TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - सप्तदशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


देशकालविभागः
देशकालविभागः तत्र देशविभागः देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति ।
जगज्जगदेकदेशाश्च देशः ।
"द्यावापृथिव्यात्मकमेकं जगत्" इत्येके ।
तदाहु- "हलमगु बलस्यैको ऽनड्वान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।
प्रवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम्" ॥

"दिवस्पृथिव्यौ द्वे जगती" इत्यपरे ।
तदाहुः- "रुणद्धि रोदसी वास्य यावत्कीर्त्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम्" ॥

"स्वर्गमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके ।
तदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयायसे" ॥

"तान्येव भूर्भ्रुवःस्वः"इत्यन्ये ।
तदाहुः- "नमस्त्रिभुवनाभोगभृतिखेदभरादिव ।
नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने" ॥

"महर्जनस्तपःसत्यमित्येतैः सह सत्प" इत्यपरे ।
तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः ।
हर्षस्य सत्पभुवनप्रथितोरुकीर्त्तेः प्रासादपड्क्तिरियमुच्छिखरा विभाति" ॥

"तानि सत्पभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् ।
तदाहुः- "निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्त्तिर्जयति चतुर्द्दशलोकवल्लिकन्दः" ॥

"तानि सत्पभिः पातालैः सहैकविंशतिः" इति केचित् ।
तदाहुः- "हरहासहरावासहरहारनिभप्रभाः ।
कीर्त्तयस्तव लिम्पन्तु भुवनान्येकर्विंशतिम्" ॥

"सर्वमुपपन्नम्" इति यायावरीयः ।
अविशेषविवक्षा यदेकयति, विशेषविवक्षात्वनेकयति ।
तेषु भूर्लोकः पृथिवी ।
तत्र सत्प महाद्वीपाः ।
"जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलो ऽतः कुशो ऽतः ।
क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः" ॥

"लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः ।
स्वादुवारिरुदधिश्च सत्पमस्तान्परीत्य त इमे व्यवस्थिताः" ॥

"एक एवायं लावणः समुद्रः" इत्येके ।
तदाहुः- "द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैर् रेकोम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् ।
कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरवीर्ये पर्यात्पं मे न दातुं तदिदमिति धिया वेधसे यश्चुकोप" ॥

"त्रयः" इत्यन्ये ।
तदाहुः- "आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
वीर्येण संहतिभिदा विहतोन्तेन कल्पान्तकालविसृतः पवनो ऽनुचक्रे" ॥

यथा वा- "माताङ्गानामभावे मदमलिनमुखैः प्रात्पमाशाकरीन्द्रैः जाते रन्तापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् ।
छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदञ्चत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत्" ॥

"चत्वारः" इत्यपरे ।
तदाहुः- "चतुः समुद्रवेलोर्मिरचितैकावलीलतम् ।
मेरुमप्यद्रिम्रुल्लङ्घ्य यस्य क्वापि गतं यशः" ॥

"भिन्नाभिप्रायतयया सर्वमुपपन्नम्" इति यायवरीयः ।
सत्पसम्रुद्रीवादिनस्तु शास्त्रादनपेता एव ।
तदाहुः- "आगस्त्यचुलुकोच्छिष्टसत्पवारिधिवारिणि ।
म्रुहूर्त्तं केशवेनापि तरता पूतरायितम्" ॥

मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः ।
यो मूर्त्तानामौषधीनां निधानं यश्वावासः सर्ववृन्दारकाणाम् ॥

"तमेनमवधीकृत्य देवेनाम्बुजजन्मना ।
तिर्यगूर्ध्वमधस्ताञ्च विश्वस्य रचना कृता" ॥

स भगवान्मेरुराद्यो वर्षपर्वतः ।
तस्य चतुर्दिशमिलावृतं वर्षम् ।
तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च ।
रम्यकं, हिरण्ययम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि ।
दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च ।
हरिवर्षं, किंपुरुषं, भारतमिति च त्रीणि वर्षाणि ।
तत्रेदं भारतं वर्षमस्य च नव भेदाः ।
इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णो, गभस्तिमान्, नागद्वीपः, सौम्यो, गन्धर्वों, वरुणः, कुमारीद्वीपश्चायं नवमः ।
पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते ।
तान्येतानि यो जयति स सभ्राडित्युच्यते ।
कुमारीपुरात्प्रभृति बिन्दुसरो ऽवधि योजनानां दशशती चक्रवर्त्तिक्षेत्रम् ।
तां विजयमानश्चक्रवर्त्ती भवति ।
चक्रवर्त्तिचिह्नानि तु- "चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
प्रोक्तानि सत्प रत्नानि सर्वेषां चक्रवर्त्तिनाम्" ॥

अत्र च कुमारीद्वीपे- "विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः ।
महेन्द्रसह्यमलयाः सत्पैते कुलपर्वताः" ॥

तत्र विन्ध्यादयः प्रतीतस्वरुपाः, मलयविशेषास्तु चत्वारः ।
तेषु प्रथमः- "आ मूलयष्टेः फणिवेष्टितानां सच्च्न्दनानां जननन्दनानाम् ।
कक्कोलकैलामरिचैर्युतानां जातीतरुणां च स जन्मभूमिः" ॥

द्वितीयः- "यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चिति ताम्रपर्णी ।
रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥

तत्र द्रुमा विद्रुमनामधेया वंशेषि मुक्ताफलजन्म तत्र ।
मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः" ॥

तृतीयः- "विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य ।
सदाफलैः पुष्पलताप्रवालैराश्चर्यमूलं मलयः स तत्र" ॥

चतुर्थः- "सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः ।
द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ॥

प्रवर्त्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्यो ऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा" ॥

पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्वान्तरमार्यावर्त्तः ।
तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च ।
यन्मूलश्च सदाचारः ।
तत्रत्यो व्यवहारः प्रायेण कवीनाम् ।
तत्र वाराणस्याः पुरतः पूर्वदेशः ।
यत्राङ्गकलिङ्गकोसलतोस(शष) लोत्कलमगधमुद्गरविदेहनेपालपुण्ड्र प्राग्ज्योतिषतामलित्पकमलदमल्लवर्त्तकसुह्यब्रह्योत्तरप्रभृतयो जनपदाः ।
बृहद्गृहलोहितगिरिचकोरदर्दुरनेपालकामरुपादयः पर्वताः ।
शोणलौहित्यौ नदौ ।
गङ्गाकरतोयाकपिशाद्याश्च नद्यः ।
लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः ।
माहिष्मत्याः परतो दक्षिणापथः ।
यत्र महाराष्ट्रमाहिषकाश्मकविदर्भकुन्तलक्रथकैशिकसूर्पारककाञ्चीकेरलकावेरमुरलवानवासकसिंहलचोडदण्ड कपाण्ड्यपल्लवगाङ्गनाशिक्यकौङ्कणकोल्ल (ल) गिरिवल्लरप्रभृतयो जनपदाः ।
विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः ।
नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणाकृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्युत्पलावतीरावणगङ्गाद्या नद्यः ।
तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता ।
देवसभायाः परतः पश्चाद्देशः ।
तत्र देबसभसुराष्ट्रदशेरकत्रवणभृगुकच्छकच्छीयानर्त्तर्बुदब्रबह्यणवाहयवनप्रभृतयो जनपदाः ।
गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदादयाश्च पर्वताः ।
सरस्वतीश्वभ्रवतीवार्तध्नीमहाहिडिम्बाद्या नद्यः ।
करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः ।
पृथूदकात्परत उत्तरापथः ।
यत्र शककेकयवोक्काणहूणवाणायुजकाम्बोजवालीकवलवलिम्पाककुलूतकीरतङ्गणतुषारतुरुष्कबर्बरहरहूरवहूहूकसहुड हंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः ।
हिमालयकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः ।
गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनेरावतीवितस्ताविपाशाकुहूतेवि काद्या नद्यः ।
सरलदेवदारुद्राक्षाकुङ्कुमचराजिनसौवीरस्रोतोज्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः ।
तेषां मध्ये मध्यदेश इति कविव्यवहारः ।
न चायं नानुगन्ता शास्त्रार्थस्य ।
तदाहुः- "हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्त्तितः" ॥

तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् ।
द्वीपान्तराणां ये देशाः पर्वताः सरितस्था ।
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ॥

"विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तरर्वेदी ।
तदपेक्षया दिशा विभजेत" इति आचार्याः ।
"तत्रापि महोदयं मूलमवधीकृत्य" इति यायावरीयः ।
"अनियतत्वाद्दिशा मनिश्चिचो दिग्विभाग" इत्येके ।
तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति ।
"अवधिनिबन्धनमिदं रुपमितरत्त्वनियतमेव" इति यायावरीयः ।
"प्राच्यपाचीप्रतीच्युदीच्यः चतस्रो दिशः" इत्येके ।
तदाहुः- "चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन ।
विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म" ॥

"ऐन्द्री, आग्नेयी, याम्या, नेरृती, वारुणी, वायव्या कौबेरी, ऐशानी चाष्टौद्दिशः" इत्येके ।
तदाहुः- "एकं ज्योतिर्द्दशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर् भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सत्पत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानोर् यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितानां शतानि" ॥

"ब्राह्मी नागीया च द्वे ताभ्यां सह दशैताः" इत्यपरे ।
तदाहुः- "दशदिक्तटपर्यन्तसीमसङ्कटभूमिके ।
विषमा स्थूललक्ष्यस्य ब्रह्याण्डग्रामके स्थितिः" ॥

सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता ।
तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, घ्रुवेणोदीची, तदनुसारेणापाची ।
अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधश्तान्नागीयेति ।
द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च ।
तत्र प्राक्सिद्धे प्राची- "द्वित्रैर्व्योन्मि पुराणमौक्तिकमणिच्छेयैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुत्पाश्चकोराङ्गनाः ।
यातो ऽस्ताचलचूलमुदूसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्" ॥

दक्षिणा- "दक्षिणो दक्षिणामाशां यियासुः सो ऽधिकं बभौ ।
जिहासुर्दक्षिणामशां भगवानिव भास्करः" ॥

पश्चिमा- "पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
दीर्घया प्रतिमया सरोभ्भसस्तापनीयमिव सेतुबन्धनम्" ॥

उत्तरा- "अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः" ॥

विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा- "यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन ।
नो चेन्निरन्तरधराधरसेतुसूतिर् आकल्पमेष न विरंस्यति वो वियोगः" ॥

दक्षिणोत्तरौ यथा- "काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः ।
कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः" ॥

उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावपि उत्तरदिगभिधानम् ।
तयोः प्रथमम् - "तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः" ॥

द्वितीयम् - "सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः" ॥

एवं दिगन्तरेष्वपि ।
तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् ।
साधारणां तूभयत्र लोकप्रसिद्धितश्च ।
तदूद्वर्णनियमः ।
तत्र पौरस्त्यानां श्यामो वर्णाः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डु, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च ।
पौरस्त्यश्यामता- "श्यामेष्वङ्गेषु गौहीनां सूत्रहारैकहारिषु ।
चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति" ॥

दाक्षिणात्यकृष्णता- "इदं भासां भर्त्तुद्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् ।
अथैष प्राचीनः सरति मुरलीगण्डमलिनस् तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः ॥

" पाश्चात्यपाण्डुता- "शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति ।
किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु ॥

" उदीच्यगौरता- "पुष्पैः सम्प्रति कञ्चनारतरवः प्रत्यङ्गमालिङ्गिताः वा लीकीदशनव्रणारुणतरैः पत्रैरशोको ऽर्चितः ।
जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः" ॥

यथा वा- "काश्मीरीगात्रेखासु लोलल्लावण्यवीचिषु ।
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्" ॥

मध्यदेश्यकृष्णता यथा- "युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः ।
पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव" ॥

तद्न्मध्यदेश्यश्यामता ।
न च कविमार्गे श्यामकृष्णयोः पाण्डुगौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम ।
मध्यदेश्यगौरता- "तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः ।
अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन" ॥

विशेषस्तु पूर्वदेशे राजपुत्र्यादीना गौरः पाण्डुर्वा वर्णः ।
एवं दक्षिणदेशे ऽपि ।
तत्र प्रथमः - "कपोले जानक्याः करिकलभदन्तद्युतिमुषु स्मरस्मेरस्फारोड्मरपुलके वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः" ॥

द्वितीयः- "तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।
शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी" ॥

एवमन्यदपि यथासम्भवमभ्यूह्यम्- निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः ।
तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ॥

इत्थं देशविभागो म्रुद्रामात्रेण सूत्रितः सुधियाम् ।
यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे देशविभागः सप्तदशो ऽध्यायः ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

(काम) नरम करणें

  • फत्ते करणें-इमं २५३. 
RANDOM WORD

Did you know?

औक्षणाच्या निरांजनात तेल वापरावे की तूप
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.