TransLiteral Foundation

काव्यमीमांसा - षष्ठो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


पदवाक्यविवेकः
पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् ।
तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च ।
गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः ।
हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः ।
श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः ।
पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः ।
नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः ।
"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः ।
सुब्वृत्तिरेव समासवृत्तिः ।
व्याससमासावेसानयोर्भेदहेतू ।
सा च षोढा द्वन्दादिभेदेन ।
तत्र पट्समासीसमाससूक्तम्- "द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः ।
तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" ॥

तद्वितवृत्तिः पुनरनन्ता ।
तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः ।
माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः ।
प्रातिपदिकविषया चेयम् ।
कृद्वृत्तिश्च धातुविषया ।
कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः ।
तिङ्वृत्तिर्दशधा दशलकारीभेदेन ।
द्विधा च सा धातुसुब्धातुविषयत्वेन ।
अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि ।
अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि ।
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते ।
तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् ।
तत्र दयितसुब्वृत्तयो विदर्भाः ।
वल्लभसमासवृत्तयो गौडाः ।
प्रियतद्धिता दाक्षिणात्याः ।
कृत्प्रयोगरुचय उदीच्याः ।
अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः ।
तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः ।
उक्तञ्च- "विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये ।
आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" ॥

पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् ।
"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः ।
वैभक्तः शाक्तः शक्तिविभक्तिमयश्च ।
प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः ।
लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः ।
उभयात्मा च शक्तिविभक्तिमयः ।
तत्र वैभक्तः- "नमस्तस्मै वराहाय लीलयोद्धरते महीम् ।
खुरयोर्मध्यगो यस्य मेरुः खणखणायते" ॥

शक्तिः- "वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः ।
अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" ॥

यथा वा- "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।
हरिभीत्याश्रिताशेषकालियाहिकुला इव" ॥

शक्तिविभक्तिमयः- "अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" ॥

तत्र वाक्यं दशधा ।
एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति ॥

तत्रैकाख्यातम्- "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" ॥

अनेकाख्यातम्- तच्च द्विधा सान्तरं निरन्तरम् ॥

तयोः प्रथमम्- "देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च ।
प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" ॥

द्वितीयम्- "त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि ।
आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" ॥

"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः ।
"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः ।
आवृत्ताख्यातम्- "जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः ।
ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" ॥

एकाभिधेयाख्यातम्- "हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति ।
इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" ॥

परिणताख्यातम्- "सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।
ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" ॥

अनुवृत्ताख्यातम्- "चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" ॥

समुचिताख्यातम्- "परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।
मनो गन्त्रीव कुपथे चीत्करोति च याति च" ॥

यथा च- "स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च ।
उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" ॥

अध्याहृताख्यातम्- "दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः ।
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" ॥

कृदभिहिताख्यातम्- "अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं ।
विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" ॥

अनपेक्षिताख्यातम्- "कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप ।
तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" ॥

गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् ॥

"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके ॥

यथा- "स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥

यथा च - "भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।
उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" ॥

आहुश्च- "दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् ।
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" ॥

"न" इति यायावरीयः- "नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः ।
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" ॥

तत्र श्रौतः- "पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।
शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" ॥

शास्त्रीयः- "आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" ॥

किञ्च- "यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले ।
सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" ॥

"कः? ।
वाग्योगविदेव ।
कुत एतत् ? ।
योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति ।
यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः ।
अथवा भूयानधर्मः प्रान्पोति ।
भूयांसो हृपशब्दा अल्पीयांसः शब्दाः ।
एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः ।
तद्यथा ।
गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः ।
अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् ।
विषम उपन्यासः ।
नात्यन्तायाज्ञानं शरणं भवितुमर्हति ।
यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् ।
एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ।
कः? ।
अवाग्योगविदेव ।
अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् ।
क्व पुनरिदं पठितम्? ।
भ्राजा नाम श्लोकाः ।
किञ्च भोः श्लोका अपि प्रमाणम्? ।
किञ्चातः? ।
यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति ।
" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" ॥

इति ।
"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः ।
लौकिकः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ॥

"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे ।
यथा एवं- "वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् ।
त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" ॥

"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः ।
य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः ।
किञ्च कविवचनायत्ता लोकयात्रा ।
"सा च निःश्रेयसमूलम्" इति महर्षयः ।
यदाहुः- "काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य मोदते" ॥

किञ्च- "श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः ।
ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" ॥

उक्तञ्च- "ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" ॥

"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च ।
यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" ॥

"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् ।
यथा- "प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।
विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" ॥

अपि च- "नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः ।
स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" ॥

"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः ।
यदिदं श्रुतौ शास्त्रे चोपलभ्यते ।
तत्र याजुषः- "उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" ॥

शास्त्रीयः- "यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् ।
नवनीतोपमं तस्या भवति स्मरमन्दिरम्" ॥

पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः ।
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.8030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पुण्यशील

  • a  Virtuous, good. 
  • n. गोदावरी के तट पर निवास करनेवाला एक ब्राह्मण । एक बार इसने एक वंध्या स्त्री का ब्राह्मण पति को श्राद्धकर्म के लिए बैठाया । इस पापकर्म के कारण इसका मुख गर्दभ के समान हो गया । अन्त में, वेंकटाचल के स्वामितीर्थ में तथा आकाशगंगातीर्थ में स्नान करने के उपरांत, इसे इस शाप से छुटकारा मिला, एवं इसका मुख पहले की तरह हो गया [स्कंद.२.१.२२] 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site