TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - द्वदशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


अर्थहरणोपायाः
अर्थहरणोपायाः, कविप्रभेदाः, प्रतिबिम्ब-कल्पविकल्पस्य समीक्षा च ।
"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कृर्तुं प्रयतेत" इति आचार्याः ।
"न" इति वाक्पतिराजः ।
"आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारो ऽपि ।
अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्यन्दः" ॥

तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत ।
"तदवगाहने हि तदेकयोनयो ऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके ।
"तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे ।
महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागायतानाद्रियेत इति च केचित् ।
"न" इति यायावरीयः ।
सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति ।
तदाहुः- सुत्पस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति ।
तदितरस्य तत्र जाग्रतो ऽप्यन्धं चक्षुः ।
अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धास्तद्विपरीते तु दिव्यदृशः ।
न तत् त्र्यक्षाः सहस्रोक्षो वा यञ्चर्मचक्षुषो ऽपि कवयः पश्यन्ति ।
मदिदर्पणे कवीनां विश्वं प्रतिफलति ।
कथं नु वयं दृश्यामह इति महात्मनामहम्पूर्विकयैव शब्दार्थाः पुरो धावन्ति ।
यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तत्र वाचा विचरन्ति कवयः इत्यनन्ता महाकविषु सूक्तयः (इति) ।
"समस्तमर्स्ति" किन्तु त्रिपथमर्थमध्यगीष्महि ।
इति यायावरीयः ।
यदुतान्ययोनिर्निह्णुतयोनिरयोनिश्च ।
तत्रान्ययोनिद्विधा प्रतिबिम्बकल्पः, आलेख्ययप्रख्यश्च ।
निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः परपुरप्रवेशसदृश्च ।
अयोनिः पुनरेकादृश एव ।
तत्र- अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र ।
तदपरमार्थविभेदं काव्यं प्रतिबिम्बिकल्पं स्यात् ॥

यथा-- "ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः ।
चन्द्रामृदाम्बुकणसेकसुखप्ररुढैर् यैरङ्कुरैरिव विराजति कालकूटः" ॥

यथा च- "जयन्ति नीलकण्ठस्य कण्ठे नीलाः महाहयः ।
गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव" ॥

कियताषि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।
तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥

तत्रैवार्थे यथा- "जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः ।
गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव" ॥

विषयस्य यत्र भेदे ऽप्यभेदबुद्धिर्नितान्तसादृश्यात् ।
तत्तुल्यदेहितुल्य काव्यं बध्नन्ति सुधियो ऽपि ॥

यथा-- "अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् ।
अमीषां निर्माणं किमपि तदभूद्दग्धकरिणां वनं वा क्षेणीभृद्भवनमथवा येन शरणम्" ॥

अत्रार्थे-- "प्रतिगृहमुपलानामेक एव प्रकारो म्रुहुरुपकरणत्वादर्घिताः पूजिताश्च ।
स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः" ॥

मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो ऽनेकः ।
तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥

यथा-- "यस्यारातिनितम्बिनीभीरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।
उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद् घ्राताः कदम्बानिलाः" ॥

अत्रार्थे-- "आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
हृष्यद्भिः परिचुम्बुतं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कार्णावतंसीकृतम् ॥

" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः ।
अमीषां चार्थानामन्वर्था अयस्कान्तवञ्चत्वारः कवयः पञ्चमश्चादृष्टचरार्थदर्शी ।
तदाहुः- "भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च यः ।
स कविर्लौकिको ऽन्यस्तु चिन्तामणिरलौकिकः ॥

तन्वानो ऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः ।
यो ऽप्रसिद्धयादिभिर्भाभ्यत्यसौ स्याद् भ्रामकः कविः ॥

यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा ।
स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥

परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेति ।
समुल्लेकेन केनापि स स्मृतः कर्षकः कविः ॥

अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् ।
यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥

चिन्तासमं यस्य रसैकसूतिरुदेति चित्राकृतिरर्थसार्थः ।
अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः" ॥

तस्य चाचोनिरर्थः ।
स च त्रिधा लौकिकालौकिकभेदेन, तयोर्मिश्रत्वेन च ।
लौकिकः - "मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन ।
पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृते ऽपि हि यन्त्रयोगात्" ॥

अलौकिकः- "देवी पुत्रमसून नृत्यत गणाः किं तिष्ठतेत्युद्भुजे" हर्षाद्भृङ्गिरिटावुदाः हृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः" ॥

मिश्रः- "स्थिते कुक्षेरन्तर्मुरचयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः ।
निपाताः सानन्दं रचितफणचक्रेण हलिना लमन्तादस्यासुः प्रतिदिवसमेनांसि भवतः" ॥

तेषां च चतुर्णामर्थानाम्- चत्वार एते कथिता मयैव ये ऽर्थाः कवीनां हरणोपदेशे ।
प्रत्तयेकमष्टत्ववशाद्भवन्ति द्वात्रिंशता ते ऽनुगताः प्रभेदैः ॥

तत्र प्रतिबिम्बकल्पविकल्पाः ।
स एवार्थः पौर्वापर्यविपर्यासाद् व्यस्तकः ।
यथा- "दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय ।
गच्छन्दघ्रे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः" ॥

अत्रार्थे- "निर्विवेकमनसो ऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम ।
यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारि करिण्या" ॥

बृहतो ऽर्थस्यार्द्धप्रणयनं खण्डम् ।
"पुरा पाण्डुप्रायं तदनु कपिशिन्मा कृतपदं ततः पाकोद्रेकाररुणगुणसंवर्गितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति" ॥

अत्रार्थे- "पाकक्रियापरिचयप्रगुणीकृतेन संवर्द्धितारुणगुणं वपुषा निजेन ।
आपादितस्थपुटसंस्यितिशोषपोषादेतद्वने विरसतां बदरं बिभर्त्ति" ॥

संक्षित्पार्थविस्तरेण तैलबिन्दुः ।
यथा- "यस्य तन्त्रभराक्रान्त्या पातालतलगामिनी ।
महावराहृदंष्ट्राया भूयः सस्मार मेदिनी" ॥

अत्रार्थे- "यत्तन्त्राक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा ।
सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-स्थूलास्थिश्रेणिशाणानिकाषणसितमप्याशु दंष्ट्राग्रमुग्रम्" ॥

अन्यतमभाषानिबन्द्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।
यथा- "नेच्छै पासासंकी काओ दिण्णं पि पहिअघरिणीए ।
ओहत्तकरयलोग्गलियवलयमज्झदिट्रिठां पिण्डं" ॥

("नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या ।
अनवरतकरतलोद्गतवलयमध्यस्थितं पिण्डम्" ॥

) अत्रार्थे- "दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् ।
वक्रग्रीवश्चलनतशिराः पार्श्रसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः" ॥

छन्दसा परिवृत्तिश्छन्दोविनिमयः ।
यथा- "कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः" ॥

अत्रार्थे- "धन्यास्तु याः कथयथ प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि" ॥

कारणपरावृत्त्या हेतुव्यत्ययः ।
यथा- "ततो ऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी ।
दघ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्" ॥

अत्रार्थे-- "समं कुसुमचापेन गर्भिणीगण्डपाण्डुना ।
उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना" ॥

दृष्टस्य वस्तुनो ऽन्यत्र संक्रमितिः सङ्क्रान्तकम् ।
यथा- "स्नानार्द्रैर्विधुतकवरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्किशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां कोलिहंसाः पिबन्ति" ॥

अत्रार्थे- "सद्यः स्नातजपत्तपोधनजटाप्रान्तस्त्रुताः प्रोन्मुखैः पीयन्ते ऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः ।
एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्" ॥

उभयवाक्यार्थोपादानं सम्पुटः ।
यथा- "विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्त्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य ।
यस्यामन्तः स्फुरितशफरत्रासहासाकुलाक्षी स्वैरं स्वैरं कथमपि मया तीरमृत्तारितासि" ॥

यथा- "नाभीगुहाबिलविशश्चलवीचिजातमञ्जुध्वनिश्रुतिकणत्कलकुक्कुभानि ।
रेवाजलान्यविरलं ग्रहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु" ॥

अत्रार्थे- "यद्वर्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-व्यस्तोरुस्तम्भिकाभिदिंशि दिशि सरितां दिग्जयप्रक्रमेषु ।
अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्-कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुक्कुभं कामिनीभिः" ॥

सो ऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः ।
यतः-- "पृथक्त्वेन न गृह्णान्ति वस्तु काव्यान्तरस्थितम् ।
पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम्" ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकणे शब्दार्थहरणोपायाः कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशो ऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tractor balance

  • व्यापार संतुलन 
  • व्यापार शेष 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.