TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - नवमो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


अर्थानुशासनम्
अर्थानुशासनम् (अर्थव्यात्पिः) "स त्रिधा" इति द्रौहिणिः॑दिव्यो, दिव्यमानुशषो, मानुषश्च ।
"सत्पधा"इति यायावरीयः पातालीयो,॑ मर्त्त्यपातालीयो, दिव्यपातालीयो, दिव्यमर्त्त्यपातालीयश्च ।
तत्र दिव्यः- "स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोर् उद्गीतं नलकूवरस्य विरहादुत्कञ्चुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रो ऽपि निद्रा जहद् भूयः कारित एव हासिनि शचीवक्त्रे दृशं सम्भ्रमम्" ॥

दिव्यमानुषस्ति चतुर्द्धा ।
दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्गगमन इत्येको भेदः ।
दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः ।
दिव्येतिवृत्तपरिकल्पनया तृतीयः ।
प्रभावाविर्भूतदिव्यरुपतया चतुर्थः ।
तत्र दिव्यस्य मर्त्यागमनम्--- "श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्तदर्शावतरन्तरमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः" ॥

मर्त्यस्य स्वर्गगमनम् - "पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः शीधुभिः कॢत्पापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यत्नं विना पूर्यते" ॥

दिव्यस्य मर्त्यभावः- "इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-प्रणिहितपरिरम्भः पद्मनाभो बभूव" ॥

मर्त्यस्य दिव्यभावः- "आकाशयानतटकोटिकृतैकपादास् तद्वेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि" ॥

दिव्येतिवृत्तपरिकल्पना- "ज्योत्स्नापूरप्रसरविशदे सैकते ऽस्मिन्सरय्वा वदद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्" ॥

प्रभावाविर्भूतदिव्यभावः--- "मा गाः पातालमुर्वि स्फुरसि किमपरं पाट्यमानः कुदैत्यत? त्रैलोक्यं पादपीतप्रथिम, नहि बले? पूरस्यूनमङ्घ्रेः ।
इत्युत्स्वप्नायमाने भुवनभृति शिखावङ्कसुत्पे यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः" ॥

मर्त्यः--- "वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च" ॥

पातालीयः- "कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाज्जलिस्ते कपिलकुलिकयोः स्तैति च स्वस्तिकस्त्वां ।
पद्मः सद्मैष भक्तेरवलगति पुरः कम्बलो ऽयं बलो ऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः" ॥

मर्त्यपातालीयः- "आर्द्रावले!व्रज न वेत्स्यपकर्ण!कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम्" ॥

इहापि पूर्ववस्तमस्तमिश्रभेदानुगमः ।
दिव्यपातालीयः- "स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् ।
विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम्" ॥

स्वर्गमर्त्यपातालीयः- "आस्तीको ऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।
उद्देल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते" ॥

सो ऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमोर्थसार्थः सम्पद्यते इत्याचार्याः ।
"अस्तु नाम निःसीमोर्थसार्थः ।
किन्तु द्विरुप एवासौ विचारितसुस्थो ऽविचारितरमणीयश्च ।
तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तरं काव्यानि" इत्यौद्भटाः ।
यथा- "अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।
खमुत्पपात हनुमान्नीलोत्पलदलद्युतिः" ॥

यथा वा- "त आकाशमसिश्याममुत्पस्त्य परर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः" ॥

यथा च- "तदेव वारि सिन्धूनां महत्स्थेमार्चिषामिति" इत्यादि ॥

"न स्वरुपनिबन्धनमिदं रुपमाकाशस्य सरिल्सलिलादेर्वा किन्तु प्रतिभासनिबन्दनम् ।
न च प्रतिभासस्तादत्भ्येन वस्तुन्यवतिष्ठते, यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः इति यायावरीयः ।
एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च ।
यथाप्रतिभासं च वस्तुनः स्वरुपं शास्त्रकाव्ययोर्निबन्धोपयोगि" ।
शास्त्रे यथा- "प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।
ताराकुमुदसम्बन्धे हंसायत इवोडुराट्" ॥

काव्यानि पुनरेतन्मयान्येव ।
"अस्तु नाम निःसीमार्थसार्थः ।
कुन्तु रसवत एव निबन्धो युक्तो न नीरसस्य" इति आपराजितिः ।
यदाह- "मज्जमपुष्पावजयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।
सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥

यस्तु सरिदद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः स इह" ॥

"आम्" इति यायावरीयः ।
अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः, अन्वयव्यतिरेकाभ्यां चेतमुपलभ्यते ।
तत्र सरिद्वर्णनरसवत्ता- "एतां विलोकय तलोदरि ताम्रपर्णीम् अब्धोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु" ॥

अद्रिवर्णनरसवत्ता- "एतास्ता मलयोपकण्ठसरितामेणाक्षिरोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्दचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ॥

सागरवर्णनरसवत्ता- "धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।
यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदां यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम्" ॥

