TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

दत्तगीता - प्रथमोध्यायः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


प्रथमोध्यायः

श्रीगणेशाय नमः ॥ अस्य श्रीदत्तात्रेयगीतामालामंत्रस्य ॥ गायत्र्यादीनि छंदांसि ॥

श्रीदत्तात्रेयो परमात्मा देवता ॥ येनेदं पूरितमिति बीजं ॥ ज्ञानारसं समरसमिति शक्तिः ॥

किमु रोदसि मानस सर्वसममिति कीलकम् ‍, स्वरूपनिर्वाणं नाम योहमिति यजकम् ‍ ॥

योग - मोक्षयोः स्वनिष्ठपरिपाकसिध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ येनेदं पूरितं सर्वमित्यंगुष्ठाभ्यां नमः ॥

त्द्ददयाय नमः ॥ ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः ॥ शिरसे स्वाहा ॥ स्वरूपनिर्वाणमिति मध्यमाभ्यां नमः ॥

शिखायै वौषट् ‍ ॥ किमुरोदसि मानससर्वसममित्यनामिकाभ्यां नमः ॥ कवचायहुम ‍ ॥ यदिकचैकनिरंतरेति कनिष्ठिकाभ्यां नमः ॥ नेत्र० ॥

तमीशमात्मानमुपैमि शाश्वतमिति करतळकरप्टष्ठाभ्यां नमः ॥ अस्त्रायफट् ‍ ॥ ॐ भूर्भुवःस्वरोमिति दिग्बंधः ॥ अथ ध्यानं ॥

नित्यं यस्यांघ्रियुग्मं हिमकरसद्दशं पादुकाद्वंद्वभूषं बिभ्रद्योगींद्र्दोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् ‍ ॥ द्यूते क्रीडाविलासादभयवरकरः

प्राणमूले च द्दष्टिस्तत्त्वाद्देवावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥१॥

श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मांतरं भक्त्यासक्तमयैकसिंधुलहरीसिक्तार्कचिंतानलम् ‍ ॥

तत्त्वासि विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोहमनन्यभावशरणं त्वं त्राहि मां माधवम् ‍ ॥२॥

दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वाणनिष्ठितम् ‍ ॥ अवधूतमहं नौमि विज्ञानानंदविग्रहम् ‍ ॥३॥

पठिता प्रत्यहं गीता त्रिवारं येन धीमता ॥ त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥४॥

यस्य बाधादिदं सर्वं ज्ञानविज्ञानगोचरम् ‍ ॥ तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥५॥

दत्तात्रेयम् ‍ शिवं पूर्णं भावाभावविवर्जितम् ‍ ॥ अद्वैतं परमं गुह्मं निर्विकल्पं निरंजनम् ‍ ॥६॥

कथं वदामि निर्भावम् ‍ भेदाभेदविवर्जितम् ‍ ॥ अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥७॥

ईश्वरानुग्रहादेव पुंसामद्वैतवासना ॥ महाभयपरित्राणं द्वित्राणमिहजायते ॥८॥

यदेकं निर्गुणं नित्यं निराभासं निरंजनम् ‍ ॥ चिदानंदस्वरूपं च दत्तात्रेयं चिदक्रियम् ‍ ॥९॥

गोरक्षका उवाच - त्रिगुणं शरीरं भवतीह सारं अजनं समूहे चरतीह नग्नम् ‍ ॥

मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥१०॥

भावाभावं भवति स भावो भावं शयति मननं हि ततू ॥

प्रलयति तन्मननयनवशात्स्मृतवचनं श्रृणु भो अवधूता ॥११॥

श्रीदत्तात्रेय उवाच - येनेदं पूरितं सर्वम् ‍ आत्मन्येवात्मनात्मनि ॥

निराकारं कथं वंदे ह्यभिन्नं शिवमव्ययम् ‍ ॥१२॥

पंचभूतात्मकं विश्वं मरीचिजलसन्निभम् ‍ ॥

कस्यास्ति ह नमस्कारो अहमेको निरंतरम् ‍ ॥१३॥

वेदांतसारसर्वज्ञं ज्ञानविज्ञानमेव च ॥

अहं चात्मा निराकारः स्वस्वं वेद्मिस्वभावजन् ‍ ॥१४॥

आत्मैव केवलं सर्वं भेदाभेदो नविद्यते ॥

अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥१५॥

एवं सर्वात्मकं नित्यं निष्कंपं गगनोपममू ॥

स्वभावं निर्मलं शुद्धं स एवाहं नसंशयः ॥१६॥

अहमेवाव्ययोऽनंतः शुत्धविज्ञानविग्रहः ॥

सुखं दुःखं वि ( न ) जानामि कथं कस्यापि वर्तते ॥१७॥

न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे ॥

न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुत्धमतींद्रियोहम् ‍ ॥१८॥

मनो वै गगनाकारं मनो वै सर्वतोमुखम् ‍ ॥

मनो वै परमात्मैव न मन : परमार्थतः ॥१९॥

लीयंते वा नलिप्यंते कथं कस्यापि वर्तते ॥

नहि सर्वमसर्वं च चात्मैव केवलं यतः ॥२०॥

मनः सर्वे प्रलीयंते मनस्तत्र प्रलीयते ॥

एवं सर्वं मनः सर्वं आत्मैव केवलं यतः ॥२१॥

अहमकमिदं सर्वं व्योमाकारं निरंतरम् ‍ ॥

पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ‍ ॥२२॥

त्वमेव तत्त्वान्हि कथं विवुध्यसे सर्वं हि सर्वेषु विनष्टमव्ययम ‍ ॥

सदोदसि त्वं त्वमखंडितं विभो दिवा च नक्तं च कथं हि मन्यते ॥२३॥

आत्मानं सततं वित्धि सर्वमेकं निरंतरम् ‍ ॥

अहं ध्यात्वा परं ध्येयमखंडं खंडसे कथम् ‍ ॥२४॥

नजातोसि मृतोसि त्वं न ते देह : कदाचन ॥

सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधाश्रितः ॥२५॥

सबाह्याभ्य़ंतरेऽसि त्वं शिवः सर्वत्र सर्वदा ॥

इतस्ततः कथं भ्रांतः प्रधावसि पिशाचवत् ‍ ॥२६॥

संयोगाश्व वियोगाश्च वर्तंते नहि तन्न मे ॥

नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ‍ ॥२७॥

शब्दादिपंचकस्यास्य नैवासि त्वं हते पुनः ॥

त्वमेव परमं तत्वंमनः किं परितप्यसे ॥२८॥

नच मृत्युर्न ते चित्तं बंधं मोक्षं शुभाशुभम ‍ ॥

कथं रोदिसि रे चित्त नाम - रूपे न ते न मे ॥२९॥

अहो चित्तक विभ्रांतः प्रधावसि पिशाचवत् ‍ ॥

अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥३०॥

त्वमेव मोक्षो हि विकारवर्जितो निष्कंपमेकं हि विमोक्षविग्रहः ॥

नवीतरागो गतवीतरागो कथं हि संतप्तअकामकामी ॥३१॥

नाहं कर्ता न भोक्ता च न चे कर्म कदाचन ॥

विशुद्धं निर्गुणं ब्रह्म वद्धमुक्तिःकथं मम ॥३२॥

बध्नंति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ‍ ॥

अशरीरं समं तत्त्वं तन्मां सिद्धिर्नसंशयः ॥३३॥

साकारममृतं विद्धि निराकारं निरंतरम् ‍ ॥

एतत्तत्त्वोपदेशेन नपुनर्गर्भसंभवः ॥३४॥

एकानेकसमं तत्त्वं वदंति ह विपश्वितः ।

रागत्यागेन मनसि ह्येकानेको नविद्यते ॥३५॥

अनित्यरूपस्य कुतो हि बंधनं नित्यस्य रूपस्य कुतो हि बंधमन् ‍ ॥

नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥३६॥

अनाहरूपं हि कथं समाधि - मोक्षस्वरूपं यदि सर्वमेकम् ‍ ॥

आत्मस्वरूपं हि कथं समाधिरस्तीति नास्तीति कथं समाधिः ॥३७॥

विशुद्धोसि समं तत्त्वं विदेहिस्त्वमजोऽव्ययः ॥

जानामि हि नजानामि चात्मानं मन्यसे कथम् ‍ ॥३८॥

यस्त्वं जानासि तत्त्वेन यस्त्वं पश्यसि तत्कथम् ‍ ॥

यस्त्वं मन्यसि तत्त्वेन सर्वंब्रह्मेति सर्वदा ॥३९॥

तत्त्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः ॥

नेति नेति श्रुतिर्ब्रूयान्नानृत्यं ( तं ) पांचभौतिकम् ‍ ॥४०॥

आत्मनैवात्मना सर्वं त्वया पूर्णं निरंतरम् ‍ ॥

ध्याता ध्यानं नते चित्तं निर्लक्ष्यं ध्यायसे कथम् ‍ ॥४१॥

शिवं नजनामि कथं वदामि शिवं च जानामि कथं वदामि ॥

सर्वं शिवं वै परमार्थतत्त्वं स्वच्छस्वभावद्नगनोपऽहम्‍॥४२॥

आत्मस्वरूपी न च चोपकल्पना आत्मस्वभावेन मदन्यभावना ॥

स्वयं शिवत्वं परमं विशुद्धं नाहं न मे चैव परात्परं च ॥४३॥

न त्वं नाहं समं तत्त्वं कलानां हेतुवर्जितम् ‍ ॥ ग्राह्या - ग्राहक - निर्मुक स्वयं वेद्यं कथं भवेत् ‍ ॥४४॥

अतत्त्वरूपं नहि वस्तु किंचित्तत्त्वं स्वरूषं न हि वस्तु किंचित् ‍ ॥

आत्मैकरूपं परमार्थतत्त्वं नहिंसको वाऽपि न चापि हिंसा ॥४५॥

विशुद्धोहं समं तत्त्वं विदेहं विश्वतोमुखम् ‍ ॥

विभ्रमे कथमात्मानं विभ्रांतोहं कथं पुनः ॥४६॥

घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ‍ ॥

शिवेन मनसा तद्वन्नभिन्नं प्रति मे शिवम् ‍ ॥४७॥

न घटेन घटाकाशः न जीवो जीवविग्रहः ॥

केवलं ब्रह्म संवेत्ति वेद्य - वेदविवर्जितम् ‍ ॥४८॥

सर्वत्र सर्वदा वर्जं सर्वमात्मानजं ध्रुवमु सर्वशून्यमशून्यं च तन्मां विद्धि नसंशयः ॥४९॥

न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं नजातिः ॥

न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्त्वम् ‍ ॥५०॥

व्याप्य - व्यापकनिर्सुक्तं तत्त्वमेकं च केवलम् ‍ ॥

प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ‍ ॥५१॥

अद्वैतं केचिदिच्छंति द्वैतमिच्छंति चापरे ॥

समं तत्त्वं नविंदंति द्वैताद्वैतविवर्जितम् ‍ ॥५२॥

श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ‍ ॥

कथयामि कथं तत्त्वं मनो - वाचामगोचरम् ‍ ॥५३॥

यदा हि मन्यसे सर्वं देहादिगगनोपमम ‍ ॥

तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ‍ ॥५४॥

परणे सर्वमात्मानं न भिन्नं प्रतिभाति मे ॥

ब्रह्मैव केवल सर्वं ध्याता धानं च कथ्यते ॥५५॥

यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् ‍ ॥

एतत्सवं न ते किंचिच्छुद्धोहमजमव्ययम् ‍ ॥५६॥

सर्वं जनद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् ‍ ॥

सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ‍ ॥५७॥

तत्त्वं तत्त्वसमं देहं किं तु जानामि वा पुनः ॥

असंवेद्ये स्वसंवेद्यमात्मानं मन्यसे कथम् ‍ ॥५८॥

अष्टांगयोगेन तु नैव बुद्धं गुरुपदेशेन तु नैव बुध्यम् ‍ ॥

मनोविलासेन तु नैव बोध्दुं स्वयं स्वबोधेन विशुद्धरूपम् ‍ ॥५९॥

नहि भूतात्मको देहो विदेहो वर्तते नहि ॥

आत्मैव केवलं सर्वं न तु कुर्यात्कथंचन ॥६०॥

माया माया कथं तात छाया छाया नविद्यते ॥

तत्त्वमेकमिदं सर्वं व्योमाकारं निरंजनम् ‍ ॥६१॥

आदिमध्यांतमुक्तोहं नबद्धोहं कदाचन ॥

स्वभावानिर्मलं शुद्धमिति मे निश्वयो मनः ॥६२॥

महदादिजगत्सर्वं नकिंचित्प्रतिभाति मे ॥

ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ‍ ॥६३॥

जानामि सर्वथा सर्वमहमेको निरंतरम् ‍ ॥

निरालंबमशून्यं च न तु व्योमादिपंचकम् ‍ ॥६४॥

नपुमान्नपुंसको न स्त्री न बद्धो नैव कल्पना ॥

स्वानंदच निरानंदमात्मानं मन्यसे कथम ‍ ॥६५॥

नबद्धो नैव मुक्तोहं नचाहं ब्रह्मणः पृथक् ‍ ॥

नभर्ता न च भोक्ता च व्याप्यव्यापकवर्जितम् ‍ ॥६६॥

यथा जले जलं न्यस्तं स्वस्मिन् ‍ संभेदवर्जितम् ‍ ॥

प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥६७॥

जानासि ते परं रूपं प्रत्यक्षं गगनोपमम ‍ ॥

नचापरं हि रूपं हि मरीचिजलसन्निभम् ‍ ॥६८॥

नगुरुर्नोपदेशश्च नचोपाधिर्नच क्रिया॥

विदेहीं मां विजानीहि विशुद्धोहं स्वभावतः ॥६९॥

यदि यो वै नमुक्तोहं नबद्धोहं कदाचन ॥

साकारं वा निराकारमात्मानं मन्यसे कथम ‍ ॥७०॥

विशुद्ध ईश्वरोसि त्वं न ते चित्तं परात्परम् ‍ ॥

अहमात्मा परं तत्त्वमिदं वक्तुं न शक्यते ॥७१॥

कथं रोदिसि रे चित्त आत्मन्येवात्मना भव ॥

पिबन् ‍ सकलतीर्थात्मा अद्वैतं परमामृतम् ‍ ॥७२॥

नवै बोधो नचाबोधो नबोधो बोध एव च ॥

यस्य निर्वासनाबोधो स बोधो नान्यथा भेवत् ‍ ॥७३॥

न ध्यान - तर्कौ न समाधियोगो न देशकालौ न गुरुपदेशः ॥

स्वभावसंवित्तिपरं च तत्त्वमाकाशकल्पं सहजं ध्रुं च ॥७४॥

नजातोसि मृतोसि त्वं न ते कर्म शुभाशुभम् ‍ ॥

शुद्धोहं निर्गुणं नित्यं बंधमु - क्तिः कथं मम ॥७५॥

यदि सर्वगतो देवः स्थिरः पूर्णो निरंतरम् ‍ ॥

अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ‍ ॥७६॥

स्फुरत्वेवं जगत्सर्वमखंडितनिरंतरम् ‍ ॥

अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ‍ ॥७७॥

अहो मायामये देहे द्वैताद्वैतविकल्पना ॥

निराकारोपि साकारो नेति नेतीति सर्वथा ॥७८॥

भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् ‍ ॥

न ते च माता भगिनी पिता च न ते च पत्नी न सुत्द्दन्नपुत्रः ॥७९॥

नपक्षपाती न च पक्षपाती किं तप्यसे तत्परकामकामी ॥

दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥८०॥

चिद्देहमशरीरत्वात्कल्पयंतिकथं बुधाः ॥

नहि भुक्तं विभक्तं च न हि दुःख - सुखानि च ॥८१॥

न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ‍ ॥

नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना ॥

न मे देहो विदेहो वा निर्ममेति ममेति किम् ‍ ॥८२॥

न मे रागादिको दोषो दुःखं चैवादिकं नहि ॥

आत्मनं विद्धि मामेवं विशालं गगनोपमम ‍ ॥८३॥

सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् ‍ ॥

संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥८४॥

येनकेन च भावेन यत्र यत्र मृतः पुनः ॥

योगिनस्तत्र लीयंते घटाकाशमिवांबरे ॥८५॥

तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत ‍ ॥

ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥८६॥

तस्य ज्ञानं नचैवास्ति यस्य स्वर्गादिकल्प्यते ॥

यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥८७॥

धर्मार्थकाम - मोक्षादिविपदादिचराचरम् ‍ ॥

मन्यंते योगिनः सर्वे मरी चिजलसन्निभम् ‍ ॥८८॥

अतीतानागतं कर्म वर्तमानं तथैव च ॥

नकरोमि नभुंजामि इति मे निश्वला मतिः ॥८९॥

कदापि चित्तदोषेण कल्पितं स्वर्गमंडलम ‍ ॥

तेन स्वर्गपदं भोक्ता आत्मज्ञानपरायणम् ‍ ॥९०॥

गोरक्षक उवाच - शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः ॥

विचरति नग्नस्त्यक्त्वा गर्वं विंदति केवलमात्मनि सर्वम् ‍ ॥९१॥

तृतीयं तुर्यं नहि नहि यत्र विंदति केवलमात्मनि तत्र ॥

धर्माधर्मौ नहि नहि यत्र बंध - विमुक्तो कथमिह तत्र ॥९२॥

विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥

समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥९३॥

सर्वशून्यमशून्यं च सत्यासत्यं नविद्यते ॥

स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ‍ ॥९४॥

ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां निर्वाणयोगे

श्रीदत्त - गोरक्षकंसवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:56.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

perigamium

  • स्त्री. Bot.(part of a reduced branchlet containing the archegonia of some mosses) स्त्रीधानीशाखा 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site