अथैकोनसप्ततितमः पटलः - शाकिनीसदाशिवस्तवनम

शाकिणीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्त्रनामविन्यासः


श्रीआनन्दभैरवी उवाच
कैलासशिखरारुढ पञ्चवक्त्र त्रिलोचन ।
अभेद्यभेदकप्राणवल्लभ श्रीसदाशिव ॥१॥

भवप्राणप्ररक्षाय कालकूटहराय च ।
प्रत्याङिरापादुकाय दान्तं शब्दमयं प्रियम् ॥२॥

इच्छामि रक्षणार्थाय भक्तानां योगिनां सताम् ।
अवश्यं कथयाम्यत्र सर्वमङुललक्षणम् ॥३॥

शाकिनीसदाशिवस्तवनम‍
मङुलाष्टोत्तरसहस्त्रनामविन्यासः
अष्टोत्तरसहस्त्राख्यं सदाशिवसमन्वितम् ।
महाप्रभावजननं दमनं दुष्टचेतसाम् ॥४॥

सर्वरक्षाकरं लोके कण्ठपद्मप्रसिद्धये ।
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥५॥

योगसिद्धिकरं साक्षाद् अमृतानन्दकारकम् ।
विषज्वालदिहरणं मन्त्रसिद्धिकरं परम् ॥६॥

नाम्नां स्मरणमात्रेण योगिनां वल्लभो भवेत् ।
सदाशिवयुतां देवीं सम्पूज्य संस्मरेद् यदि ॥७॥  

मासान्ते सिद्धिमाप्नोति खेचरीमेलनं भवेत् ।
आकाशगामिनीसिद्धिः पठित्वा लभ्यते ध्रुवम् ॥८॥

धनं रत्नं क्रियासिद्धिं विभूतिसिद्धिमालभेत् ।
पठनाद् धारणाद्योगी महादेवः सदाशिवः ॥९॥

विष्णुश्चक्रधरः साक्षाद् ब्रह्मा नित्यं तपोधनः ।
योगिनः सर्वदेवाश्च मुनयश्चापि योगिनः ॥१०॥

सिद्धाः सर्वे सञ्चरन्ति धृत्वा च पठनाद् यतः ।
ये ये पठन्ति नित्यं तु ते सिद्धा विष्णुसम्भवाः ॥११॥

किमन्यत् कथनेनापि भुक्तिं मुक्तिं क्षणाल्लभेत् ॥१२॥

विनियोगकथनम्
अस्य श्रीभुवनमङुलमहास्तोत्राष्टोत्तरसहस्त्रनाम्नः सदाशिवऋषिर्गायत्रीच्छन्दः
सदाशिवशाकिनीदेवता पुरुषार्थाष्टसिद्धिसमययोगसमृद्धये विनियोगः

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP