TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दत्तगीता - द्वितीयोध्यायः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


द्वितीयोध्यायः

श्रीगणेशाय नमः ॥ सगुणगुणविभागं वर्तते नैव किंचित्समरसमविभागं सर्वथा नैव किंचित् ‍ ॥

इति विरतिविहीतं निर्मलं निष्प्रपंचं कथमिह खलु वंदे व्योमरूपं शिवं वै ॥१॥

श्वेतादिवर्णरहितास्तव यं शिवश्व कार्यं च कारणमिदं हि वयं शिवश्व ॥

एवं विकल्परहितास्तव यं च ह्यात्मा आत्मानमात्मनि च मित्र कथं वदामि ॥२॥

निर्मूल मूलरहितो हि सदोदितोहं निर्धूमधूमरहितो हि सदोदितोऽहं ॥

संदीप्त्यदीप्तिरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् ‍ ॥३॥

निष्कारकाममिह नाम कथं वदामि निःसंगसंगमिह नाम कथं वदामि ॥

अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥४॥

अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि ॥

अनित्य - नित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥५॥

स्थूलं हि नो न च कृशं नगतागतं हि चाद्यं च मध्यरहितो नपरापरं हि ॥

सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञाना० ॥६॥

संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्व नभोनभश्व ॥

संवित्धि चैकममलं नहि बत्धमुक्तिः ज्ञानामृ० ॥७॥

दुर्बोधबोधगहनो नभवामि तात दुर्लक्ष्यलक्ष्यगहनो नभवामि तात ॥

आसन्नादुर्गगहनो नभवामि तात ज्ञाना० ॥८॥

निष्कर्मकर्मगहनोज्वलनो भवामि निर्दुःखदुःखदहनोज्वलनो भवामि ॥

निर्देहदेहदहनोज्वलनो भावामि ज्ञाना० ॥९॥

निष्पापपापदहने हि हुताशनोहं निर्धर्मधर्मदहने हि हुताशनोहम ‍ ॥

निर्बंधबंधदहने हि हुताशनोहं ज्ञा० ॥१०॥

निःशून्यशून्यगगने हि हुताशनोहं आत्मस्वरूपगगने हि हुताशनोहम् ‍ ॥

एवं हुताशनगुणस्य हुताशनोहं ज्ञाना० ॥११॥

निर्भावभावरहितो नभवामि वत्स निश्वित्तचित्तरहितो नभवामि वत्स ॥

निर्योगयोगरहितो नभवामि वत्स ज्ञाना० ॥१२॥

निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः ॥

निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृ० ॥१३॥

संसारसंततिलता न च मे कदाचित्तापस्य शांतिमसुखं न च मे कदाचित् ‍ ॥

अज्ञानबंधनमिदं न च मे कदाचिज्ञ्ज्ञानामृतं० ॥१४॥

संसारसंसृतिरजो न च मे विकारः संसारसंततितमो न च मे विकारः ॥

सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं स० ॥१५॥

संसारदुःखजनकं न च मे कदाचित्संतापमोहजनिता नच मे कदाचित् ‍ ॥

यस्मादहंकृतिपरं नच मे कदाचिज्ञ्ज्ञानामृतं स० ॥१६॥

निष्कंपकंपनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधनं नदिवं न नक्तम् ‍ ॥

निःसारसारनिधनं नचराचरं हि ज्ञानामृतं समर० ॥१७॥

नो वेद्यवेदकमिदं नच हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः ॥

एवं कथं हि भवतां कथयामि तत्त्वम् ‍ ज्ञानामृतं० ॥१८॥

निर्भिन्नभिन्नरहितं परमैकतत्त्वं अंतादिमध्यरहितं परमैकतत्त्वम् ‍ ॥

एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं स० ॥१९॥

यद्वा समग्रसहजं स्वयमेव सर्वमंतर्बहिः किल कथं परमार्थतत्त्वम् ‍ ॥

यस्मादहो परतरं न हि वस्तु किंचिज्ञ्ज्ञानामृ० ॥२०॥

रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् ‍ ॥

देहादिदुः खरहितं त्वहमेव तत्त्वं ज्ञानामृतं० ॥२१॥

स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्व ॥

शांतं परं यदि ध्रुवं परमार्थतत्त्वं ज्ञानामृतं० ॥२२॥

दिर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुळमितीह मनोविभागम् ‍ ॥

विस्तारसंघटमितीह मनोविभागो ज्ञानामृतं० ॥२३॥

माता पिता च तनयादि न मे कदाचिद्नर्भं च मृत्यु - मनसो न च मे कदाचित् ‍ ॥

निर्व्याकुलस्थिरपरं परमार्थतत्त्वं ज्ञानामृतं ॥२४॥

निःशुद्धसर्वमविचारमनंतरूपं निर्लेपलेपनविचारमतर्करूपम् ‍ ॥

निर्नादनादमविचारमगाधरूपं ज्ञानामृतं० ॥२५॥

उच्चारमात्रमपि ते नहि नाममात्र्म निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् ‍ ॥

निर्लज्ज मानस करोषि कथं विलापं ज्ञानामृतं० ॥२६॥

ब्रह्मादयः सुरगणाः कथमत्र संति स्वर्गादयो वसतयः कथमत्र संति ॥

यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं स० ॥२७॥

निष्कर्मकर्मसततं तु कथं करोमि निःसंगसंगरहितं परमं विनोदम् ‍ ॥

निःसत्यसत्यरहितं सततं बलोहं ज्ञानामृतं समरसं गगनोपमोहम् ‍ ॥२८॥

मायाप्रपंचरचना न च मे विकाराः कौटिल्य - दंभवचना न च मे विकारः ॥

सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं समरसं० ॥२९॥

वितर्क - तर्कमिह तात न मे विभाति वीतर्क - तर्क्यमिह तात न मे विभाति ॥

शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं स० ॥३०॥

आलंबहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम ‍ ॥

संसिद्धि - शांतिमचलं ननु पूर्ण - पूर्णं ज्ञानामृतं० ॥३१॥

सत्यं वदामि विरजावचनैकजातं सत्यं वदामि सरजावचनैकजातम् ‍ ॥

सत्यं कथं हि सततं च सितासितौ नो ज्ञाना०॥३२॥

संध्यादिकालरहितं नवियोगयोगं ज्ञानं प्रबोधरहितं नबधीर - मूकम् ‍ ॥

एवं विकल्परहितं निजभावशुद्धं ज्ञानामृतं० ॥३३॥

धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि ॥

एवं निरंजनसमं हि निरंतरं हि ज्ञानामृतं० ॥३४॥

निर्नाथनाथविगतं हि निराकुलं वै निश्वित्तचित्तविगतं हि निराकुलं वै ॥

निर्भावभावरहितं हि निराकुलं वै ज्ञानामृतं० ॥३५॥

किं काननं ग्रहमिदं हि कथं वदंति संविद्धि संशयममू हि कथं वदंति ॥

एवं निरंतरसमं हि निरंजनं वै ज्ञानामृतं० ॥३६॥

निर्जीव - जीवरहितं सततं विभाति सज्जीव - जीवरहितं सततं विभाति ॥

निर्बीज - बीजरहितं सततं विभाति ज्ञानामृ० ॥३७॥

संभूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति ॥

संसारवर्जितमिदं सततं विभाति ज्ञानामृतं० ॥३८॥

किन्नामरोदसि सखे नशुभाशुभानि किन्नाम रोदसि सखे न च जन्म - मृत्युः ॥

किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृतं स० ॥३९॥

किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेंद्रियाणि ॥

किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं ॥४०॥

किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोदसि सखे न च ते प्रकोपः ॥

किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं० ॥४१॥

ऐश्वर्यमिच्छसि कथं न च ते धमानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः ॥

ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं० ॥४२॥

देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च ॥

निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं० ॥४३॥

नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् ‍ ॥

नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं० ॥४४॥

ध्याता न तेषु त्द्ददये च न ते समाधिर्ध्येयं न तेषु त्द्ददये च न ते हि देशः ॥

ध्यानं न तेषु त्द्ददये च न तेऽस्ति लोको ज्ञानामृतं० ॥ ४५॥

कांतारध्वांतवदिमं हि कथं वंदति संचिंत्य संशयमिदं हि कथं वदंति ॥

एइं निरंतरसमं हि निरंजनं हि ज्ञामामृतं० ॥४६॥

यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः ॥

स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं० ॥४७॥

कथमिह परमार्थतत्त्वमानंदरूपं कथमिह परमार्थतत्त्वमक्षस्वरूपम् ‍ ॥

कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं० ॥४८॥

दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहिनम् ‍ ज्ञानविज्ञानमेकम् ‍ ॥

सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं० ॥४९॥

निश्विंतरूपं नविशून्यरूपं नशुद्धरूपं नविशुत्धरूपम् ‍ ॥ रू

पं विरूपं नभवामि किंचित्स्वच्छैकरूपं परमार्थतत्त्वम् ‍ ॥५०॥

मुंच मुंचनिसन्नानि त्यागं मुंच शिवं वद ॥

त्यागात्यागविषं मुंच अमृतत्त्वं विषायते ॥५१॥

द्दश्याद्दश्यपरं द्दश्यमृतामृतपरं श्रृणु ॥

शब्दाशब्दपरं वेद वेदावेदपरं सदा ॥५२॥

विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥

समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥५३॥

ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां

द त्ता - गोरक्षकसंवादे द्वैताद्वैतनिरूपणंनाम द्वितीयोध्यायः ॥२॥

श्रीदत्तात्रेयार्पणमस्तु ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:56.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तेल्या

  • पु. १ खरबुजातील एक रोग ; याने वेलावर बारीक कीड उत्पन्न होते व वेल वाळतो . - कृषि १७० . [ हिं . ] 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site