TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - पञ्चमो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


व्युत्पत्तिकविपाकाः
व्युत्पत्तिकविपाकाः ऽबहुज्ञाता व्युत्पत्तिःऽ इत्याचार्याः ।
सर्वतोदिक्का हि कविवाचः ।
तदुक्तम् - ऽप्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्का ॥

"उचितानुचितविवेको व्युत्पत्तिःऽ इति यायावरीयः ।
ऽप्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसीऽ इत्यानन्दः ।
सा हि कवेरव्युत्पत्तिकृतं दोषमशेषमाच्छादयति ।
तदाह- ऽव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य भ्कगित्येवावभासतेऽ ॥

शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्त्तते ।
प्रतिभा यथा- ऽेतत्किं शिरसि स्थितं मम पितुः, खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्ते ऽस्य किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥

"व्युत्पत्तिः श्रेयसीऽ इति मङ्गलः ।
सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति ।
यथा हि- ऽकवेः संव्रियते ऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि ।
वैदग्धीचित्तानां हेया शब्दस्य गुम्फनाऽ ॥

व्युत्पत्तिर्यथा- ऽकृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलम्रचि ।
न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनीतया ॥

"प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ इति यायावरीयः ।
न खलु लावण्यलाभादृते रुपसम्पदृते रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय ।
उभययोगो यथा- ऽजङ्घाकाण्डोरुनाले नखकिरणलसत्केसरासीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्त्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी-सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याःऽ ॥

प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते ।
स च त्रिधा ।
शास्त्रकविः काव्यकविरुभयकविश्च ।
ऽतेषामुत्तरोत्तरीयो गरीयान्ऽ इति श्यामदेवः ।
ऽनऽिति यायावरीयः ।
यथास्वविषये सर्वो गरीयान् ।
नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरो ऽद्भयः क्षीरोद्धरणाय ।
यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनत्ति ।
यत्काव्यकविःशास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति ।
उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् ।
तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी ।
उपकार्योपकारकभावं तु मिथः शास्त्रकाव्योरनुमन्यामहे ।
यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति ।
काव्यसंस्कारो ऽपि शास्त्रघवाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि ।
तत्रघ त्रिधा शास्त्रकविः ।
यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संवलिधत्ते, यो ऽपि काव्ये शास्त्रार्थं निधत्ते ।
काव्यकविः पुनरष्टधा ।
तद्यथा-रचनाकविः, शब्द-कविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति ।
तत्र रचनाकविः- ऽलोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर् गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
षण्डेषूद्दण्टपिण्डीतगरलनाः प्रतिरे येन वेलामालङ्घयोत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाःऽ ॥

त्रिधा च शब्दकविर्नामाख्यातोभयभेदेन ।
तत्र नामकविः- ऽविद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः ।
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैवऽ ॥

आख्यातकविर्यथा- ऽुच्चैस्तरां जहसुराजहृषुर्जगर्जुराजध्निर भुजतटीनिकरैः स्फुरद्भिः ।
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम्ऽ ॥

नामाख्यातकविः- ऽहतत्विषो ऽन्धाः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव ।
न चुक्रुशुर्नो रुरुदुर्न सस्वनुर्न चेलुरासुर्लिखिता इव क्षणम्ऽ ॥

अर्थकविः- ऽदेवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटाहृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातर्जरजरत्स्थूलास्थिजन्मा रवःऽ ॥

द्विधालङ्कारकविः शब्दार्थभेदेन ।
तयोः शब्दालङ्कारः- ऽन प्रात्पं विषमरणं प्रात्पं पापेन कर्मणा विषमरणं च ।
न मृतो भागीरथ्यां मृतो ऽहमुपगुह्य मन्दभागी रथ्याम्ऽ ॥

अर्थालङ्कारः- ऽभ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः ।
दंष्ट्राशलाकादारिद्यं कर्त्तु योग्यो ऽस्ति मे भुजःऽ ॥

उक्तिकविः- ऽुदरमिदनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहे दोर्लतालेह्यसीमा ।
स्फुरति च वदनेन्दुर्द्दक्प्रणालीनिपेयस्तद् इह सुदृशि कल्याः केलयो यौवनस्यऽ ॥

यथा वा- ऽप्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम् इतीयं माधुर्यं स्पृशति च तनुत्वं च भजतेऽ ॥

रसकविः- ऽेतां विलाकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषुऽ ॥

मार्गकविः- ऽमूलं बालकवीरुधां सुरभयो जातीतरुणां त्वचः सारश्चन्दनशाशिनां किसलयान्यार्द्राण्यशोकस्य च ।
शैरीषी कुसुमोग्दतिः परिणमन्मोचं च सो ऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चषवेऽ ॥

शास्त्रार्थकविः- ऽात्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्ऽ ॥

एषां द्वित्रैर्गुणैः कनीयान्, पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः ।
दश च कवेरवस्था भवन्ति ।
तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प, तिस्त्रश्च औपदेशिकस्य ।
तद्यथा-काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानः, महाकविः, कविराजः, आविच्छेदी, सङ्क्रामयिता च ।
यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः ।
यो हृदय एव कवते निह्नुते च स हृदयकविः ।
यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो ऽन्यापदेशी ।
यः प्रवृत्तवचनः पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता ।
यो ऽनवद्यं कवते न तु प्रबध्नाति स घटमानः ।
यो ऽन्यतरप्रबन्धे प्रवीणः स महाकविः ।
यस्तु तत्र तत्रघ भाषाविशेषे तेषु तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः ।
ते यदि जगत्यपि कतिपये ।
यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आविशिकः ।
यो यदैवेच्छति तदैवाविच्छिन्नवचनः सो ऽविच्छेदी ।
यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता ।
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति ।
ऽकः पुनरयं पाकः?ऽ इत्याचार्याः ।
ऽपरिणामःऽ इति मङ्गलः ।
ऽकः पुनरयं परिणामः?ऽ इत्याचार्याः ।
ऽसुपां तिङ्गां च श्रवः सैषा व्युत्पत्तिःऽिति मङ्गलः ।
सौशब्द्यमेतत् ।
ऽपदनिवेशनिष्कम्पता पाकःऽित्याचार्याः ।
तदाहुः- ऽावापोद्धरणे तावद्यावद्दोलायते मनः ।
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥

"आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकःऽिति वामनीयाः ।
तदाहुः- ऽयत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥

"इयमशक्तिर्न पुनः पाकःऽित्यवन्तिसुन्दरी ।
यदेकस्मिन्वस्तुनि महाकवीनामिनेको ऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः पाकः ।
यदाह- ऽगुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः ।
स्वदते सुधियां येन वाक्यपाकः स मां प्रतिऽ ॥

तदुक्तम्- ऽसति वक्तरि सत्यर्थे शब्दे सति रसे सति ।
अस्ति तन्न विना येन परिस्त्रवति वाङ्मधु ॥

"कार्यानुमेयतया यत्तच्छब्दनिवेद्यः परं पाको ऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौऽिति यायावरीयः ।
स च कविग्रामस्यकाव्यमभ्यस्यते नवधा भवति ।
तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति ।
तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् ।
कुकविता हि सोच्छ्रवासं मरणम् ।
मध्यमाः संस्कार्याः ।
संस्कारो हि सर्वस्य गुणमुत्कर्षयति ।
द्वादशवर्णमपि सुवर्णं पावकपाकेन हेमीभवति ।
शेषा ग्राह्याः ।
स्वभावशुद्धं हि न संस्कारमपैक्षते ।
न मुक्तामणेः शाणस्तारतायै प्रभवति ।
अनवस्थितपाकं पुनः कपित्थपाकमामनिन्ति ।
तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः ।
सभ्यगभ्यस्यतः काव्यं नवधा परिपच्यते ।
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥

अयमत्रैव शिष्याणां दर्शितस्त्रघिविधो विधिः ।
किन्तु वैविध्यमप्येतत्घत्रिजगत्यस्य वर्त्तते ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमो ऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.7570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

propargyl alcohol

  • प्रोपार्जिल अल्कोहोल 
RANDOM WORD

Did you know?

मृत व्यक्तीच्या तेराव्याचा विधी काय असतो? त्या दिवसाचे महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site