वैशेषिकसूत्रम् - भाग १५

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


द्रव्येषु ज्ञानं व्याख्यातम् ॥१॥

तत्रात्मा मनश्चाप्रत्यक्षे ॥२॥

ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः ॥३॥

गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः द्रव्यं कारणम् ॥४॥

सामान्यविशेषेषु सामान्यविशेषाभावात् तदेव ज्ञानम् ॥५॥

सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु ॥६॥

द्रव्ये द्रव्यगुणकर्मापेक्षम् ॥७॥

गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते ॥८॥

समवायिनः श्वैत्याच्छ्वैत्य बुद्धेश्च श्वेते बुद्विस्ते एते कार्यकारणभूते ॥९॥

द्रव्येष्वनितरेतरकारणाः ॥१०॥

कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् ॥११॥


अयमेष त्वया कृतं भोजयैनं इति बुद्ध्यपेक्षम् ॥१॥

दृष्टेषु भावाददृष्टेष्वभावात् ॥२॥

अर्थ इति द्रव्यगुणकर्मसु ॥३॥

द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् ॥४॥

भूयस्त्वात् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः ॥५॥

तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् ॥६॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP