भृगुसूत्रम् - षष्ठोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वादिद्वादशभावस्थितभृगुफलमाह तत्रादौ लग्ने भृगुफलम्

गणितशास्त्रज्ञः ॥१॥
दीर्घायुः दारप्रियेः वस्त्रांलंकारप्रियः रुपलाकयप्रिय गुणवान् ॥२॥
स्त्रीप्रियः धनी विद्वान् ॥३॥
शुभयुते अनेकभूषणवान् ॥४॥
स्वर्णकान्तिदेहः ॥५॥
पापवीक्षितयते नीचास्तगते चोरवञ्चनवान् ॥६॥
बातश्लेष्मादिरोगवान् ॥७॥
भावाधिपे राहुयुते बृहद्विजो भवति ॥८॥
वाहने शुभयुते गजान्तैश्वर्यवान् ॥९॥
स्वक्षेत्रे महाराजयोगः ॥१०॥
रन्ध्रे अष्टव्याधिपे शुक्रे दुर्बले स्त्रीद्वयम् ॥११॥
चञ्चल भाग्यः ॥१२॥
क्रूरबुद्धिः ॥१३॥
लग्नादि‌द्वतीये भृगुफलम्

धनवान कुटुम्बी सुभोजनः विनयवान् ॥१४॥
नेत्रे विलासधनवान् सुमुखः ॥१५॥
दयावान् परोपकारी ॥१६॥
द्वात्रिंशद्वर्षे उत्तमस्त्रीलाभः ॥१७॥
भावाधिपे दुर्बले दुःस्थाने नेत्रवैपरीत्यं भवति ॥१८॥
शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धनाशकरः ॥१९॥
लग्नात्तृतीये भृगुफलम

अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः संकल्पसिद्धिः पश्वातसहोदराभावः ॥२०॥
क्रमेण भ्रातृतत्परः वित्तभोगपरः ॥२१॥
भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने पापयुते भ्रातृनाशः ॥२२॥
लग्नाच्चुतुर्थे भृगुफलम्

शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान् ॥२३॥
त्रिंशद्वर्षे अश्ववाहनप्राप्तिः ॥२४॥
क्षीरसमृद्धिः भावाधिपे बलयुते अश्वान्दोलिकाकनकचतुरङादिवृद्धिः ॥२५॥
तत्र पापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रवाहनहीनः ॥२६॥
मातृक्ले शवान् ॥२७॥
कलत्रान्तरभोगी ॥२८॥
लग्नात्पञ्चमे भृगुफलम्

बुद्धिमान् मन्त्री सेनापतिः ॥२९॥
माता मट्टी दृश्वा यौवनदारपुत्रवान् ॥३०॥
राजसन्मानी मन्त्री सुज्ञः स्त्रीप्रसन्नतावृद्धिः ॥३१॥
तत्र पापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्रासः ॥३२॥
तत्र शुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः ॥३३॥
लग्नात्षष्ठ भृगुफलम्

ज्ञातिप्रजासिद्धिः शन्नुक्षय पुत्रपौत्रवान् ॥३४॥
अपात्रव्ययकारी मायावादी रोगवान आर्यपुत्रवान् ॥३५॥
भावाधिपे बलयुते शत्रुज्ञातिर्द्धिः शत्रुपापयुते नाचस्थे भावेशेन्दुस्थे शत्रुज्ञातिनाशः ॥३६॥
लग्नात्सप्तमे भृगुफलम्

अतिकामुकः मुखचुम्बकः ॥३७॥
अर्थवान् परदाररतः वाहनवान सकलकार्यनिपुणः स्त्रीद्वेषी सत्प्रधान जनबन्धकलत्रः ॥३८॥
पापयुते शत्रुक्षेत्रे अरिनीचगे अनेककलत्रान्तरप्राप्तिः ॥४१॥ ============================
पुत्रहीनः ॥४२॥
शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान् ॥४३॥
कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्टिः॥४४॥
लग्नादष्टमे भृगुफलम्

सुखी चतुर्थे वर्षे मातृगण्डः ॥४५॥
अर्धायुः रोगी हितदारवान् असन्तुष्टः ॥४६॥
शुभक्षेत्रे पूर्णायुः ॥४७॥
तत्र पापयुते अल्पायुः ॥४८॥
लग्नानवमे भृगुफलम्

धार्मिकः तपस्वी अनुष्ठानपरः ॥४९॥
पादेबहूत्तमलक्षणः धर्मी भोगव्रुद्धिः सुतदारवान् ॥५०॥
पितृदीर्धायुः ॥५१॥
तत्र पापयुते पित्ररिष्टवान् ॥५२॥
पापयुते पापक्षेत्रे अरिनीचगे धनहानिः ॥५३॥
गुरुदारगः ॥५४॥
शुभयुते भाग्यवृद्धिः ॥५५॥
महाराजयोगः ॥५६॥
वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादिवाहनवान् ॥५७॥
वस्त्रालंकारप्रियः ॥५८॥
लग्नाद्दशमे भृगुफलम्

ब्रहुप्रतापवान् पापयुते कर्मविघ्रकरः गुरुबुधचन्दयुते अनेकवाहनारोहणवान् ॥५९॥
अनेकक्रतुसिद्धिः ॥६०॥
दिगन्त विश्रुतकीर्तिः अनेक राजयोगः बहुभाग्यवान् काचालः ॥६१॥
लग्नादेकादशे भृगुफलम्

विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते अनेकवाहनयोगः ॥६२॥
पापयुते पापमूलात धनलाभः ॥६३॥
शुभयुते शुभमूलात् नीचर्क्षे पाप रन्धरेशादियोगे लाभहीनः ॥६४॥
लग्नाद्‌द्वादशे भृगुफलम्

बहुलदारिद्रयवान ॥६५॥
पापयुते विषयलुब्धपरः ॥६६॥
शुभयुक्तश्वेत बहुधवान् ॥६७॥
शय्याखट्‌वाङ्‌दिसौख्यवान् शुभलोकप्राप्तिः पापयुते नरकप्राप्तिः ॥६८॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुक्ते शुक्रभाध्यायनाषष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP