द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् ५

हाकिनीपरशिवपूजनम्


सिद्धपुरूषानाम्‍ नामानि
ततः सिद्धपुरुषाणां भावनं श्रृणु शङ्कर ।
मीननाथो गुरुः श्रीमान्‍ आगस्त्यो देवराजकः ॥१५७॥

कालाननः सोमराजो वीरनाथो धनञ्जयः ।
कृष्णः कान्तमतिर्बुद्धी धर्मावतार एव च ॥१५८॥

वशिष्ठो नारदश्चैव शुकः प्रहलाद एव च ।
जनको भार्गवेशश्च कुरुक्षेत्रेश्वस्तथा  ॥१५९॥

विश्वामित्रो भरद्वाजो मैनाको मेरुरेव च ।
अनन्तो योगनाथश्च महेन्द्रो मदिरेश्वरः ॥१६०॥

ब्रह्मानन्दशिवानन्दौ सनकानन्द एव च ।
सर्वेश्वरः कामदेवः शुक्राचार्यः कुलेश्वरः ॥१६१॥

इति सिद्धपुरुषाणां ध्यानं कृत्वा विभावयेत्‍ ।
रक्तवर्णं महसत्त्वं पुरुषं सर्वभूषणम्‍ ॥१६२॥

विभाव्य ध्यानमाकुर्याद्‍ हाकिनीपरदेवयोः ।
आदौ श्रीपरदेवस्य ध्यानं श्रृणु महेश्वर ॥१६३॥

शुक्लाभं परमेश्वर परशिवं सूक्ष्मातिसूक्ष्मं गुरुं
सर्वाऽलङ्‌कृतविग्रहं त्रिजगतां सारं परं निर्मलम्‍ ।
अद्वैतं दशहस्तपङ्कजतलं श्रीदं त्रिनेत्रं शिवं
देवेन्द्रैः परिपूजितं सुखमय्म सच्चित्परानन्ददम्‍ ॥१६४॥

ध्यायेत्‍ पञ्चमुखं महास्त्रवरदं भक्तैः सदा पूजितम्‍ ॥१६५॥

परदेवतापञ्चमुखशिवध्यानम्‍
एवं ध्यात्वा परनाथं मानसोग्रोपचारतः ।
पूजयित्वा नमस्कृत्य हाकिनीध्यानमाचरेत्‍ ॥१६६॥

त्रैलोक्योत्सववन्दितां त्रिजगतामानन्दपूर्णोदयां
नानाऽलङ्‌कृतभूषणां सुमुकुटोल्लासैकबीजप्रभाम्‍
श्यामां मोक्षदवेदहस्तकमलां कारुण्यवारानिधि
शोभामण्डलमण्डितां पथि भजे श्री हाकिनीमीश्वरीम्‍ ॥१६७॥

अस्याः सप्तकुलध्यानं पश्चाद्‍ वक्तव्यमेव च ।
महमुद्रादर्शनं तु चेदानीं श्रृणु भैरव ॥१६८॥

योनिमुद्रा महामुद्रा सर्वतन्त्रेषु गोपिता ।
तया चावाहनं कुर्यात्‍ साधको निश्चलात्मना ॥१६९॥

अर्घ्यद्वयं स्थापयित्वा पूर्वचक्र क्रमेण तु ।
पुनर्ध्यात्वा तयोः पादाम्भोजे दद्यात्‍ सदाशिवः ॥१७०॥

ऋषिध्यानम्‍
षोडशोपचारद्रव्यैस्ततः सम्पूजयेत्‍ सुधीः ।
ऋषिध्यानं प्रवक्ष्यामि यस्य मूघ्नि प्रविन्यसेत्‍ ॥१७१॥

मूर्तं सदाशिवं देवं नानालङ्कारभूषितम्‍ ।
द्विभुजं पीतवसनं धर्माधर्मप्रदर्शकम्‍ ॥१७२॥

वराभयकरं शान्तं हाकिनीशिरसि स्थितम्‍ ।
विभाव्य पूजयेत्‍ तत्र गन्धपुष्पादिभिः प्रभो ॥१७३॥

जीवसंस्कारकथनम्‍
जीवसंस्कारमावक्ष्ये येन जीवस्थितिर्भवेत्‍ ।
स्वह्रदये दक्षहस्ते तत्र मुद्राक्रमेण तु ॥१७४॥

हाकिनीपरदेवस्य मन्त्रं स्मृत्वा पुनः पुनः ।
स्थापयामि स्वचित्तं मे हाकिन्या सह सम्पदैः ॥१७५॥

स्थिरो भव महाजीव ममाज्ञां परिपालय ।
स्वाहान्तं मन्त्रमुच्चार्य जीवं संस्कारयेत्‍ ततः ॥१७६॥

जीवदानतो वक्ष्येः हाकिनीपरदेवयोः ।
आदौ श्रीहाकिनीदेव्या जीवदानं श्रृणु प्रभो ॥१७७॥

आं ह्रीं क्रा. बीजमुच्चार्य पूर्ववज्जीवसंस्थितिम्‍ ।
एकाविंशातिवारं तु हाकिनीह्रदये जपेत्‍ ॥१७८॥

स्वाहान्तेनापि मनुना जीवसंस्कार ईरितः ।
एवं श्रीपरदेवस्य प्राणदानमुदाह्रतम्‍ ॥१७९॥

पुनर्ध्यानं प्रवक्ष्यामि श्रृणु भैरव बल्लभ ।
यां ध्यात्वा सर्वग्रन्थीना स्वयं भेत्ता स्वयं हरिः ॥१८०॥

अर्घ्यविन्यासयुगलं श्रृणु भद्रोदर प्रभो ॥१८१॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP