पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः ५

हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम्


लक्ष्मीर्लीलावती लोका लावण्यकोटिसम्भवा ।
लोकातीता लक्षणाख्या लिङुधारा लवङुदा ॥१६१॥

लवङुपुष्पनिरता लवङुतरुसंस्थिता ।
लेलिहाना लयकारी लीलादेहप्रकाशिनी ॥१६२॥

लाक्षाशोभाधरा लङ्का रत्नमासवधारिणी ।
लक्षजापसिद्धिकरी लक्षमन्त्रप्रकाशिनी ॥१६३॥

वशिनी वशकर्त्री च वश्यकर्मनिवासिनी ।
वेशावेश्या वेशवेश्या वंशिनी वंशवर्धिनी ॥१६४॥

वंशमाया वज्रशब्दमोहिनी शब्दरुपिणी ।
शिवा शिवमयी शिक्षा शशिचूडामणिप्रभा ॥१६५॥

शवयुग्मभीतिदा च शवयुग्मभयानका ।
शवस्था शववक्षस्था शाब्दबोधप्रकाशिनी ॥१६६॥

षट्‌पद्मभेदिनी षट्‌का षट्‌कोणयन्त्रमध्यगा ।
षट्‌चक्रसारदा सारा सारात्सारसरोरुहा ॥१६७॥

समनादिनिहन्त्री च सिद्धिदा संशयापहा ।
संसारपूजिता धन्या सप्तमण्डलसाक्षिणी ॥१६८॥

सुन्दरी सुन्दरप्रीता सुन्दरानन्दवर्धिनी ।
सुन्दरास्या सुनवस्त्री सौन्दर्यसिद्धिदायिनी ॥१६९॥

त्रिसुन्दरी सर्वरी च सर्वा त्रिपुरसुन्दरी ।
श्यामला सर्वमाता च सख्यभावप्रिया स्वरा ॥१७०॥

साक्षात्कारस्थिता साक्षात्साक्षिणी सर्वसाक्षिणी ।
हाकिनी शाकिनीमाता शाकिनी काकिनीप्रिया ॥१७१॥

हाकिनी लाकिनीमाता हाकिनी राकिणीप्रिया ।
हाकिनी डाकिनीमाता हरा कुण्डलिनी हया ॥१७२॥

हयस्था हयतेजः हसौंबीजप्रकाशिनी ।
लवणाम्बुस्थिता लक्षग्रन्थिभेदनकारिणी ॥१७३॥

लक्षकोटिभास्कराभा लक्षब्रह्माण्डकारिणी ।
क्षणदण्डपलाकारा क्षपाक्षोभविनाशिनी ॥१७४॥

क्षेत्रपालदिवटुकगणेशयोगिनीप्रिया ।
क्षयरोगहरा क्षौणी क्षालनस्थाक्षरप्रिया ॥१७५॥

क्षाद्यस्वरान्तसिद्धिस्था क्षादिकान्तप्रकाशिनी ।
क्षाराम्बुतिक्तनिकरा क्षितिदुःखविनाशिनी ॥१७६॥

क्षुन्निवृत्तिः क्षणज्ञानी वल्लभा क्षणभङ्‌गुरा
इत्येतत् कथितं नाथ हाकिन्याः कुलशेखर ॥१७७॥

सहस्त्रनामयोगाङुमष्टोत्तरशतान्वितम् ।
यः पठेन्नियतः श्रीमान् स योगी नात्र संशयः ॥१७८॥

फलश्रुतिकथनम्‍
अस्य स्मरणमात्रेण वीरो योगेश्वरो भवेत् ।
अस्यापि च फलं वक्त्तु कोटिवर्षशतैरपि ॥१७९॥

शक्यते नापि सहसा संक्षेपात् श्रृणु सप्फलम् ।
आयुरारोग्यमाप्नोति विश्वासं श्रीगुरोः पदैः ॥१८०॥

सारसिद्धिकरं पुण्यं पवित्रं पापनाशनम् ।
अत्यन्तदुःखदहनं सर्वसौभाग्यदायकम् ॥१८१॥

पठनात् सर्वदा योगसिद्धिमाप्नोति योगिराट्‌ ।
देहसिद्धिः काव्यसिद्धिर्ज्ञानसिद्धिर्भवेद्‍ ध्रुवम् ॥१८२॥

वाचां सिद्धिः खड्‌गसिद्धिह खेचरत्ववाप्नुयात् ।
त्रिलोक्यवल्लभो योगी सर्वकामार्थसिद्धिभाक्‍ ॥१८३॥

अप्रकाश्यं महारत्नं पठित्वा सिद्धिमाप्नुयात् ।
अस्य प्रपठनेनापि भ्रूपद्मे चित्तमर्पयन् ॥१८४॥

यशोभाग्यमवाप्नोतिराजराजेश्वरो भवेत् ।
डाकिनीनीसिद्धिमाप्नोति कुण्डलीवशमानयेत् ॥१८५॥

ध्यानात्मा साधककेन्द्रश्च यतिर्भूत्वा शुभे दिने ।
ध्यानं कुर्यात् पद्ममध्यकर्णिकायां शिखालये ॥१८६॥

भ्रूमध्ये चक्रसारे च ध्यात्वा ध्यात्वा पठेद्‍ यदि ।
राकिणीसिद्धिमाप्नोति देवतादर्शनं लभेत् ॥१८७॥

भाग्यसिद्धिमवाप्नोति नित्यं प्रपठनाद्यतः ।
साक्षात्सिद्धिमाप्नोति शक्तियुक्तः पठेद्यदि ॥१८८॥

हिरण्याक्षी लालिनीशा वशमाप्नोति धैर्यवान् ।
रात्रिशेषे समुत्थाय पठेद्‍ यदि शिवालये ॥१८९॥

