वैशेषिकसूत्रम् - भाग ६

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


सदकारणवन्नित्यम् ॥१॥

तस्य कार्यं लिङ्गम् ॥२॥

कारणभावात् कार्याभावः ॥३॥

अनित्य इति विशेषतः प्रतिषेधभावः ॥४॥

अविद्या ॥५॥

महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः ॥६॥

सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः ॥७॥

अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः ॥८॥

तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् ॥९॥

तस्याभावादव्यभिचारः ॥१०॥

संख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात् चाक्षुषाणि ॥११॥

अरूपिष्वचाक्षुषाणि ॥१२॥

एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् ॥१३॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP