TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - चतुर्थो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


वाक्यार्थयोनयः
वाक्यार्थयोनयः "श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः" इति आचार्याः ।
"उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश" इति यायावरीयः ।
तत्र श्रौतः ।
"उर्वशी हाप्सराः पुरुरवसमैडं चकमे" ।
अत्रार्थे- "चन्द्राद् बुधः समभवद्भगवान्नरेन्द्र-माद्यं पुरुरवसमैडमसावसूत ।
तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः"  ॥
यथा वा- "यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोको ऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोतो ऽथ य एष तस्मिन्मण्डले पुरुषः सो ऽग्निस्तानि यजूंषां लोकः सैषा त्रय्येव विद्या तपति" ।
अत्रार्थे- "एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचो ऽर्चींषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डले ऽणुर्यजूंषि ।
एवं यं वेद वेदत्रियमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सो ऽस्तु सूर्यः श्रिये वः"  ॥
तच्चेदं वेदहरणं यदित्थं कथयन्ति--- "नमो ।
स्तु तस्यै श्रुतये यां दुहन्ति पदे पदे ।
ऋषयः शास्त्रकारश्च कवयश्च यथामति"  ॥
स्मार्त्तः- "बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते"  ॥
अत्रार्थे- "हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
सम्भावितैकदेशेन देयं यदभियुज्यते"  ॥
ऐतहासिकाः- "न स सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः"  ॥
अत्र- "मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वं समयो विमृश्यताम् ।
जगज्जिघत्सातुरकण्ठकद्धतिर्न बालिर्नैवाहततृत्पिरन्तकः"  ॥
पौराणिकाः- "हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः"  ॥
अत्र- "स सञ्चरिष्णुर्भुवनत्रये ऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः"  ॥
अत्राहुः- "श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम्  ॥
इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते  ॥
वेदार्थस्य निवन्धेन श्लाध्यन्ते कवयो यथा ।
स्मृतीनामितिहासस्य पुराणस्य तथा तथा"  ॥
द्विविधः प्रामाणिको मैमांसिकस्तार्किकश्च ।
तत्र प्रथमः शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः ।
अत्र- "सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्टम् ।
स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति"  ॥
तर्केषु साङ्खयीयः- "नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः"  ॥
अत्र- "य एते यज्वानः प्रथितमहसो ये ऽप्यवनिपा मृगाक्ष्यो याश्वेताः कृतमपरसंसारकथया ।
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरुपा विलसति मृदेषा भगवती"  ॥
न्यायवैशेषिकीयः-स किंसामग्रीक ईश्वरः कर्त्ता? इति पूर्वपक्षः ।
निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः ।
अत्र- "किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हृतधियः कुतर्को ऽयं कांश्वन्मुखरयति मोहाय जगतः"  ॥
बोद्धीयः- विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।
अत्र- "भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति ।
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्"  ॥
लौकायतिकः - भूतेभ्यश्वैतन्यं मदशक्तिवत् ।
अत्र- "बहुविधमिह साक्षिचिन्ताकाः प्रवदन्त्यन्यदितः कलेवरात् ।
अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया"  ॥
आर्हतः - शरीरपरिमाण आत्मा, अन्यथा शरीराफल्यमात्माफल्यं वा ।
अत्र- "शरीरमात्रमात्मानं ये वदन्ति जयन्ति ते ।
तच्चुम्बने ऽपि यज्जातः सर्वाङ्गपुलको ऽस्य मे"  ॥
सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्यत्तये प्रत्यवेक्षेत ।
आहुश्च- "यांस्तर्ककर्कशानर्थान्सीक्तिष्वाद्रियते कविः ।
सूर्यांशव इवेन्दौ ते काञ्चिदर्चन्ति कान्तताम्"  ॥
समयविद्यासु शैवसिद्धान्तीयः- "घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायादूः परमेश्वरः"  ॥
पञ्चरात्रः- "नाद्यान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ऽप्यनुशासितारः ।
सर्वज्वरान्ध्वन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः"  ॥
बौद्धसिद्धान्तीयः- "कलिकृतकलुषाणि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः ।
मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु"  ॥
एवं सिद्धान्तन्तान्तरेष्वपि ।