एवं पुरतुरगादिवर्णनरसवत्तापि ।
विप्रलम्भेप्यतिरसवत्ता- "विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरुपत्वादन्ये विहितविफलौत्सुक्यवरसाः ।
ततः स्वेच्छं पूर्वेष्वसजदितरेभ्यः प्रतिहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्" ॥

कुकविर्विप्रलम्भे ऽपि रसवत्तां निरस्यति ।
अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः ॥

"यथा तथा वास्तु वस्तुनो रुपं, वक्तप्रकृतिविशेषायत्ता तु रसवत्ता ।
तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रघोदास्ते" इति पाल्यकीर्तिः ।
"येषां वल्लभया समं क्षणमिव स्फारा क्षपा क्षीयते तेषां शीततरः शशी विरहिणामुल्केव सन्तापकृत् ।
अस्माकं न तु वल्लभा न विरहस्तेनोभयभ्रंशिनाम् इन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः" ॥

"विदग्धभणितिभङ्गिनिवेद्यं वस्तुनो रुपं न नियतस्वभावम्" इति अवन्तिसुन्दरी ।
तदाह- "वस्तुस्वभावो ऽत्र कवेरतन्त्रे गुणागुणावुक्तिवशेन काव्ये ।
स्तुवन्निवध्नात्यमृतांशुमिन्दुं निन्दुंस्ति दोषाकरमाह धूर्त्तः" ॥

"उभयमुपपन्नम्" इति यायावरीयः ।
स पुनर्द्विधा ।
मुक्तकप्रबन्धत्रिषयत्वेन ।
तावपि प्रत्येकं पञ्चधा ।
शुद्धः, चित्रः, कथोत्थः, संविधानकभूः, आख्यानकवांश्च ।
तत्र मुक्तेतिवृत्तः शुद्धः ।
स एव सप्रपञ्चश्चित्रः ।
वृत्तेतिवृत्तः कथोत्थः ।
सम्भावितेतिवृत्तः संविधानकभूः ।
परिकल्पितेतिवृत्तः आख्यानकवान् ।
तत्र ।
मुक्तके-शुद्धः- "सा पत्युः प्रथमापराधकरणे शिक्षोपदेशं विना नो जनाति सविभ्रमाङ्गवलना वक्रोक्तिचित्रां गतिम् ।
स्वच्छैरच्छकपोलमूलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः" ॥

चित्रः- "दूरादुत्सकमागते विवसितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूतलम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णां क्षणाच् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि" ॥

कथोत्थः- "दत्त्वा रुद्भगतिः खसाधिपतये देवीं ध्रुवस्वामिनीं यस्मात्खण्डितसाहसो निववृते श्रीशर्मगुत्पो नृपः ।
तस्मिन्नेव हिमालये गुरुगुहाकोणक्वणत्किन्नरे गीयन्ते तव कार्त्तिकेयनगरस्त्रीणां गणैः कीर्त्तयः" ॥

संविधानक्रभूः- "दृष्ट्रवैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ॥

यथा च- "कुवर्त्या कुङ्कुमाभ्भः कपिशितवपुषं यत्तदा राजहंसीं क्रीडाहंशो मयासावजानि विरहितश्चक्रवाकीभ्रमेण ।
तस्यैतत्पाप्मनो मे परिणमति फलं यत्पुरे प्रेमबन्धाद् एकत्रावां वसावो न च दयित दृशाप्यस्ति नौ सन्निकर्षः" ॥

आख्यानकवान्- "अर्थिजनार्थधृतानां वनकरिणां प्रथमकल्पितैर्दशनैः ।
चक्रे परोपकारी हैहयजन्मा गृहं शम्भोः" ॥

निबन्धे शुद्धः- "स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम्" ॥

चित्रः- "अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतमपविद्धं पीतमुन्मीलितं च" ॥

कथोत्थ-- "अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशत्पः फलमेतदन्वभूत्" ॥

संविधानकभूः- "क्रोधं प्रभो संहर संहरेति यावद्भिरः रवे मरुतां चरन्ति ।
तावत्स वह्णिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार" ॥

आख्यानकवान्- "पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान" ॥

किञ्च- संस्कृतवत्सर्वास्वपि भाषासु यथासामर्थ्यं यथारुचि यथा- कौतुकं चावहितः स्यात् ।
शब्दार्थयोश्चाभिधानाभिधेयव्यापारप्रगुणतामवबुध्येत ।
तदुक्तम्- एको ऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरो ऽस्मिन् अन्यो ऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
द्वित्राभिः को ऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥

इत्थङ्कारं घनैरथैर्व्युत्पन्नमनसः कवेः ।
दुर्गमे ऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थानुशासने (अर्थव्यात्पिः) नवमो ऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

measures

  • उपाय 
  • पु./अ.व. संस्तर 
  • न./अ.व. परिणामे 
  • 1 (as coal measures) 
More meanings
RANDOM WORD

Did you know?

सुतकात वर्ज्य कार्ये कोणती? गोड सुतक म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site