भृगुसूत्रम् - चतुर्थोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वदिद्वादशभावस्थितबुधफलमाह तत्रादौ लग्ने बुधफलम्

विद्यावान् विवाहादिबहुश्रुतवान् ॥१॥
अनेकदेशे सार्वभौमः मन्त्रवादी पिशाचोच्चाटन समर्थः मृदुभाषी विद्वान् क्षमी दयावान् ॥२॥
सप्तविंशतिवर्षे तीर्थयात्रायोगः बहुलाभवान् बहुविद्यावान् ॥३॥
पापयुते पापक्षेत्रे देहे रोगः पित्तपांडुरोगः ॥४॥
शुभयुते शुभक्षेत्रे देहरारोग्यम् ॥५॥
स्वर्णकान्तिदेहः ज्योतिषशास्त्र पठितः अङुहीनः सज्जनद्वेषी नेत्ररोगी ॥६॥
सप्तदशवर्षे भ्रातृणामन्योन्यकलहः ॥७॥
वंचकः ॥८॥
उच्चवक्षेत्रे भ्रातृसौख्यम् ॥९॥
श्रेष्ठे लोकं गमिष्यति ॥१०॥
पापयुते पापद्दष्ट्युते नीचर्क्षे पापलोकं गमिष्यति ॥११॥
शय्यासुख वर्जितः क्षुद्रदेवतोपासकः ॥१२॥
पापमन्दादि युते वामनेत्रे हानिः षष्ठेशयुते नीचेशयुते वा न दोषः ॥१३॥
अपात्रव्ययवान् ॥१४॥
पापहा ॥१५॥
शुभयुते निश्वयेन धनधान्यादिमान् धार्मिकबुद्धिः॥१६॥
अस्त्रावित् गणितशास्त्रज्ञः सौख्यवान् तर्कशास्त्रवित् दृढगात्रः ॥१७॥
लग्नाद्‌द्वितीये बुधफलम्

पुत्रसमृद्धिः वाचालकः वेदशास्त्रविचलक्षणः संकल्पसिद्ध्या संयुतः धनी गुणाढ्यः सद्‌गुणी पञ्चदशवर्षे बहुविद्यावान् ॥१८॥
बहुलाभप्रदः ॥१९॥
पापयुते पापक्षेत्रे अरिनीचगे विद्याविहीनः ॥२०॥
क्रूरत्ववान् पवनव्याधिः ॥२१॥
शुभयुतिवीक्षणाद्धनी ॥२२॥
विद्यावान् ॥२३॥
गुरुणा युते वीक्षिते वा गणितशास्त्रधिकारेण सम्पन्नः ॥२४॥
लग्नतृतीये बुधफलम्

भ्रातृमान् बहुसौख्यवान् ॥२५॥
पञ्चदशवर्ष क्षेत्रपुत्रयुतः॥२६॥
धनलाभवान् ॥२७॥
सद्‌गुणशाली ॥२८॥
भावाधिपे बलयुते दीर्घायुः धैर्यवान् ॥२९॥
भवाधिपे भ्रातृपीडा भीतिमान् ॥३०॥
बलयुते भ्राता दीर्घायुः ॥३१॥
लग्नाच्चतुर्थे बुधफलम्

हस्तचापल्यवान धर्यवान् विशालाक्षः पितृमातृसौख्ययुतः ॥३२॥
ज्ञानवान् सुखी ॥३३॥
षोडशवर्षे द्रवापहाररुपेण अनेकवाहवान् ॥३४॥
भावाधिपे बलयुते आन्दोलिकाप्राप्तिः ॥३५॥
राहुकेतुशनियुते वाहनारिष्टवान् ॥३६॥
क्षेत्रसुखवर्जितः बन्धुकुलद्वेषी कपटी ॥३७॥
लग्नात्पञ्चमे बुधफलम्

मातुलागण्डः मात्रादिसौख्यं पुत्रविघ्रंमेधावी मधुरभाषी बुद्धिमान् ॥३८॥
बहवाधिपे पापयुते बलहीने पुत्रनाशः ॥३९॥
अपुत्रदत्तपुत्रप्राप्तिः पापकर्मी मन्त्रवादी ॥४०॥
लग्नात्षष्ठे बुधफलम्

राजपूज्यः विद्याविघ्रः दाम्भिकः विवादशूरः ॥४१॥
त्रिंशद्वर्षे बहुराजस्त्रिहो भवति ॥४२॥
पत्रादिलेखकः ॥४३॥
कुजर्क्षे नीलकुष्ठादिरोगी ॥४४॥
शनि राहुयुते केतुयुते वातशोलादि -रोगी ज्ञातिशत्रुकलहः ॥४५॥
भावाधिपे बलयुते ज्ञातिप्रबलः ॥४६॥
अरिनीचर्क्षे ज्ञातिक्षयः ॥४७॥
लग्नात्सप्तमे बुधफलम्

मातृसौख्यम् अश्वाद्यारुढो धर्मज्ञः उदारमतिः ॥४८॥
दिगन्तविश्रुतकीर्तिः राजपूज्यः ॥४९॥
तत्र शुभयुते चतुर्विंशतिवर्षे आन्दोलिकाप्राप्तिः ॥५०॥
कलत्रमतिः ॥५१॥
अभक्ष्यभक्षणः ॥५२॥
भावेशे बलयुते एकदारवान् ॥५३॥
दारेशे दुर्बले पापे पापर्क्षे कुजादियुते कलत्र नाशः ॥५४॥
स्त्रीजातके पतिनाशः कलत्रं कुष्ठ -रोगी ॥५५॥
अरुपवत् ॥५६॥
लग्नादष्टमे बुधफलम्

आयुः कारक बहुक्षेत्रवान् ॥५७॥
सप्तपुत्रवान् ॥५८॥
पञ्चविंशतिवर्षे अनेकप्रतिष्ठसिद्धेः ॥५९॥
कीर्तिप्रसिद्धः ॥६०॥
भावाधिपे बलयुते पूर्णायुः ॥६१॥
अरिनीचपापयुते अल्पायुः ॥६२॥
अथवा उच्चस्वक्षेत्रे वा शुभयुते पूर्णायुः ॥६३॥
लग्नान्नवमे बुधःफलम

बहुप्रजासिद्धिः ॥६४॥
वेदशास्त्रविशारदः संगीत पाठकः दाक्षिण्यवान् धार्मिकः प्रतातवान् बहुलाभवान् पितृदीर्घायुः ॥६५॥
तपोध्यान -शीलवान् ॥६६॥
लग्नाद्दशमे बुधफलम

सत्कर्मसिद्धिः धैर्यवान् बहुलकीर्तिमान् बहुचित्तवान् ॥६७॥
अष्टाविंशतिवर्षे नेत्ररोगवान् ॥६८॥
उच्चस्वक्षेत्रे गुरुयुतेऽग्निष्टोमादिबहुकर्मवान् ॥६९॥
अरिपापयुते मूढकर्मविघ्रवान् दुष्कृतिः अनाचारः ॥७०॥
लग्नादेकादशे बुधफलम्

बहुमङुलप्रदः ॥७१॥
अनेकप्रकारेन धनवान् ॥७२॥
एकोनविंशतिवर्षादुपरि क्षेत्रपुत्रधनवान ‍ दयावान् ॥७३॥
पापर्क्षे पापयुते हीनमूलेन धनलोपः ॥७४॥
उच्चस्वक्षेत्रे शूभमूलेन धनवान् ॥७५॥
लग्नाद्‌द्वादशे बुधफलम्

ज्ञानवान् ॥७६॥
वितरणशाली ॥७७॥
पापयुते चञ्चचित्तः ॥७८॥
नृपजनद्वेषा ॥७९॥
शुभयुतेन धर्ममूलेन धनव्ययः ॥८०॥
विद्याहीनः ॥८१॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुक्त बुधभावाध्यायनामचतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP