श्रीआनन्दभैरव उवाच
त्रैलोक्यरक्षणार्थाय पूजयामि तवानघे ।
संसारविलयार्थाय तव श्रीचरनाम्बुजम् ॥१॥

विशुद्धवर्णध्यानकथनम्
महादेवि जगद्धात्रि परमानन्दवर्धिनि ।
भवानि भैरवि प्राणे वर्णध्यानं वदामलम् ॥२॥

श्रीआनन्दभैरवी उवाच
अथ कामेश गौराङु धर्माधर्मप्रदर्शक ।
इदानीं श्रृणु सर्वज्ञ महाज्ञाननिरुपणम् ॥३॥

वर्णध्यानं तव स्नेहात् कथये मम रुपकम् ।
अकस्मात् सिद्धिदं ध्यानं ज्ञानमात्रेण सिद्धयति ॥४॥

अकारं ध्यायेऽहं हरिहरचतुर्वक्त्रविबुधैः
सदा ध्येयं शुक्लं विधुमुखिवधुश्रीश्रुतिभुजम् ।
विधेयं कौमारं त्रिनयनमलङ्कारजडितं
कपालाब्जास्त्राहिमहितशितांशुप्रभकरम् ॥५॥अं

आं बीजाढ्यां प्रभासां कनकघटमधुप्रीतिमानां विमानां
शुक्लच्छायां वहन्ती श्रुतिभुजसहितां पद्मनालाख्यमालाम् ।
खड्‌गं तां धारयन्तीं मुकुटमणिरुचिं क्रोधमाकाशदेशं
नानालङ्कारदीप्तिं हिमकरकपिलावाहनीं भावयामि ॥६॥आं

इं मायां भुवनस्थितां वधुयुतां श्रीषोडशीसंयुतां
मायालक्षणलक्षितां त्रिजगतां विद्याभयश्रीपदाम् ।
हस्ताम्भोजचतुष्टयां त्रिनयनां शूलासिमालाम्बुजां
नानार्त्नजनूपुरां सुरनतां ध्याये विशुद्धाम्बुजे ॥७॥इं

कोट्यर्काभासमानां कनकयमहालङ्‌कृतां ध्यानगम्यां
ईकाराकारमूर्तिं त्रिनयनकमलां वेदहास्योज्ज्वलाङीम् ।
शङखाम्भोजासिघण्टासहिततनुवरां देवसिंहासनस्थां
वेदस्थां वेदसिद्धां रुधिरशितयुतां बाललीलां भजामि ॥८॥ईं

उकारं ब्रह्माम त्रिमुनिसहितं काञ्चनरसं
हयं हंसारुढं इवरसनयुत्म मन्दिराजालवाद्यम् ।
विशालं वेदास्यं शतरविसुवर्णं त्रिनयनं
जताकुण्डाहलादं तरुणपुरुषं नौमि सततम् ॥९॥उं

ऊंकारं सर्वरुपं विधुशतजटितं काञ्चनाभं त्रिसर्गं
मन्दारैर्मानसाप्तं प्रचघनरसं शुद्धसूत्राक्षमालम् ।
हस्तौ द्वौ संवहन्तं फणिगणललनामालयानन्दरुपं
सिद्धानामिष्टसिद्धिं कुलकमलघनं भावये षोडशारे ॥१०॥ऊं

ऋंकारं सप्तरेखासहितविमलया मालया शोभिताङुं
मायाविस्थं प्रसन्नाननकमलवरं वारनाकारदेहम् ।
पुण्य़ं यज्ञादिसिद्धं मदनशशिकलामादनं षड्‌भुजाढ्यं
घण्टाचार्वस्त्रखड्‌गाममलकमलकपालाङुमेकं भजामि ॥११॥ऋं

ऋं बीजं चातिथीशं शितकमलमुखं शुक्लवर्णं त्रिनेत्रं
मायालक्ष्मीस्वरान्तं तरुणरविकरं षड्‌भुजं नीलवस्त्रम् ।
नानालङारशोभातरमुकुटतटं चन्द्रबिम्बस्वभावं
खड्‌गाब्जज्ञानमुद्रामधुधर-सुगदा पाशपाणिं भजामि ॥१२॥ऋं

लृंकारं स्थाणुकेशं त्रिनयनवदनाम्भोजतेजः प्रकाशं
पूर्णात्मानं परेशं त्रिगुणघनमयं नीलवर्णं त्रिभावम् ।
षड्‌बाहुं पिङुकेशामलगलितशिरोमण्डलं मालयाढ्यं
वेदासिज्ञानमालाम्बुजवरगदया शोभितं भावयामि ॥१३॥लृं

लृंकार शितवसनयुक्शुक्लकिरणं
सुधामग्नं ध्याये हरिणनयनं वेदभुजगम् ।
भुजङाम्भोजासिप्रियवरदभावं शुभकरं
करालं भूपालं सुरमुनिगणैः सेव्यमनिशम् ॥१४॥लृं

एंबीजं कालवर्ण शतयुवतिगतं वेष्टितं देवमुख्यैः
सूर्याभं बिन्दुसर्गं भुजयुगसहितं पद्मभालं करालम् ।
सालङ्करं किरीट त्रिनयनममरं नूपुरेन्द्रुप्रकाशं
झिण्टीशं शम्बरीशं प्रमथसुतगणैर्व्यापितं भावयामि ॥१५॥एं

शुक्लाभं व भवार्णं त्रिवलितनयनं शुद्धबन्धूकवस्त्रं
रत्नालङ्कारहारं त्रिभुवनवचनं षड्‌भुजं बीजसारम् ।
ध्यायेऽहं षोडशारे त्रिमदनरमणे भावितं पञ्चरश्मिं
योगाद्यं भौतिकेशं गगनपथकरं वहिनजायास्वरान्तम् ॥१६॥ऐं

भजे प्रणवलक्षणं शितकरं चलत्कुण्डलं
चतुर्भुजविभाकरं कमलशङ्खशूलाभयम् ।
अलङ्‌कृतकलेवरं विमलपीतवस्त्रं मुखं
शुक्लांशुशतवेष्टितं मुकुटनूपुराढ्यं परम् ॥१७॥ओं

ध्याये चानुग्रहेशं प्रणववधवल औङ्काररुपं सुसूक्ष्मं
ब्रह्माद्वारप्रभेदं श्रुतिभुजललितं खड्‌गबाणास्त्रमालम् ।
जन्तूनां कोटिकान्तिं शतरविमुकुटं क्रोधराजं महेशं
रत्नालङ्कारशोभं चरलतलरिभामण्डलं सारुणाभम् ॥१८॥औं

अङ्कारं बिन्दुभावं ललितदशभुजं व्याघ्रचर्माम्बराढ्यं
पञ्चास्यं तं त्रिनेत्रं स्वकणकवलयं चन्द्रकोटिप्रकाशम् ।
शूलास्त्रासीषु चक्रप्रतनफलगदाखेटकाम्भोजमालं
ध्याये चाक्रूरदेवं परशुखरपदं सारदं स्थूलसूक्ष्मम् ॥१९॥अं

अःकारं श्रीविसर्गं कमलदलगतं दीनदातारमेकं
शुक्लाभं कोटिसूर्यं शतभुजललितं वेदविद्यास्त्रखड्‌गम् ।
सर्वाङारक्तधारं त्रिनयकमलानन्दितं मन्दहास्यं
पञ्चाशद्वक्त्रशोभाभवतनुकिरणं कारणं भावयामि ॥२०॥अः

एवं ध्यात्वा षोडशारे स्थिरचेताः प्रपूजयेत् ।
वर्णरुपं शक्तियुतं लोकनाथं लोकनाथं सदाशिवम् ॥२१॥

तदा प्रसन्ना बुद्धिः स्यादमरो जायतेऽचिरात् ।
खेचरत्वं वाक्यसिद्धिं जलस्तम्भादिसिद्धिभाक् ॥२२॥

पूर्वादिवामतो ध्यायेत कामनाभयवर्जितः ।
गुप्तस्थाने ध्यानकार्यं यत्र विद्याः स्फुरन्ति ताः ॥२३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे विशुद्धवर्णध्यानं नाम अष्टषष्टितमः पटलः ॥६८॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP