TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - दशमोऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


गृहीतविद्योपविद्यः
कविचर्या राजचर्या च ।
गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत ।
नामधातुपारायणे, अभिधानकोशः, छन्दोविचितः, अलङ्कारतन्त्रं च काव्यविद्याः ।
कलास्तु चतुःषष्टिरुपविद्याः ।
सुजनोपजीव्यकविसन्निधः, देशवार्ता, विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनकविनिबन्धाश्च ।
किञ्च- स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदाढर्यमनिर्वेदश्च मातरो ऽष्टौ कवित्वस्य ॥

अपि च नित्यं शुचिः स्यात् ।
त्रिधा च शौचं वाक्शौचं, मनः-शौचं, कायशौचं च ।
प्रथमे शास्त्रजन्मनी ।
तार्तीयीकं तु सनखच्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं च वासः, सुकुसुमं शिर इति ।
शुचिशीलनं हि सरस्वत्याः संवननमामनन्ति ।
स यत्स्वभावः कविस्तकदनुरुपं काव्यम् ।
यदृशाकारश्चित्रकारस्तादृशाकारमस्य चित्रमिति प्रायोवादः ।
स्मितपूर्वमभिभाषणं, सर्वत्रोक्तिगर्भमभिधानं, सर्वतो रहस्यान्वेषणं, परकाव्यद्षणवैमुख्यमनभिहितस्य अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंमृष्टं, ऋतुषट्कोचितविविधस्थानम्, अनेकतरुमूलकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्धिकापुष्करिणीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सविर्हिणहरिणहारितं, ससारसचक्रवाक्रहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, धर्मक्लान्तिचौरं, सभू(ति)मिधारागृहयन्त्रलतामण्डपकं,, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदाय आज्ञाभूकपरिजनं विजनं वा तस्य स्थानम् ।
अपभ्रंशभाषणप्रवणः परिचारकवर्गः, समागधभाषाभिनिवेशिन्यः परिचारिकाः ।
प्राकृतसंस्कृतभाषाविद आन्तःपुरिका, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः ।
सदःसंस्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिताकारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् ।
तदसन्निधावतिरात्रादिषु पूर्वोक्तनामन्यतमः ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा॑तेन दुरुञ्चारानष्टौ वर्णानपास्य स्वान्तःपुर एव प्रवर्त्ततो नियमः, टकारादयश्चत्वारो मूर्ध्दन्यास्तृतीयवर्जमूष्माणस्त्रयः क्षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा॑ तेन परुषसंयोगाक्षरवर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा॑ तेन प्राकृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा॑ तेन च संस्कृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफलकखटिका, समुद्गकः, सलेखनीकमषीभाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालदलानि सुसभ्मृष्टा भित्तयः, सततसन्निहिताः स्युः ।
"तद्धि काव्यविद्यायाः परिकरः"इति आचार्याः ।
"प्रतिभैव परिकरः" इति यायावरीयः ।
कविः प्रथममात्मानमेव कल्पयेत् ।
कियान्मे संस्कारः, क्व भाषाविषये शक्तो ऽस्मि, किं रुचिर्लोकः, परिवृढो वा, कीदृशि गोष्ठ्यां विनीतः, क्वास्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"इति आचार्याः ।
"एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रघस्य पुनरेकभाषावत्सर्वा अपि भाषाः स्युः" इति यायावरीयः ।
देशविशेषवशेन च भाषाश्रयणं दृश्यते ।
तदुक्तम्- "गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।
आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥

जानीयाल्लोकसांमत्यं कविः कुत्र ममेति च ।
असंमतं परिहरेन्मते ऽभिनिविशेत च ॥

जनापवादमात्रेण न जुगुप्सेत चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ॥

गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते ।
प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ॥

प्रत्यक्षकविकाव्यं च रुपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ॥

इदं महाहासकरं विचेष्टितं परोक्तिपाटच्चरतारतो ऽपि यत् ।
सदुक्तिरत्नाकरतां गतान्कवीन् कवित्वमात्रघेण समेन निन्दति ॥

वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् ।
बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ॥

कार्यावसरसज्जानां परिव्राजां महीभ्रुजाम् ।
काव्यं सद्यः कवीनां च भ्रमत्यह्ना दिशो दश ॥

पितुर्गुर्रेर्नन्द्रस्य सुतशिष्यपदातयः ।
अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च" ॥

"किञ्च नार्द्धकृतं पठेदसमात्पिस्तस्य फलम्" इति कविरहस्यम् ।
न नवीनमेकाकिनः पुरतः ।
स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा जीयेत ।
न च स्वकृतिं बहुमन्येत ।
पक्षुपातो हि गुणदोषौ विपर्यासयति ।
न च दृप्येत् ।
दर्पलवो ऽपि सर्वसंस्कारानुच्छिनत्ति ।
परैश्च परीक्षयेत् ।
यदुदासूनः पश्यति न तदनुष्ठातेति प्रायोवादः ।
कविमानिनं तु छन्दो ऽनुवर्त्तनेन रञ्जयेत् ।
कविंमन्यस्य हि पुरतः सूक्तमरण्यरुदितं स्याद्विप्लवेत च ।
तदाह- "इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः ।
न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि" ॥

अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्रमेण चतुर्द्धा विभजेत् ।
स प्रातरुत्थाप कृतसन्ध्यावरिवस्याः सारस्वतं सूक्तमधीयीत ।
ततो विद्यावसथे यथासुखमासीनः काव्यस्य विद्या उपविद्याश्चानुशीलयेदाप्रहरात् ।
न ह्येवंविधोन्यः प्रतिभाहेतुर्यथा प्रत्यग्रसंस्कारः ।
द्वितीये काव्यक्रियाम् ।
उपमध्याह्नं स्नायादविरुद्धं भुञ्जीत च ।
भोगनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् ।
कदाचिच्च प्रश्नोत्तराणि भिन्दीत ।
काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा योगा इत्यायामत्रयम् ।
चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वाह्नभागविहितस्य काव्यस्य परीक्षा ।
रसावेशतः काव्यं विरचयतो न च विवेक्त्री दृष्टिस्तस्मादनुपरीक्षेत ।
अधिकस्य त्यागो, न्यूनस्य पूरणम्, अन्यतास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं चेत्यहीनम् ।
सायं सन्ध्यामुपासीत सरस्वतीं च ।
ततो दिवा विहितपरीक्षकस्याभिलेखनमाप्रदोशात् ।
यावदार्त्तं स्त्रियमभिमन्येत ।
द्वितीयतृतीयौ साधु शयीत ।
सम्यक्स्वापो वपुषः परमारोग्याय ।
चतुर्थे सप्रयन्तं प्रतिबुध्येत ।
ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्यक्षयतीत्याहोरात्रिकम् ।
चतुर्विधश्चासौ ।
असूर्यम्पश्यो, निषण्णो, दत्तावसरः, प्रायोजनिकश्च ।
यो गुहागर्भभूमिगृहादिप्रवेशान्नैष्ठकवृत्तिः कवते, असावसूर्यम्पश्यस्तस्य सर्वे कालाः ।
यःकाव्यक्रियायामभिनिविष्टः कवते न च नौष्ठिकवृत्तिः, स निषाण्णस्तस्यापि त एव कालाः ।
यः सेवादिकमविरुन्धानः कवते, स दत्तावसरस्तस्य कतिपये कालाः ।
निशायास्तुरीययामार्द्धः, स हि सारस्वतो मुहूर्त्तः ।
भोजनान्तः, सौहित्यं हि स्वास्थ्यमुपस्थापयति ।
व्यवायोपरमः, यदर्त्तिविनिवृत्तिरेकमेकाग्रतायनम् ।
याप्ययानयात्रा, विषयान्तरविनिवृत्तं हि चित्तं यत्र यत्र प्रणिधीयते तत्र तत्र गुहूचीलागं लगति ।
यदा यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः ।
यस्तु प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकस्तस्य प्रयोजनवशात्कालव्यवस्था ।
बुद्धिमदाहार्यबुद्धयोरियं नियममुद्रा ।
औपदेशिकस्य पुनरिच्छैव सर्वे कालाः, सर्वाश्च नियममुद्राः ।
परुषवत् योषितो ऽपि कवीभवेयुः ।
संस्कारो ह्यात्मनि समवैति, न स्त्रैणं पौरुषं वा विभागमपेक्षते ।
श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ।
सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात् ।
यदित्थं कथयन्ति- "निक्षेपो विक्रयो दानं देशत्यागो ऽल्पजीविता ।
त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ॥