राजसिद्धान्तत्रय्यामर्थशास्त्रीयः - "शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः परं प्रत्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभिर् दुराराधा लक्ष्मीरनवहिदचित्तं छलयति"  ॥
नाट्यशास्त्रीयः- "एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
देवीं नर्त्तयतः स्ववक्रमुरजेनाभ्भोधरध्वानिना शभ्भोर्वः परिपान्तु लम्बितलयच्छेदाहृतास्तालिकाः"  ॥
कामसूत्रीयः- "नाश्वर्यं त्वयि यल्लक्ष्मीः क्षिप्त्वाधोक्षमागता ।
असौ मन्दरतस्त्वं तु प्रात्पः समरतस्तया"  ॥
लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च ।
तयोः प्रथमः- "स्फुटितपिठरीबन्धश्लाध्यो विपक्षगृहेप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ ।
जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचिते प्रेम स्त्रीणां चिराय च जीवितम्"  ॥
यथा वा- "इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।
वाराहस्य च मांसस्य शेषो गच्छति फाल्गुने"  ॥
द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च ।
तयोः प्रथमो ऽनेकधा देशानां बहुत्वात् ।
तत्र दाक्षिणात्यः- "पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।
प्रियाधरावदंशानि मधूनि द्रविडाङ्गनाः"  ॥
यथा वा- "विरम मदन कस्त्वं चैत्रघ का शक्ति रिन्दोर् इह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति ।
हृदयभ्रुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः"  ॥
उदीच्यः- "नेपाल्यो वल्लभैः सार्द्धमार्द्रैणमदमण्डनाः ।
ग्रन्थिपर्णकपालीषु नयन्ति ग्रीष्मयामिनीः"  ॥
द्वितीयः- "मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तत्पोन्मुखं चक्षुषि ।
पत्युः केलिमतः कथां विरमयन्नन्योन्यपण्कूयनात् को ऽयं व्याहरतीत्युदीर्य निरगात्सव्याजमालीजनः"  ॥
कविमनीषानिर्मितं कथातन्त्रमर्थमात्रं वा विरचना ।
तत्राद्या- "अस्ति चित्रशिखो नाम खङ्गवीद्याधराधिपः ।
दक्षिणे मलयोत्सङ्गे रत्नवत्याः पुरः पतिः  ॥
तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।
स्वयंवरिधावासीत्कलत्रं चित्रसुन्दरी"  ॥
द्वितीया- "ज्योस्त्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालतीमालां गन्धजलैर्मधीनि कुरुते स्वादून्यसौ फाणितैः ।
यस्तस्य प्रथितान्गुणन्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि"  ॥
अत्राहुः- "नीचैर्नार्थकथासर्गे यस्य न प्रतिभाक्षयः ।
स कविग्रामणीरत्र शेषास्तस्य कुटुम्बिनः"  ॥
अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् ।
तत्र हस्तिशिक्षीयः- "मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशाम् आकाशोल्लसितामरवधूपीनस्तनास्फालकः ।
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायादूः परिपाकपाण्डुलवलीश्रीतस्करः शीकरः"  ॥
रत्नपरीक्षीयः- "द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः"  ॥
धनुर्वेदीयः- "स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्"  ॥
योगशास्त्रीयः- "यः सर्वेषां हृदयकमले प्राणिनामेकहंसस् त्वं जागर्षि स्वपिषि च मुहुर्बुध्यसे नापि बुद्धः ।
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति"  ॥
एवं प्रकीर्णकान्तरमपि ।
उचितसंयोगः- "पाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः"  ॥
योक्तृसंयोगः- "कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवताश्चक्षुः सहस्रव्यथाम् ।
भज्जन् स्वर्गतरङ्गिणीजलभरे पङ्कीकृते पांसुभिर् यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः"  ॥
उत्पाद्यसंयोगः- "उभौ यदि व्योम्नि पृथक्प्रवाहावकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः"  ॥
संयोगविकारः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्"  ॥
यथा वा- "उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिञ्चकोराश् चन्द्रे कर्पूरगौवद्युतिभृति नभसो याति चूडामणित्वम्"  ॥
इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।
इह प्रगल्भमानस्य न जात्वर्थकदर्थना  ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे (अर्थानुशासने)षोडश काव्यार्थनयः अष्टमो ऽध्यायः  ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अळबळीत गळबळीत

  • वि. 
  • साधा ; मनमिळाऊ ; घळघळीत ; जुळतें , मिळतें घ्यावें अशा स्वभावाचा . 
  • निष्कपट ; अनुकूल , प्रिय भाषण - बोलणारा . [ गळबळ द्वि . ] 
RANDOM WORD

Did you know?

चांदणी चोळी म्हणजे काय
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site