TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

काव्यमीमांसा - चतुर्थो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


शिष्यप्रतिभे
शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च ।
यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् ।
यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः ।
त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति ।
अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः ।
वर्त्तमानस्य मन्त्री मतिः ।
अनागतस्य प्रज्ञात्री प्रज्ञेति ।
सा त्रिप्रकारापि कवीनामुपकर्त्री ।
तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते ।
आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते ।
अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः ।
सा हि बुद्धिविकासकामधेनुः ।
तदाहुः-
ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः ।
अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ ॥


ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः ।
तत्र बुद्धिमतः प्रतिपत्तिः ।
स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत ।
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च ।
स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत ।
दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव ।
स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः ।
ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः ।
मनस एकाग्रता समाधिःऽ ।
समाहितं चित्तमर्थान्पश्यति, उक्तञ्च- ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् ।
तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः ॥


ऽऽभ्यासःऽ इति मङ्गलः ।
अविच्छेदेन शीलनमभ्यासः ।
स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते ।
समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः ।
तावुभावपि शक्तिमुद्भासयतः ।
ऽसा केवलं हेतुःऽ इति यायावरीयः ।
विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् ।
शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी ।
शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते ।
या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।
अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव ।
यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते ।
किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म ।
तत्र देशान्तरव्यवहारः- ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी ॥


द्वीपान्तरव्यवहारः-
अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः ॥


कथापुरुषव्यवहारः-
हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि ॥


आदिग्रहणात्-
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥


सा च द्विधा कारयित्री भावयित्री च ।
कवेरुपकुर्वाणा कारयित्री ।
सापि त्रिविधा सहजाऽहार्यौपदेशिकी च ।
जन्मान्तरसंस्कारापेक्षिणी सहजा ।
इह जन्मसंस्कारयोनिराहार्या ।
मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी ।
ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति ।
महता पुनराहार्या ।
औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः ।
त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च ।
जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः ।
इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः ।
उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः ।
तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् ।
ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः ।
ऽनऽिति यायावरीयः ।
एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते ।
ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः ।
सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः ।
औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि ॥


ऽुत्कर्षः श्रेयान्ऽ इति यायावरीयः ।
स चानेकगुणसन्निपाते भवति ।
किञ्च- ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च ।
कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् ॥

काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः ।
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ ॥

कवीनां तारतम्यतश्चैष प्रायोवादः ।
यथा- ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् ।
न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ॥

सेयं कारयित्री ।
भावकस्योपकुर्वाणा भावयित्री ।
सा हि कवेः श्रममभिप्रायं च भावयति ।
तया खलु फलितः कवेर्व्यापारतरुः ।
अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः ।
तदाहुः- ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा ।
भावकस्तु कविः प्रायो न भजत्यधमां दशम् ॥

"नऽिति कालिदासः ।
पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् ।
स्वरुपभेदाद्विषयभेदाच्च ।
यदाहुः- ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः ॥

"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः ।
ऽकवयोपि भवन्तिऽिति वामनीयाः ऽ ।
चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ ।
ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽिति वामनीयाः ।
ऽरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा ।
नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति ।
ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः ।
. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी ।
तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा ।
प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति ।
ततो बहु त्यजति बहु च गृह्णाति ।
विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते ।
परिणामे तु यथार्थदर्शी स्यात् ।
विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते ।
मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् ।
स पुनरमत्सरी ज्ञाता च विरलः ।
तदुक्तम्- ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् ।
यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ ॥

तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्- ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः ।
पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः ॥

स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च ।
कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः ॥

काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना ।
नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥

सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे ।
द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः ॥

सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः ।
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः ॥

वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः ।
सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥

गुणादानपरः कश्चिद्दोषादानपरो ऽपरः ।
गुणदोषाहृतित्यागपरः कश्चन भावकः ॥

अभियोगे समाने ऽपि विचित्रो यदयं क्रमः ।
तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः ॥

न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः ।
विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥

कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः ।
तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥

यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः ।
तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा ॥

कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे ।
अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ ॥

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:33.7100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वसवटा

  • पु. वास्तव्य ; वसणूक ; वसति . पवनाचिया नेटा । सर्वेंद्रियां वसवटा । - सिसं ३२ . [ वसणे ] 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site