पूजान्ते वा जपान्ते वा वारमेकं पठेद्यदि ।
वीरसिद्धिमवाप्नोति काकिनीवशमानयेत् ॥१९०॥

रात्रिं व्याप्य पठेद्यस्तु शुद्धचेता जितेन्दियः ।
शय्यायां चण्डिकागेहे मधुगेहेऽथवा पुनः ॥१९१॥

शाकिनीसिद्धिमाप्नोति सर्वदेशे च सर्वदा ।
प्रभाते च समुत्थाय शुद्धात्मा पञ्चमे दिने ॥१९२॥

अमावास्यासु विज्ञायां श्रवणायां विशेषतः ।
शुक्लपक्षे नवम्यां तु कृष्णपक्षेऽष्टमीदिने ॥१९३॥

भार्यायुक्तः पठेद्यस्तु वशमाप्नोति भूपतिम् ।
एकाकी निर्जने देशे कामजेता महाबली ॥१९४॥

प्रपठेद्‍ रात्रिशेषे च स भवेत् साधकोत्तमः ।
कल्पद्रुमसमो दाता देवजेता न संशयः ॥१९५॥

शिवशक्तिमध्यभागे यन्त्रं संस्थाप्य यत्नतः ।
प्रपठेत् साधकेन्द्रश्च सर्वज्ञाता स्थिराशयः ॥१९६॥

एकान्तनिर्जने रम्ये तपःसिद्धिफलोदये ।
देशे स्थित्वा पठेद्यस्तु जीवन्मुक्ति फलं लभेत् ॥१९७॥

अकालेऽपि सकालेऽपि पठित्वा सिद्धिमाप्नुयात् ।
त्रिकालं यस्तु पठति प्रान्तरे वा चतुष्पथे ॥१९८॥

योगिनीनां पतिः साक्षादायुर्वृद्धिर्दिन दिने ।
वारमेकं पठेद्यस्तु मूर्खो वा पण्डितोऽपि वा ॥१९९॥

वाचामीशो भवेत् क्षिप्रं योगयुक्तो भवेद्‍ ध्रुवम् ।
सम्भावितो भवेदेकं वारपाठेन भैरव ॥२००॥

जित्वा कालमहामृत्युं देवीभक्तिमवाप्नुयात् ।
पठित्वा वारमेकं तु यात्रां कुर्वन्ति ये जनाः ॥२०१॥

देवीदर्शनसिद्धिञ्च प्राप्तो योगमाप्नुयात् ।
प्रत्येकं नाममुच्चार्य यो यागमनुसञ्चरेत् ॥२०२॥

स भवेन्मम पुत्रो हि सर्वकामफलं लभेत् ।
सर्वयज्ञफलं ज्ञानसिद्धिमाप्नोति योगिराट्‌ ॥२०३॥

भूतले भूभृतांनाथो महासिद्धो महाकविः ।
कण्ठे शीर्षे दक्षभुजे पुरुषो धारयेद्यदि ॥२०४॥

योषिद्वामभुजे धृत्वा सर्वसिद्धिमवाप्नुयात् ।
गोरोचनाकुङ्‌कुमेन रक्तचन्दनकेन च ॥२०५॥

यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ।
आद्या देवी परप्राणसिद्धिमाप्नोति निश्चितम् ॥२०६॥

लिङु पीठे पूर्णिमायां कृष्णचतुर्दशीदिने ।
भौमवारे मध्यरात्रौ पठित्वा कामसिद्धिभाक्‍ ॥२०७॥

किं न सिद्धयति भूखण्डे अजरामर एव सः ।
रमणीकोटिभर्ता स्याद्‍ वर्षद्वादशपाठतः ॥२०८॥

अष्टवर्षप्राठेन कायप्रवेशसिद्धिभाक्‍ ।
शड्‌वर्षमात्रपाठेन कुबेरसदृशो धनी ॥२०९॥

वारैकमात्रपाठेन वर्षे वर्षे दिने दिने ।
स भवेत् पञ्चतत्त्वज्ञो तत्त्वज्ञानी न संशयः ॥२१०॥

सर्वपापविनिर्मुक्तो वसेत् कल्पत्रयं भुवि ।
यः पठेत् सप्तधा नाथ सप्ताहनि दिने दिने ॥२११॥

रात्रौ वारत्रयं धीमान् पठित्वा खेचरो भवेत् ।
अश्विनी शुक्लपक्षे च रोहिण्यसितपक्षके ॥२१२॥

अष्टम्यां हि नवम्यां तु पठेद्‍ वारत्रय्म निशि ।
दिवसे वारमेकं तु स भवेत् पञ्चतत्त्ववित् ॥२१३॥

अनायासेन देवेश पञ्चामरादिसिद्धिभाक्‍ ।
खेचरीमेलनं तस्य नित्यं भवति निश्चितम् ॥२१४॥

स्वर्गे मर्त्ये च पाताले क्षणान्निःसरति ध्रुवम‍ ।
अग्निस्तम्भं जलस्तम्भं वातस्तम्भं करोति सः ॥२१५॥

पञ्चतत्त्वक्रमेणैव श्मशाने यसु सम्पठेत् ।
स भवेद्‍ देवदेवेशः सिद्धान्तसारपण्डितः ॥२१६॥

शूकरासवसंयुक्तः कुलद्रव्येण वा पुनः ।
बिल्वमूले पीठमूले विधानेन प्रपूजयेत् ।
परेण परमा देवी तुष्टा भवति सिद्धिदा ॥२१७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‍दीपने सिद्धमन्त्रप्रकरण षट्‌चक्रप्रकाशे भैरवभैरवीसंवादे हाकिनीसहस्त्रनाम विन्यासो नाम षडशीतितमः पटलः ॥८६॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP