TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - चतुर्दशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


जातिद्रव्यक्रियासमयस्थापना
जातिद्रव्यक्रियासमयस्थापना
कविसमयः जातिद्रव्यक्रियासमयस्थापना ।
अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः ।
"नन्वेष दोषः ।
कथङ्कारं पुनरुपनिबन्धनार्हः?"इति आचार्याः ।
"कविमार्गानुग्राही कथमेष दोषः?" इति यायावरीयः ।
"निमित्तं तर्हि वाच्यम्" इति आचार्याः ॥

"इदमभिधीयते" इति यायावरीयः ।
पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तेराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेन अन्यथात्वे ऽपि तथात्वेनोपनिबन्धो यः स कविसमयः ।
कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदशिभिः प्रयुक्तो रूढश्च ।
तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्यरोपक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः ।
स च त्रिधा स्वर्ग्यो भौमः पातालीयश्च ।
स्वर्ग्यपातालीययोर्भौमः प्रधानः ।
स हि महाविषयकः ।
स च चतुर्द्धा जातिद्रव्यगुणक्रियारुपार्थतया ।
ते ऽपि प्रत्यक्षं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च ।
तत्र सामान्यस्यासतो निबन्धनम्, यथा--नदीषु पद्मोत्पलादीनि, जलाशयमात्रे ऽपि हंसादयो, यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च ।
नदीपद्मानि यथा- "दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः" ॥

नदीनीलोत्पलानि-- "गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलवारैः खेचराणां हरन्तीम् ।
कुवलयवनकान्त्या जाह्ववीं सो ऽभ्यपश्यत् दिनपतिसुतयेव व्तक्तदत्ताङ्कपालीम्" ॥

एवं नदीकुमुदाद्यपि ।
सलिलमात्रे हंसा यथा- "आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः क्षीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् ।
हेलान्दोलितहंससारसकुलर्क्रेकारसंमूर्च्चितैर् इत्याघोषयतीव तन्नवनदी यच्चेष्टितं वारिभिः" ॥

पर्वतमात्रे सुवर्णं यथा- "नागावासश्चित्रपोताभिरामः स्वर्णस्फीतिव्यात्पदिक्चक्रवालः ।
साम्यात्सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता" ॥

रत्नानि यथा- "नीलाश्मरश्मिपटलानि महेभमुक्त-सूत्कारसीकरविसृञ्जि तटान्तरेषु ।
आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्थः" ॥

एवमन्यदपि ।
सतो ऽप्यनिबन्धनम्, तद्यथा-न मानती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु ।
तत्र प्रथमः- "मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् ।
आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः" ॥

द्वितीयः- "यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि सन्तापमपहरति" ॥

तृतीयः- "दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः ।
नाशोकऽस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः" ॥

अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः, तद्यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि ।
तयोः प्रथमः- "गोत्राग्रहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् ।
दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः" ॥

द्वतीयः- "कामं भवन्तु सरितो भुवि सप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च ।
एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः" ॥

असतो ऽपि द्रव्यस्य निबन्धनम् ।
तद्यथा-मुष्टिग्राह्यत्वं सूचीभेद्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः ।
तत्र प्रथमम्- "तनुलग्रा इव ककुभः भूवलयं चरणचारमात्रमिव ।
दिवमिव चालिकदध्नीं मुष्टिग्राह्यं तमः कुरुते" ॥

तथा च- "पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये ।
मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम्" ॥

द्वितीयम् - "यन्त्रद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनर्विधेर्योग्यव्छविः प्रागभूत् ।
उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका" ॥

द्रव्यस्य सतो ऽनिबन्धनं, तद्यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य ।
तयोः प्रथमम्- "ददृशाते जनैस्तत्र याघत्रायां सकुतूहलैः ।
बलभद्रहृषीकेशौ पक्षाविव सितासितौ" ॥

द्वितीयम् - "मासि मासि समा ज्योत्स्ना पक्षयोः शक्लकृष्णयोः ।
तत्रैकः शक्लतां यातो यशः कुण्यैरवाप्यते" ॥

द्रव्यनियमः, तद्यथा-मलय एव चन्दनस्थानं, हिमवानेव भूर्जोत्पत्तिस्थानम् ।
तत्र प्रथमः- "तापापहारचतुरो नागावासः सुरप्रियः ।
नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः" ॥

द्वितीयः- "न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्" ॥

प्रकीर्णकद्रव्यकविसमयस्तु, तद्यथा- क्षीरक्षारसमुद्रयोरैक्यं सागरमहासमुद्रयोश्च ।
तयोः प्रथमः- "शेतां हरिर्भवतु रत्नमनन्तमन्तर्-लक्ष्मीप्रसूतिरिति नो विवदामहे हे ।
हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वत्र कूपपयसः स मरोर्जघन्यः" ॥

द्वितीयः- "रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः ।
स ददर्श पुरो गङ्गां सत्पसागरवल्लभाम्" ॥

असतो ऽपि क्रियार्थस्य निबन्धनम्, यथा-चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च ।
तत्र प्रथमः- "सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयः पूरान् ।
रथचरणाह्वयवयसां किं नोपकृतं निदाघेन" ॥

द्वितीयः- "एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ॥

सतो ऽपि क्रियार्थस्यानिबन्धनम्, तद्यथा-दिवा नीलोत्पलानामविकासो, निशानिमित्तश्च शोफालिकाकुसुमानाविस्त्रंसः ।
तत्र प्रथमः- "आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे ।
जातः पुनर्विकसनावसरो ऽयमस्येत्य् उक्त्वा सखो कुवलयं श्रवणे चकार" ॥

द्वितीयः- "त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा ।
इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः" ॥

नियमस्तु, तद्यथा-ग्रीष्मादौ सम्भवतो ऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः ।
तयोः प्रथमः- "वसन्ते शीतभीतेन कोकिलेन वने रुतम् ।
अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः" ॥

द्वितीयः- "मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि" ॥

कवीनां समयः सो ऽयं जातिद्रव्यक्रियागतः ।
गुणस्थैष ततः स्वर्ग्यः पातालीयश्च कथ्यते ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविसमये जातिद्रव्यक्रियासमयस्थापना नाम चतुर्दशो ऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एव्हांएव्हां

  • ad  About this time of the day. 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site