दारिद्रयं व्यसनासक्तिरवज्ञा मन्दभाग्यता ।
दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः" ॥

पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेचयिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि ।
"अहर्निशाविभागेन य इत्थं कवते कृती ।
एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते ॥

यथा यथाभियोगश्च संस्कारश्च भवेत्कवेः ।
तथा तथा निबन्धानां तारतम्येन रम्यता ॥

मुक्तके कवयो ऽनन्ताः सङ्घाते कवयः शतम् ।
महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः" ॥

अत्राह स्म- "बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ॥

रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः ।
कार्यो निबन्धविषये विदुषा प्रयत्नः के पोतयन्त्ररहिता जलधौ प्लवन्ते ॥

लीढाभिधोपनिषदां सविधे बुधानाम् अभ्यस्यतः प्रतिदिनं बहुदृश्वनो ऽपि ।
किञ्चित्कदाचन कथञ्चन सूक्तिपाकाद् वाक्-तत्त्वमुन्मिषति कस्यचिदेव पुंसः ॥

इत्यनन्यमनोवृत्तेनिःशेषे ऽस्य क्रियाक्रमे ।
एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ॥

सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा ।
मूलच्छायां न जानाति यस्याः सो ऽपि गिरां गुरुः" ॥

राजा कविः कविसमाजं विदधीत ।
राजनि कवौ सर्वो लोकः कविः स्यात् ।
स काव्यपरीक्षायै सभां कारयेत् ।
सा षोडशभिः स्तम्भैश्चतुर्भिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् ।
तदनुलग्नं राज्ञः केलिगृहम् ।
मध्येसभं चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका ।
तस्यां राजासनम् ।
तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् ।
बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते ।
यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् ।
ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तका अन्ये ऽपि तथाविधाः ।
पूर्वेण प्राकृताः कवयः, ततः परं नटनर्त्तकगायनवादकवाग्जीवनकुशीलवतालापचरा अन्ये ऽपि तथाविधाः ।
पश्चिमेनापभ्रंशिनः कवयः, ततः परं चित्रलेप्यकृतो माणिक्य वन्धका वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्ये ऽपि तथाविधाः ।
दक्षिणतो भूतभाषाकवयः ॑ ततः परं भुजङ्गणिकाः प्लवकशौभिकजभ्भकमल्लाः शस्त्रोपजीविनो ऽन्ये ऽपि तथाविधाः ।
तत्र यथासुखमासीनः काव्यगोष्टीं प्रवर्त्तयेद् भावयेत् परीक्षेत च ।
वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमानाभ्यामनुकुर्यात् ।
तुष्टपुष्टाश्चास्य सभ्या भवेयुः स्थाने च पारितोषिकं लभेरन् ।
लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवर्वा ।
अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् ।
मध्वपि नानवदंशं स्वदते ।
काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत ।
देशान्तरागतानां च वितुषामन्यद्वारा सङ्गं कारयेदौचित्याद्यावत्स्थिति पूजां च ।
वृत्तिकामांश्चोपजपत् ।
सङ्गृह्णीयाच्च ।
पुरुषरत्नानामेक एव राजोदन्वान्भाजनम् ।
राजचरितं च रजोपजीविनो ऽप्यनुकुर्युः ।
राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः ।
महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् ।
तत्र परीक्षोत्तर्णानां ब्रह्मारथयानं पट्टबन्धश्च ।
श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा- "इह कालिदासमेण्ठावत्रामररुपसूरभारवयः ।
हरिचन्द्रचन्द्रगुत्पौ परीक्षिताविह विशालायाम्" ॥

श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा- "अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्यडिः ।
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः" ॥

इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
वशस्तस्य जगद्वयापि स सुखी तत्र तत्र च ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविचर्या राजचर्यां च दशमो ऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:34.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

rectal artery

  • मलाशय धमनी 
  • (also called haemorrhoidal artery) 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site