अथैकोनसप्ततितमः पटलः - श्रीभुवनमङुल महास्तोत्र

शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः


ॐ शाकिनी पीतवस्त्रा सदाशिव उमापतिः ।
शाकम्भरी महादेवी भवानी भुवनप्रियः ॥१३॥

योगिनी योगधर्मात्मो योगात्मा श्रीसदाशिवः ।
युगाद्या युगधर्मा च योगविद्या सुयोगिराट्‌ ॥१४॥

योगिनी योगजेताख्यः सुयोग योगशङ्करः ।
योगप्रिया योगविद्वान् योगदा योगषड्‌भुवि ॥१५॥

त्रियोगा जगदीशात्मा जापिका जपसिद्धिदः ।
यत्नी यत्नप्रियानन्दो विधिज्ञा वेदसारवित् ॥१६॥

सुप्रतिष्ठा शुभकरो मदिरा मदनप्रियः ।
मधुविद्या माधवीशः क्षितिः क्षोभविनाशनः ॥१७॥

वीतिज्ञा मन्मथघ्नश्च चमरी चारुलोचनः ।
एकान्तरा कल्पतरुः क्षमाबुद्धो रमासवः ॥१८॥

वसुन्धरा वामदेवः श्रीविद्या मन्दरस्थितः ।
अकलङ्का निरातङ्क उतङ्का शङ्कराश्रयः ॥१९॥

निराकारा निर्विकल्पो रसदा रसिकाश्रयः ।
रामा रामननाथश्च लक्ष्मी नीलेषुलोचनः ॥२०॥

विद्याधरी धरानन्दः कनका काञ्चनाङुधृक् ।
शुभा शुभकरोन्मत्तः प्रचण्डा चण्डविक्रमः ॥२१॥

सुशीला देवजनकः काकिनी कमलाननः ।
कज्जलाभा कृष्णदेहः शूलिनी खड्‌गचर्मधृक् ॥२२॥

गतिग्राह्यः प्रभागौरः क्षमा क्षुब्धः शिवा शिवः ।
जवा यतिः परा हरिर्हराहरोऽक्षराक्षरः ॥२३॥

सनातनी सनातनः श्मशानवासिनीपतिः ।
जयाक्षयो धराचरः समागतिः प्रमापतिः ॥२४॥

कुलाकुलो मलाननो वलीवला मलामलः ।
प्रभाधरः परापरः सरासरः कराकरः ॥२५॥

मयामयः पयापयः पलापलो दयादयः ।
भयाभयो जयाजयो गयागयः फलान्वयः ॥२६॥

समागमो धमाधमो रमारमो वमावमः ।
वराङुणा धराधरः प्रभाकरो भ्रमाभ्रमः ॥२७॥

सती सुखी सुलक्षणा कृपाकरो दयानिधिः ।
धरापतिः प्रियपतिर्विरागिणी मनोन्मनः ॥२८॥

प्रधाविनी सदाचलः प्रचञ्चलातिचञ्चलः ।
कटुप्रिया महाकटुः पटुप्रिया महापटुः ॥२९॥

धनावली गणागणी खराखरः फणिः क्षणः ।
प्रियान्विता शिरोमणिस्तु शाकिनी सदाशिवः ॥३०॥

रुणारुणो घनाघनो हयी हयो लयी लयः ।
सुदन्तरा सुदागमः खलापहा महाशयः ॥३१॥

चलत्कुचा जवावृतो घनान्तरा स्वरान्तकः ।
प्रचण्डघर्घरध्वनिः प्रिया प्रतापवहिनगः ॥३२॥

प्रशान्तिरुन्दुरुस्थिता महेश्वरी महेश्वरः ।
महाशिवाविनी घनी रणेश्वरी रणेश्वरः ॥३३॥

प्रतापिनी प्रतापनः प्रमाणिका प्रमाणवित् ।
विशुद्धवासिनी मुनिर्विशुद्धविन्मधूत्तमा ॥३४॥

तिलोत्तमा महोत्तमः सदामया दयामयः ।
विकारतारिणी तरुः सुरासुरोऽमरागुरुः ॥३५॥

प्रकाशिका प्रकाशकः प्रचण्डिका विभाण्डकः ।
त्रिशूलिनी गदाधरः प्रवालिका महाबलः ॥३६॥

क्रियावती जरापतिः प्रभाम्बरा दिगम्बरः ।
कुलाम्बरा मृगाम्बरा निरन्तरा जरान्तरः ॥३७॥

श्मशाननिलया शम्भुर्भवानी भीमलोचनः ।
कृतान्तहारिणीकान्तः कुपिता कामनाशन्ह ॥३८॥

चतुर्भुजा पद्मनेत्रो दशहस्ता महागुरुः ।
दशानना दशग्रीवः क्षित्पाक्षी क्षेपनप्रियः ॥३९॥

वाराणसी पीठवासी काशी विश्वगुरुप्रियः ।
कपालिनी महाकालः कालिका कलिपावनः ॥४०॥

रन्ध्रवर्त्मस्थिता वाग्मी रती रामगुरुप्रभुः ।
सुलक्ष्मीः प्रान्तरस्थश्च योगिकन्या कृतान्तकः ॥४१॥

सुरान्तका पुण्यदाता तारिणी तरुणप्रियः ।
महाभयतरा तारास्तारिका तारकाप्रभुः ॥४२॥

तारकब्रह्मजननी महादृप्तः भवाग्रजः ।
लिङुगम्या लिङुरुपी चण्डिका वृषवाहनः ॥४३॥

रुद्राणी रुद्रदेवश्च कामजा काममन्थनः ।
विजातीया जातितातो विधात्री धातृपोषकः ॥४४॥

निराकारा महाकाशः सुप्रविद्या विभावसुः ।
वासुकी पतितत्राता त्रिवेणी तत्त्वदर्शकः ॥४५॥

पताका पद्मवासी च त्रिवार्ता कीर्तिवर्धनः ।
धरणी धारणव्याप्तो विमलानन्दवर्धनः ॥४६॥

विप्रचित्ता कुण्डकारी विरजा कालकम्पनः ।
सूक्ष्माधारा अतिज्ञानी मन्त्रसिद्धिः प्रमाणगः ॥४७॥

वाच्या वारणतुण्डश्च कमला कृष्णसेवकः ।
दुन्दुभिस्था वाद्यभाण्डो नीलाङो वारणाश्रयः ॥४८॥

वसन्ताद्या शीतरश्मिः प्रमाद्या शक्तिवल्लभः ।
खडि‌गना चक्र्कुन्ताढ्यः शिशिराल्पधनप्रियः ॥४९॥

दुर्वाच्या मन्त्रनिलयः खण्डकाली कुलाश्रयः ।
वानरी हस्तिहाराद्यः प्रणया लिङुपूजकः ॥५०॥

मानुषी मनुरुपश्च नीलवर्णा विधुप्रभः ।
अधश्चन्द्रधरा कालः कमला दीर्घकेशधृक् ॥५१॥

दीर्घकेशी विश्वकेशी त्रिवर्गा खण्डनिर्णयः ।
गृहिणी ग्रहहर्ता च ग्रहपीडा ग्रहक्षयः ॥५२॥

पुष्पगन्धा वारिचरः क्रोधादेवी दिवाकरः ।
अञ्जना क्रूरहर्ता च केवला कातरप्रियः ॥५३॥

पद्मामयी पापहर्ता विद्याद्या शैलमर्दकः ।
कृष्णजिहवा रक्तमुखो भुवनेशी परात्परः ॥५४॥

वदरी मूलसम्पर्कः क्षेत्रपाला बलानलः ।
पितृभूमिस्थिताचार्यो विषया बादरायणिः ॥५॥

पुरोगामा पुरोगामी वीरगा रुपुनाशकः ।
महामाया महान्मायो वरदः कामदान्तकः ॥५६॥

पशुलक्ष्मीः पशुपतिः पञ्चशक्तिः क्षपान्तकः ।
व्यापिका विजयाच्छन्नो विजातीया वराननः ॥५७॥

कटुमूर्तिः शाकमूर्तिस्त्रिपुरा पद्मगर्भजः ।
अजाब्या जारकः प्रक्ष्या वातुलः क्षेत्रबान्धवा ॥५८॥

अनन्तान्तरुपस्थो लावण्यस्था प्रसञ्चयः ।
योगेज्ञो ज्ञानचक्रेशो बभ्रमा भ्रमणस्थितः ॥५९॥

शिशुपाला भूतनाथो भूतकृत्या कुटुम्बपः ।
तृप्ताश्वत्थो वरारोहा वटुकः प्रोटिकावशः ॥६०॥

श्रद्धा श्रद्धन्वितः पुष्टिः पुष्टो रुष्टाष्टमाधवा ।
मिलिता मेलनः पृथ्वी तत्त्वज्ञानी चरुप्रिया ॥६१॥

अलब्धा भयहानत्या दशनः प्राप्तमानसा ।
जीवनी परमानन्दो विद्याढ्या धर्मकर्मजः ॥६२॥

अपवादरताकाङ्‌क्षी विल्वानाभद्रकम्बलः ।
शिविवाराहनोन्मत्तो विशालाक्षी परन्तपः ॥६३॥

गोपनीया सुगोप्ता च पार्वती परमेश्वरः ।
श्रीमातङी त्रिपीठस्थो विकारी ध्याननिर्मलः ॥६४॥

चातुरी चतुरानन्दः पुत्रिणी सुतवत्सलः ।
वामनी विषयानन्दः किङ्करी क्रोधजीवनः ॥६५॥

चन्द्रानना प्रियानन्दः कुशला केतकीप्रियः ।
प्रचला तारकज्ञानी त्रिकर्मा नर्मदापतिः ॥६६॥

कपाटस्था कलापस्थो विद्याज्ञा वर्धमानगः ।
त्रिकूटा त्रिविधानन्दो नन्दना नन्दनप्रियः ॥६७॥

विचिकित्सा समाप्ताङो मन्त्रज्ञा मनुवर्धनः ।
मन्निका चाम्बिकानाथो विवाशी वंशवर्धनः ॥६८॥

वज्रजिहवा वज्रदन्तो विक्रिया क्षेत्रपालनः ।
विकारणी पार्वतीशः प्रियाङी पञ्चचामरः ॥६९॥

आंशिका वामदेवाद्यां विमायाढ्या परापरः ।
पायाङी परमैश्वर्या दाता भोक्त्री दिवाकरः ॥७०॥

कामदात्री विचित्राक्षो रिपुरक्षा क्षपान्तकृत् ।
घोरमुखी घर्घराख्यो विलज्वा ज्वालिनीपतिः ॥७१॥

ज्वालामुखी धर्मकर्ता श्रीकर्त्री कारणात्मकः ।
मुण्डाली पञ्चचूडाश्च त्रिशावर्णा स्थिताग्रजः ॥७२॥

विरुपाक्षी बृहद्गर्भो राकिनी श्रीपितामहः ।
वैष्णवी विष्णुभक्तश्च डाकिनी डिण्डिमप्रियः ॥७३॥

रतिविद्या रामनाथो राधिका विष्णुलक्षणः ।
चतुर्भुजा वेदहस्तो लाकिनी मीनकुन्तलः ॥७४॥

मूर्धजा लाङुलीदेवः स्थविरा जीर्णविग्रहः ।
लालिनीशा लाकिनीशः प्रियाख्या चारुवाहनः ॥७५॥

जटिला त्रिजटाधारी चतुराङी चराचरः ।
त्रिश्रोता पार्वंतीनाथो भुवनेशी नरेश्वरः ॥७६॥

पिनाकिनी पिनाकी च चन्द्रचूडा विचारवित् ।
जाड्यहन्त्री जडात्मा च जिहवायुक्तो जरामरः ॥७७॥

अनाहताख्या राजेन्द्रः काकिनी सात्त्विकस्थितः ।
मरुन्मूर्तिः पद्महस्तो विशुद्धा शुद्धवाहनः ॥७८॥

वृषली वृषापृष्ठस्थो विभोगा भोगवर्धनः ।
यौवनस्था युवासाक्षी लोकाद्या लोकसाक्षिणी ॥७९॥

बगला चन्द्रचूडाख्यो भैरवी मत्तभैरवः ।
क्रोधधिपा वज्रधारी इन्द्राणी वहिनवल्लभः ॥८०॥

निर्विकारा सूत्रधारी मत्तपाना दिवाश्रयः ।
शब्दगर्भा शब्दमयो वासवा वासवानुजः ॥८१॥

दिकपाला ग्रहनाश्च ईशानी नरवाहनः ।
यक्षिणीशा भूतिनीशो विभूतिर्भूतिवर्धनः ॥८२॥

जयावती कालकारी कल्क्यविद्या विधानवित् ।
लज्जातीता लक्षणाङो विषपायी मदाश्रयः ॥८३॥

विदेशिनी विदेशस्थोऽपापा पापवर्जितः ।
अतिक्षोभा कलातीतो निरिन्द्रिगणोदया ॥८४॥

वाचालो वचनग्रन्थिमन्दरो वेदमन्दिरा ।
पञ्चमः पञ्चमीदुर्गो दुर्गा दुर्गतिनाशनः ॥८५॥

दुर्गन्धा गन्धराजश्च सुगन्धा गन्धचालनः ।
चार्वङ्व्व चर्वणप्रीतो विशङ्का मरलारवित् ॥८६॥

अतिथिस्था स्थावराद्या जपस्था जपमालिनी ।
वसुन्धरसुता तार्क्षी ताकिर्कः प्राणतार्किकः ॥८७॥

तालवृक्षावृतोन्नासा तालजाया जटाधरः ।
जटिलेशी जटाधारी सप्तमीशः प्रसप्तमी ॥८८॥

अष्टमीवेशकृत् काली सर्वः सर्वेश्वरीशरः ।
शत्रुहन्त्री नित्यमन्त्री तरुणी तारकाश्रयः ॥८९॥

धर्मगुप्तिः सारगुप्तो मनोयोगा विषापहः ।
वज्रावीरः सुरासौरी चन्द्रिका चन्द्रशेखरः ॥९०॥

विटपीन्द्रा वटस्थानी भद्रपालः कुलेश्वरः ।
चातकाद्या चन्द्रदेहः प्रियाभार्या मनोयवः ॥९१॥

तीर्थपुण्या तीर्थयोगी जलजा जलशायकः।
भूतेश्वरप्रियाभूतो भगमाला भगाननः ॥९२॥

भगिनी भगवान् भोग्या भवती भीमलोचनः ।
भृगुपुत्री भार्गवेशः प्रलयालयकारणः ॥९३॥

रुद्राणी रुदगणपो रौद्राक्षी क्षीणवाहनः ।
कुम्भान्तका निकुम्भारिः कुम्भान्ती कुम्भिनीरगः ॥९४॥

कूष्माण्डी धनरत्नाढ्यो महोग्राग्राहकः शुभा ।
शिविरस्था शिवानन्दः शवासनकृतासनी ॥९५॥

प्रसंशा समनः प्राज्ञा विभाव्या भव्यलोचनः ।
कुरुविद्या कौरवंशः कुलकन्या मृणालधृक् ॥९६॥

द्विदलस्था परानन्दो नन्दिसेव्या बृहन्नला ।
व्याससेव्या व्यासपूज्यो धरनी धीरलोचनः ॥९७॥

त्रिविधारण्या तुलाकोटिः कार्पासा खार्पराङुधृक् ।
वशिष्ठाराधिताविष्टो वशगा वशजीवनः ॥९८॥

खड्‌गहस्ता खड्‌गधारी शूलहस्ता विभाकरः ।
अतुला तुलनाहीनो विविधा ध्याननिर्णयः ॥९९॥

अप्रकाश्या विशोध्यश्च चामुण्डा चण्डवाहनः ।
गिरिजा गायनोन्मत्तो मलामाली चलाधमः ॥१००॥

पिङुदेहा पिङुकेशोऽसमर्था शीलवाहनः ।
गारुडी गरुडनन्दो विशोका वंशवर्धनः ॥१०१॥

वेणीन्द्रा चातकप्रायो विद्याद्या दोषमर्दकः ।
अट्टहासा अट्टहासो मधुभक्षा मधुव्रतः ॥१०२॥

मधुरानन्दसम्पन्ना माधवो मधुनाशिका ।
माकरी मकरप्रेमो माघस्था मघवाहनः ॥१०३॥

विशाखा सुसखा सूक्ष्मा ज्येष्ठो ज्येष्ठजनप्रिया ।
आषाढनिलयाषाढो मिथिला मैथिलीश्वरः ॥१०४॥

शीतशैत्यगतो वाणी विमलालक्षणेश्वरः ।
अकार्यकार्यजनको भद्रा भाद्रपदीयकः ॥१०५॥

प्रवरा वरहंसाख्य पवशोभा पुराणावित् ।
श्रावणी हरिनाथश्च श्रवणा श्रवणाङ्‌कुरः ॥१०६॥

सुकर्त्री साधकध्यक्षो विशोध्या शुद्धभावनः ।
एकशेषा शशिधरो धरान्तः स्थावराधरः ॥१०७॥

धर्मपुत्रो धर्ममात्रो विजया जयदायकः ।
दासरक्षदि विदशकलापो विधवापतिः ॥१०८॥

विधवाधवलो धूर्तः धूर्ताढ्यो धूर्तपालिका ।
शङ्करः कामगामी च देवला देवमायिका ॥१०९॥

विनाशो मन्दराच्छन्ना मन्दरस्थो महाद्वया ।
अतिपुत्री त्रिमुण्डी च मुण्डमाला त्रिचण्डिका ॥११०॥

कर्कटीशः कोटरश्च सिहिंका सिंहवाहनः ।
नारसिंही नृसिंहश्च नर्मदा जाहनवीपतिः ॥१११॥

त्रिविधस्त्री त्रिसर्गास्त्रो दिगम्बरो दिगम्बरी ।
मुञ्चानो मञ्चभेदी च मालञ्चा चञ्चलाग्रजः ॥११२॥

कटुतुङीः विकाशात्मा ऋद्धिस्पष्टक्षरोऽन्तरा ।
विरिञ्चः प्रभवानन्दो नन्दिनी मन्दरद्रिधृक् ॥११३॥

कालिकाभा काञ्चनाभो मदिराद्या मदोदयः ।
द्रविडस्था दाडिमस्थो मज्जातीता मरुद्गतिः ॥११४॥

क्षान्तिप्रज्ञो विधिप्रज्ञा वीतिज्ञोत्सुकनिश्चया ।
अभावो मलिनाकारा कारागारा विचारहा ॥११५॥

शब्दः कटाभेदात्मा शिशुलोकप्रपालिका ।
अतिविस्तारवदनो विभवानन्दमानसा ॥११६॥

आकाशवसनोन्मादी मेपुरा मांसचर्वणः ।
अतिकान्ता प्रशान्तात्मा नित्यगुह्या गभीरगः ॥११७॥

त्रिगम्भीरा तत्त्ववासी राक्ष्सी पूतनाक्षरः ।
अभोगगणिका हस्ती गणेशजननीश्वरः ॥११८॥

कुण्डपालककर्ता च त्रिरुण्डा रुण्डभालधृक् ।  
अतिशक्ता विशक्तात्मा देव्याङी नन्दनाश्रयः ॥११९॥

भावनीया भ्रान्तिहरः कापिलाभा मनोहरः ।
आर्यादेवी नीलवर्णा सायको बलवीर्यदा ॥१२०॥

सुखदो मोक्षदाताऽतो जननी वाञ्छितप्रदः ।
चातिरुपा विरुपस्थो वाच्या वाच्यविवर्जिः ॥१२१॥

महालिङुसमुत्पन्ना काकभेरी नदस्थितः ।
आत्मारामकलाकायः सिद्धिदाता गणेश्वरी ॥१२२॥

कल्पद्रुमः कल्पलता कुलवृक्षः कुलद्रुमा ।
सुमना श्रीगुरुमयी गुरुमन्त्रप्रदायकः ॥१२३॥

अनन्तशयनाऽनन्तो जलेशी जहनजेश्वरः ।
गङा गङाधरः श्रीदा भास्करेशो महाबला ॥१२४॥

गुप्ताक्षरो विधिरता विधानपुरुषेश्वरः ।
सिद्धकलङ्का कुण्डाली वाग्देवः पञ्चदेवता ॥१२५॥

अल्पातीता मनोहारी त्रिविधा तत्त्वलोचना ।
अमायापतिर्भूभ्रान्तिः पाञ्चजन्यधरोऽग्रजा ॥१२६॥

अतितप्तः कामतप्ता मायामोहविवर्जितः ।
आर्या पुत्रीश्वरः स्थाणुः कृशानुस्था जलाप्लृतः ॥१२७॥

वारुणी मदिरामत्तो मांसप्रेमदिगम्बरा ।
अन्तरस्थो देहसिद्धा कलानलसुराद्रिपः ॥१२८॥

आकाशवाहिनी देवः काकिनीशो दिगम्बरी ।
काकचञ्चपुटमधुहरो गगनमाब्धिपा ॥१२९॥

मुद्राहारी महामुद्रा मीनपो मीनभक्षिणी ।
शाकिनी शिवनाथेशः काकोर्धेशी सदाशिवः ॥१३०॥

कमला कण्ठकमलः स्थायुकः प्रेमनायिका ।
मृणालमालाधारी च मृणालमालमालिनी ॥१३१॥

अनादिनिधना तारा दुर्गतारा निराक्षरा ।
सर्वाक्षरा सर्ववर्णा सर्वमन्त्राक्षमालिका ॥१३२॥

आनन्दभैरवो नीलकण्ठो ब्रह्माण्डमण्डितः ।
शिवो विश्वेशरोऽनन्तः सर्वातीतो निरञ्जनः ।१३३॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP