TransLiteral Foundation

काव्यमीमांसा - एकादशो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


शब्दार्थहरणोपायाः
शब्दार्थहरणोपायाः कविविशेषाः, तत्र शब्दहरणोपायाः ।
शब्दहरणोपायाः ।
परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम् ।
तद्द्विधा परित्याज्यमनुग्राह्यं च ।
तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च ।
"तत्रैकपदरणं न दोषाय" इति आचार्याः ।
"अन्यत्र द्वयर्थपदात्" इति यायावरीयः ।
तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्- "दूरकृष्टशिलीमुखव्यतिकारान्नो किं किरातानिमा नाराद्वयावृतपीतलोहितमुखान्किं वा पलाशानपि ।
पान्थाः केसरिणं न पश्यत पुरोप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्" ॥

यथा च- "मा गाः पान्थ प्रियां त्यक्त्या दूराकृष्टशिलीमुखम् ।
स्थितं पन्थानमावृत्य किं किरातं न पश्यसि" ॥

श्लिष्टपदैकदेशेन हरणम्- "नाश्चर्यं यदनार्यात्पावस्तप्रीतिरयं मयि ।
मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः" ॥

यथा च- "कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्ते ऽधरः किं वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् ।
तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरान् मुग्धे मांसरसं ब्रुवन्तिति तया गाढं समालिङ्गितः" ॥

श्लिष्टस्य यमकेन हरणम्- "हलमपारयोनिधिविस्तृतं प्रहरता हलीना समराङ्गणे ।
निजयशश्च शशाङ्ककलामलं निरवधीरितमाकुलमासुरम्" ॥

यथा च- "दलयता विशिखैर्बलमुन्मदं निरवधीरितमाकुलमालुरम् ।
दशसु दिक्षु च तेन यशः सितं निरवधीरितमाकुलमासुरम्" ॥

श्लिष्टस्य प्रश्नोत्तरेण हरणम्- "यस्यां भुजङ्गवर्गः कर्णोयतेक्षणं कामिनीववदनं च" ॥

यथा च- "किं करोति कियत्कालं वेश्यावेश्मनि कामुकः ।
कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्" ॥

यमकस्य यमकेन हरणम्- "वरदाय नमो हरये पतति जनो ऽयं स्मरन्नपि न मोहरये ।
बहुशश्चक्रन्द हता मनसि दितिर्येन दैत्यचक्रं दहता" ॥

यथा च- चक्रं दहतारं चक्रन्द हतारं खङ्गेन तवाजौ राजन्नरिनारी ।
एवमन्योन्यसमन्वये ऽन्ये ऽपि भेदाः ।
नन्विदमुपदेश्यमेव न भवति ॥

यदित्थं कथयन्ति- "पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति ।
अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च न शीर्यति" ॥

"अयमप्रसिद्धः प्रसिद्धिमानहम्ष, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गूडूचीवचनो ऽयं मृद्वीकावचनो ऽहम्, अनादृतभाषाविश्षो ऽयमहमादृतभाषाविशेषः, प्रशान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उच्छन्ननिबन्धनमूलमिदं, म्लेच्छितकोपनिबन्धमूलमिदमित्येवमादि भिः कारणैः शब्दहरणे ऽर्थहरणे चाभिरमेत" ॥

इत्य् अवन्तिसुन्दरी ।
"त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिश्टेभ्यो हरणम्" इति आचार्याः- यथा- "स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः" ॥

यथा च- "स पासु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु" ॥

"न" इति यायावरीयः ।
उल्लेखवान्पदसन्दर्भः परिहरणीयो नाप्रत्यभिज्ञायातः पादो ऽपि ।
तस्यापि साम्ये न किञ्चन दृष्टं स्यात् ।
यथा- "इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः" ॥

यथा च- "इत्युक्तवचनुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी ।
संक्षित्पमात्पावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम्" ॥

उल्लेखवान्यथा- "नमः संसारनिर्वाणविषामृतविधायिने ।
सत्पलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे" ॥

यथा च- "प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमो ऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे" ॥

"पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्" इति आचार्याः ।
यथा--- "त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरक व्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति" ॥

यथा च- "त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीतम् ।
जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः" ॥

तदिदं स्वीकरणापरनामधेयं हरणमेव (इति यायावरीयः-) ।
तद्वदर्ध्दप्रयोगे ऽपि ।
यथा- "पादस्ते नरवर दक्षिणे समुद्रे पादो ऽन्यो हिमवति हेमकूटलग्ने ।
आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः" ॥

यथा चोत्तरार्द्धे- "इत्थं ते विधृतपदद्वयस्य राजन् नाश्चर्यं कथमिव सीवनी न भिन्ना" ॥

एवं व्यस्तार्द्धप्रयोगे ऽपि ।
यथा- "तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन् निन्दोः सिताभ्रशकलस्य च को विशेषः" ॥

यथा च-- "तत्तावदेव शशिनः स्फिरितं महीयो यावन्न किञ्चिदपि गौरितरा हसन्ति ।
ताभिः पुनर्विहसिताननपङ्कजाभिर् इन्दोः सिताभ्रशकलस्य च को विशेषः" ॥

पाद एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा ।
यथा- "अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया" ॥

यथा चोत्तरार्द्धे- "तन्वङ्गी यदी लभ्येत दिव्या सम्भगवति क्रिया" ।
यथा वा--- "यस्य केशेषु जीमूता नद्यः सर्वाङ्गमन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः" ॥

यथा चोत्तरार्द्धे--- "कुक्षौ समुद्राश्चत्वारः स सहेत स्मरानलम्" ।
भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव ।
यथा--- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरो ऽयं यन्न नास्तं कदाचित् ।
भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः" ॥

यथा च- "जयति सितविलोलव्तयालयज्ञोपवीती घनकपिलटानतर्भान्तगङ्गाजलौघः ।
अविदितमृगजिह्नमिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी" ॥

यथा च- "कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांसुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥

" यथा च- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौधः ।
निवसति स पिनाकी यत्र यायां तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः" ॥

पादोनवत्कतिपयपदप्रयोगो ऽपि यथा- "या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वार्णयन्तो वयं श्रान्ता नैव लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्" ॥

यथा च चतुर्थपादे- "श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्" ॥

पादैकदेशाग्रहणमपि पदैकदेशोपलक्षणपरम् यथा- "असकलहसित्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि ।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः" ॥

यथा चोत्तरार्धे- "पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः" ।
वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा ।
यथा- "सुभ्रु!त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्भ्फताः सुरभयः स्रग्दामधूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः" ॥

एतञ्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्यख्यातं, न स्वीकृतं हृतं वा ।
यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् ।
मुक्तकप्रबन्धविषयं तत् ।
मूल्यक्रयो ऽपि हरणमेव ।
वरमप्रात्पिर्यशसो न पुनर्दुर्यशः ।
(सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च ।
तत्रोपजीवनमात्रेण न कश्चिद्दोषः ।
यतः सर्वो ऽपि परेभ्य एव व्युत्पद्यते, केवलं तत्र समुदायो गुरुः) "तद्वहक्तिहरणम्" इति आचार्याः ।
यथा - "ऊरुद्वयं सरसकदलीकाण्डसब्रह्मचारि" ।
यथा च -- "उरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिसश्च मुखं मृगाक्ष्याः" ॥

उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभियाज्ञन्ते, स्वदन्ते च॑ तदर्थस्तु हरणादपि हरणं स्युः" इति यायावरीयः ।
"नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः ।
स नन्दति विना वाच्यं यो जानात् निगूहितुम् ॥

उत्पादकः कविः कश्चित्कश्चिञ्च परिवर्त्तकः ।
आच्छादकस्तथा चान्यस्तथा संवर्गको ऽपरः ॥

शब्दार्थोक्तिषु यः पश्चेदिह किञ्चन नूतनम् ।
उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः" ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे एकादशो ऽध्यायः शब्दहरणानि ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fin-neck bolt

  • पंखग्रीवा बोल्ट 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.