TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - त्रयोदशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


अर्थहरणेष्वालेख्यप्रख्यादिभेदाः
अर्थहरणेष्वालेख्यप्रख्यादिभेदाः आलेख्यप्रख्यपरिसङ्ख्याः ।
सदृशञ्चारणं समक्रमः ।
यथा- "अस्ताद्रिवेश्मनि दिशो वरुणप्रियायास् तिर्यक्कथञ्चिदपयन्त्रणमास्थितायाः ।
गण्डैकपार्श्वमिव कुङ्कुमपङ्कचिम्बु बिम्बं रुचामधिपतेरगुणं रराज" ॥१॥

यथा च- "प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कुमारुणकपोलतलेन ।
साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः" ॥

अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः ।
यथा- "कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततो ऽग्रे पाकपीताम्रपीतम् ।
अभिनवरविरोचिर्धूमधूभ्रं शिखायाम् इति विवधविकारं दिद्युते दैपमर्चिः" ॥

अत्रार्थे- "मनाङ्मूले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु ।
शिखायामाधूभ्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्दैपं दलयति तमः पुञ्जितमपि" ॥

क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः ।
यथा तत्रैव-- "श्यामं शिखाभुवि मनागरुणं ततो ऽधः स्तोकावपाण्डुरधनं च ततो ऽप्यधस्तात् ।
आपिञ्जरं तदनु तस्य तले च नीलम् अन्धं तमः पटलमर्द्दति दैपमर्चिः" ॥

सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः ।
यथा- "इत्युद्गते शशिनि पेशलकान्तदूती-संलापसञ्चलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा-विन्यासहासितसखीजनमङ्गनाभिः" ॥

अत्रार्थे- " चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारदृष्टे ।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्" ॥

उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः ।
यथा- "दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममञ्ज शनकैस्तुहिनांशुः" ॥

अत्रार्थे- "ततस्तमः श्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्ददश्यतान्तरा ।
निशातरुण्याः स्थितशेषकुङ्कुमस्तनाभिरामं सकलं कलावतः" ॥

तदेव वस्तूक्तिवशादन्यथा क्रियत इति नटनेपथ्यम् ।
यथा-- "आननेन्दुशशलक्ष्मकपोले सादरं विरचितं तिलकं यत् ।
तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः" ॥

अत्रार्थे-- "शोकाश्रुभिर्वासरखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् ।
कान्तेषु कालात्ययमाचरन्सु स्वल्पायुषः पत्रलता बभूवुः" ॥

परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः" ।
अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण ।
मूलावलग्रसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोहस्य" ॥

अत्रार्थे - "सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति ।
मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव" ॥

विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः ।
यथा-- "रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वारान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ॥

अत्रार्थे - "तस्याः प्रतिद्वन्द्विभवाद्विषादात् सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमे प्रसन्नः प्रसादमात्मीयमिवात्मदर्शः" ॥

ता इमा आलेख्यप्रख्यस्य भिदाः ।
सो ऽयमनुग्राह्यो मार्गः ।
आहुश्च- "सो ऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः ।
नटवद्वर्णिकायागादन्यथान्यथात्वमिवार्च्छति" ॥

अथ तुल्यदेहितुल्यस्य भिदाः ।
तस्यैव वस्तुनो विषयान्तरयोजनादन्यरुपापत्तिर्विशयपरिवर्त्तिः ।
यथा- "ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः ।
ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभ्रुवः श्वासानिलाः पान्तु वः" ॥

अत्रार्थे-- "ये कीर्णाक्वथितोदराब्जमधवो ते म्लापितोरः स्त्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतापोभ्फिज्ताः ।
ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रतत्पसरलाः श्वासा हरेः पान्तु वः" ॥

द्विरुपस्य वस्तुनो ऽन्यतररुपोपादानं द्वन्द्वविच्छित्तिः ।
यथा- "उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्याद् यत्रेन्दनं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् ।
क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः" ॥

अत्रार्थे- "दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग दृष्टनष्टा सुखम् ।
यां चञ्चत्सफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहुर्मुह्यल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः" ॥

पूर्वोर्थानामर्थान्तरैरन्तरणं रत्नमाला ।
यथा-- "कपोले मार्जारः पय इति करांल्लेढि शशिनस् तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति" ॥

अत्रर्थे-- "ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः स्वांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः ।
पुभ्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहः सम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च" ॥

सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः ।
यथा-- "नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः ।
त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रेन्दवो दश" ॥

अत्रार्थे- "उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरः समागमे ।
षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः" ॥

सममभिधायाधिकस्योपन्यासश्चूलिका ।
द्विधा च सा संवादिनी विसंवादिनी च ।
तयोः प्रथमा यथा- "अङ्गणे शशिमरीचिलेपने सुत्पमिन्दुकरपुञ्जसन्निभम् ।
राजहंसमसमीक्ष्य कातरा रौति हंसवनिताश्रुगद्गगम्" ॥

अत्रार्थे- "चन्दप्रभाप्रसरहिसिनि सौधपृष्टे दुर्लक्षपक्षतिपुटां न विवेद जायाम् ।
मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः" ॥

द्वितीया तत्रैवार्थे यथा- "ज्योत्स्नाजलस्नायिनि सौधपृष्टे विविक्तमुक्ताफलपुज्जरौरम् ।
विवेद हंसी वयितं कथञ्चिच् चुलत्तुलाकोटिकलैर्निनादैः" ॥

निषेधस्य विधिना निबन्धो विधानापहारः ।
यथा- "कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकताम् इति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः" ॥

अत्रार्थे-- "मुखमदिरया पादन्यासैर्विलासविलोकितैर् बकुलविटपी रक्ताशोकस्तता तिलकद्रुमः ।
जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिता यद्वर्ग्याभिर्विकासमहोत्सवम्" ॥

बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुज्जः ।
यथा- "शैलच्छलेन स्वं दीर्घं भुजमुक्तभ्य भूवधूः ।
निशासख्या करोतीव शशाङ्कतिलकं मुखे" ॥

यथा च -- "फुल्लातिमुक्तकुसुमस्तवकाभिराम दूरोल्लसत्किरणकेसरमिन्दुर्सिंहम् ।
दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-दुर्वारवारणघटा व्यघटन्त सद्यः" ॥

यथा च- "संविधातुमभिषेकमुदासे मन्मथस्य लसर्दशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥

यथा च-- "उदयति पश्य कृशोदरि दलितत्व(क्)क्षीरकरणिभिः किरणैः ।
उदयाचलचूडमणिरेष पुरा रोहिणीरमणः" ॥

यथा च-- "उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः ।
उदयगिरितटस्फटाट्टहासो रजनिवधीमुखदर्पणः शशाङ्कः" ॥

यथा च- "प्रेषिदैकेन्दुहंसे ऽस्मिन्सस्नाविव तमो ऽम्बुभिः ।
नभस्तडागे मदनस्ताराकुमुदहासिनि" ॥

अत्रार्थे- "रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।
अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी" ॥

कन्दभूतो ऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः ।
यथा च-- "विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु ।
कुमुदाकरेषु विकसति शशिकलशपरिस्त्रुता ज्योत्स्ना" ॥

अत्रार्थे- "वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका" ॥

स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः ।
क्षरति चिरं येन यथा ज्योत्स्ना घनसारधूलिरिव ॥

सितमणिकलशाकदिन्दोर्हरिणहरित्तृणपिधानत्.ओ गलितैः ।
रजनिभुजिष्या सिञ्चति नभो ऽङ्गणं चन्द्रिकाम्भोभिः ॥

संविधातुमभिषेकमुदासे मन्यथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥

ता इमास्तुल्यदेहितुल्यस्य परिसंख्याः" ।
सो ऽयमुल्लेखवाननुग्राह्यो मार्गः" इति सुरानन्दः ।
तदाह-- "सरस्वती सा जयति प्रकामं देवी श्रुतिः स्वस्त्ययनं कवीनाम् ।
अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चदिहार्थनत्नम्" ॥

अथ परपुरप्रवेशसद्दशस्य भिदाः ।
उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुङ्डयुद्धम् ।
यथा-- "कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्यथः ।
प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने" ॥

अत्रार्थे-- "कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
मृगदृशां कदलीललितं वपुर्यदभिहन्ति शरैः कुसुमोद्भवैः" ॥

प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् ।
यथा-- "माद्यञ्चकोरेक्षणतुल्यधाम्नो धारां दधाना मधुना मधुनः पतन्तीम् ।
चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी" ॥

अत्रार्थे- "मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन ।
वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन" ॥

उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः ।
यथा- "अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः" ॥

अत्रार्थे- "मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव ।
दीर्घापाङ्गनदीं विलङ्ध्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा भृगदृशो मामभ्यषिञ्चन्दृशः" ॥

शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः ।
यथा- "जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांशवः" ॥

अत्रार्थे- "सन्मार्गालोकनप्रौढिनीरजीकृतजन्तवः ।
जयन्त्यपूर्वव्यापाराः पुरारेः पादपांशवः" ॥

तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः ।
यथा- "स्नानार्द्रार्दैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति" ॥

अत्रार्थे- "लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसूत्रसुभगाः प्रात्पाः पयोबिन्दवः ।
ते वः पान्तु विशेषसस्पृहद्दशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः" ॥

पूर्वं सदृशः पश्चाद्भिन्नो जीवञ्चीवकः ।
यथा- "नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु ।
सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणैव काचितासीत्" ॥

अत्रार्थे- "भास्वत्कपोलतलकुण्डलपारिहार्य-सन्मेखलामणिगणप्रतिबिम्बितेन ।
चन्द्रेण भाति रमणी रमणीयवक्त्र-शोभाभिभूतवपुषेव निषेव्यमाणा" ॥

प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा ।
यथा- "ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्चन्मलयस्थलीषु" ॥

अत्रार्थे- "निश्वेतनानामपि युक्तयोगदो नूनं स एनं मदनो ऽधिष्ठति ।
एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताधिरोहति" ॥

पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी (धिनी) ।
यथा- "हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ ।
वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरश्चन्द्रात्त्वया शिक्षितः" ॥

अत्रार्थे- "मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया वाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।
व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम्" ॥

इत्यर्थहरणोपाया द्वार्त्रिंशदुपदर्शिताः ।
हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥

कि.ं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः ।
अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥

किञ्च- शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः ।
किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशो ऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.1630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

control panel

  • नियंत्रक फलक 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site