भृगुसूत्रम् - द्वितीयोऽध्यायः


‘ भृगुसूत्र’ नावे या ग्रंथात जन्मपत्रिकेचे फळ उत्तम प्रकारे अचूक कथन केले आहे.


अथ तन्वादिद्वादशभावस्थितचन्द्रफलमाह तत्रादौ लग्ने चन्द्रफलम्

रुपलावण्ययुक्तश्वपलः व्याधिना जलाच्चासौख्यः ॥१॥
पञ्चदशवर्षे बहुयात्रावान् ॥२॥
मेषवृषभ कर्कलग्ने चन्द्रे शास्त्रपरः ॥३॥
धनी सुखी नृपालः मृदुवाक् बुद्धिरहितः मृदुगात्रः बली ॥४॥
सुभदृष्टे बलवान् ॥५॥
बुद्धिमान् आरोग्यवान् बाग‌जालकः धनी ॥६॥
लग्नेशे बलरहिते व्याधिमान् ॥७॥
शुभदृष्टे आरोग्यवान् ॥८॥
लग्नाद्‌द्वितीये चन्द्रफलम्

शोभनवान् बहुप्रतापी धनवान् अल्पसन्तोषी ॥९॥
अष्टादशवर्षे राजद्वारेण सेनाधिपत्ययोगः ॥१०॥
पापयुते विद्याहीनः॥११॥
शुभयुते बहुविद्याधनवान् ॥१२॥
एकेनैव पूर्णचन्द्रेण संपूर्ण धनवान् ॥१३॥
अनेकविद्यावान् ॥१४॥
लग्नात्तृतीये चन्द्रफलम्

भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः ॥१५॥
चतुर्विंशतिवर्षे भावरुपेन राजदण्डयेन द्रव्यच्छेदः ॥१६॥
गोमहिष्यादिहीनः ॥१७॥
पिशुनः मेधावी सहोदरवृद्धिः ॥१८॥
लग्नाच्चतुर्थे चन्द्रफलम्

राज्यभिषिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धः मातृरोगी ॥१९॥
परस्त्रीस्तनपानकारी ॥२०॥
मिष्टान्नसम्पन्नः परस्त्रोलोलः सौख्यवान् ॥२१॥
पूर्णचन्द्रे स्वक्षेत्रे बलवान् मातृदीर्गायुः क्षीणचन्द्रे पापयुते मातृनाशः ॥२२॥
वाहमहीनः बलयुते वाहनसिद्धिः ॥२३॥
भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः ॥२४॥
लग्नात्पञ्चमे चन्द्रफलम्
स्त्रीदेवतासिद्धिः भार्या रुपवती ॥२५॥
क्वचित् कोपवती ॥२६॥
स्तनमध्ये लाञ्छनं भवति ॥२७॥
चतुष्पादलाभः स्त्रीद्वयं बहुक्षीरलाभः सत्त्वयुतः बहुमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान् ॥२८॥
स्त्रीदेवतोपासनावान् ॥२९॥
शुभयुते वीक्षणवशादनुग्रहसमर्थः ॥३०॥
पापयुतेक्षणवशान्निग्रहसमर्थः ॥३१॥
पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः सत्कर्मकृत् भाग्यसमृद्धः राजयोगी ज्ञानवान् ॥३२॥
लग्नात्षष्ठे चन्द्रफलम्

अधिकदारिद्रयदेही ॥३३॥
षट्‌त्रिंशद्वर्षे विधवासङुमी तत्र पापयुते हीनपापकरः ॥३४॥
राहुकेतुयुते अर्थहीनः ॥३५॥
घोरः शत्रुकलहवान् सहोदरहीनअग्निमांद्यादिरोगी ॥३६॥
तटाककूपादिषु जलादि गण्डः ॥३७॥
पापयुते रोगवान् ॥३८॥
क्षीणचन्द्रेपूर्णफलानि ॥३९॥
शुभयुते बलवान् अरोगी ॥४०॥
लग्नात्सत्पमे चन्द्रफलम्

मृदुभाषी पार्श्वनेत्रः द्वात्रिंशद्वर्षे स्त्रीयुक्तः ॥४१॥
स्त्रीलोलः स्त्रीमूलेन ग्रन्थिशस्त्रादिपीडा ॥४२॥
राजप्रसादलाभः ॥४३॥
भावाधिपे बलयुते स्त्रीद्वयम् ॥४४॥
क्षीणचन्द्रे कलत्रनाशः ॥ पूर्णचन्द्रे बलयुते स्वोच्चे एकदारवान् ॥४५॥
भोगलुब्धः ॥४६॥
लग्नादष्टमे चन्द्रफलम

अल्पवाहनवान् ॥ तडाकादिषु गण्डः ॥ स्त्रीमूलेन बन्धुजनपरित्यागी ॥ स्वर्क्षे स्वोच्चे दीर्घायुः क्षीणे वा मध्यमायुः ॥ (क -ग )
लग्नान्नवमे चन्द्रफलम्

बहुश्रुतवान् पुण्यवान् ॥४७॥
तटाकगोपुरादिनिर्माणपुण्यकर्ता ॥४८॥
पुत्रभाग्यवान् ॥४९॥
पूर्णचन्द्रे बलयुते बहुभाग्यवान् ॥५०॥
पितृदीर्घायुः ॥५१॥
पापयुते पापक्षेत्रे भाग्यहीनः ॥५२॥
नष्टपितृमातृकः ॥५३॥
लग्नाद्दशमे चन्द्रफलम्

विद्यावान् ॥५४॥
पापयुते सप्तविंशतिवर्ष विधवासङुमेन जनविरोधी ॥५५॥
अतिमेधावी ॥५६॥
सत्कर्मनिरतः कीर्तिमान् दयावान् ॥५७॥
भावाधिपे बलयुतेविशेसर्त्कसिद्धिः ॥५८॥
पापनिरीक्षिते पापयुते वा दुष्कृतिः ॥५९॥
कर्मविघ्रकरः ॥६०॥
लग्नादेकादशे चन्द्रफलम्

बहुश्रुतवान् पुत्रवान् उपकारी ॥६१॥
पञ्चाशाद्वर्षपुत्रर्णबहुप्राबल्ययोगः ॥६२॥
गुणाढ्यः ॥६३॥
भावाधिपे बलहीने बहुधन व्ययः ॥६४॥
बलयुते लाभवान् ॥६५॥
लाभे चन्द्रे निक्षेपलाभः ॥६६॥
शुक्रयुतेन नरवाहन -योगः ॥६७॥
बहुविद्यावान् ॥६८॥
क्षेत्रवान् अनेकजनरक्षणभाग्यवान्॥६९॥
लग्नाद्‌द्वादशे चन्द्रफलम्

दुर्भोजनः दुष्पात्रव्ययः कोपोद्धवव्यसनसमृद्धिमान् स्त्रीयोगयुक्तः अन्नहीनः ॥७०॥
शुभयुते विद्वान् दयावान् पापशत्रुयुते पापलोकः शुभमित्रयुते श्रेष्ठलोकवान् ॥७१॥
इति श्रीभृगुसूत्रे सिद्धप्रभाकरीटीकाभियुक्ते चन्द्र भावाध्यायनामद्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP