ब्रह्मकांड - भाग ४

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


वेदशास्त्राविरोधी च तर्कश् चक्शुर् अपश्यताम् ।
रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥१५१॥

सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥१५२॥

शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥१५३॥
यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥१५४॥

रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः ।
शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥१५५॥

यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् ।
साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥१५६॥

सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥१५७॥

साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥१५८॥

वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् ।
अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् ॥१५९॥
गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥१६०॥
एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।
प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥१६१॥
अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥१६२॥
प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।
सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥१६३॥
घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।
तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥१६४॥
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥१६५॥
केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।
प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥१६६॥
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥१६७॥
पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते ॥१६८॥
यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते ।
पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥१६९॥
प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः ।
वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥१७०॥

तद्विभागाविभागाभ्यां क्रियमाणाम् अवस्थितम् ।
स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥१७१॥

अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् ।
शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥१७२॥

अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥१७३॥

कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥१७४॥

शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते ।
तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥१७५॥

अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥१७६॥

ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥१७७॥

न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥१७८॥

अंब्वंब्व् इति यथा बालः शिक्षमाणो ऽपभाषते ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥१७९॥

एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥१८०॥

पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु ।
प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥१८१॥

दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः ।
अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥१८२॥

उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया ।
यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥१८३॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP