो भवद्=अंयो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो हं भवताम् एतेन वचनामृतेन । तथा चोक्तम्-
घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखंड-विलेपनम् सुखयति प्रत्यंगम् अप्य् अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मंत्रोपमम् ॥९८॥
अंयच् च- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया । क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥९९॥
अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः-
पटुत्वं सत्यवादित्वं कथा-योगेन बुढ्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥१००॥
अपरं च- अंयथैव हि सौहार्दं भवेत् स्वच्छांतरात्मनः । प्रवर्ततेंयथा वाणी शाठ्योपहत-चेतसः ॥१०१॥
मनस्य् अंयद् वचस्य् अंयत् कर्मण्य् अंयद् दुरात्मनाम् । मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥१०२॥
तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं संतोष्य विवरं प्रविष्टः । वायसो पि स्व-स्थानं गतः ततः-प्रभृति तयोः अंयो ंयाहार-प्रदानेन कुशल-प्रश्नैः विश्रंभालापैश् च कियत्-कालो तिवर्तने । एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानांतरं गंतुम् इच्छामि ।
हिरण्यको ब्रूते- स्थान-भ्रष्टा न शोभंते दंताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥१०३॥
काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत् । यतः-
स्थानम् उत्सृज्य गच्छंति सिंहाः सत्-पुरुषा गजाः । तत्रैव निधनं यांति काकाः कापुरुषा मृगाः ॥१०४॥
अंयच् च- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानख-लांगुल-प्रहरणः सिंहो वनं गाहते तस्मिंन् एव हत-द्विपेंद्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः ॥१०५॥
हिरण्यको ब्रूते-मित्र क्व गंतव्यम् ? तथा चोक्तम्-
चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुढिमान् । नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥१०६॥
वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम् ।
हिरण्यको वदत्-किं तत् ?
वायसः कथयति-अस्ति दंडकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मंथराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र !
परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥१०७॥
स च भोजन-विशेषैर् मां संवर्धयिष्यति । हिरण्यको प्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः-
यस्मिन् देशे न संमानो न वृत्तिर् न च बांधवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥१०८॥
अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः । पञ्च यत्र न विद्यंते तत्र वासं न कारयेत् ॥१०९॥
अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यंते न कुर्यात् तत्र संस्थितिम् ॥११०॥
अंयच् च- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी ॥१११॥
अतो माम् अपि तत्र नय ।
वायसो वदत्-एवम् अस्तु ।
अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मंथरो दूराद् एव लघु-पतनकम् अवलोक्य उठाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार । यतः-
बालो वा यदि वा वृढो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥११२॥
तथा- गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥११३॥
अपरं च- उत्तमस्यापि वर्णस्य नीचो पि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो तिथिः ॥११४॥
वायसो वदत्-सखे ! मंथर ! स-विशेष-पूजाम् असमि विधेहि, यतो यं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मंथरः सादरं हिरण्यकं संपूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ?
हिरण्यको वदत्-कथयामि, श्रूयताम् ।


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP