पीठपूजनम्
ध्यात्वा तद्गतमध्ये तु पीठचक्रं प्रपूजयेत् ।
मूलाधारे कामरुपं कामचक्रं त्रिलक्षणम् ॥८२॥

पीठाय नम उच्चार्य चाद्यतारकमुच्चरेत् ।
ह्रदि जालन्धरं पीठं सिद्धपीठं त्रिचक्रकम् ॥८३॥

ललाटे पूर्णगिर्याख्य हिङ‌गुलादं सुपीठकम् ।
उड्डियानं तदूर्ध्व तु मेघकुञ्जं स्वपीठकम् ॥८४॥

महापीठं भ्रुवोर्मध्ये वाराणसीञ्च लिङुकम् ।
लोचनत्रयमध्ये तु ज्वलन्तीसिद्धपीठकम् ॥८५॥

ज्वालामुखी त्रिवेणी च पीठत्रयमुदाह्रतम् ।
त्रिलोचने त्रिपीठं मे अवश्यं परिपूजयेत् ॥८६॥

मुखाम्बुजे पूजयेद् वै मायारतिं सुभद्रिकाम् ।
कम्पिल्लनगरं वंशनगर कामभञ्जनम् ॥८७॥

हिरण्यनगर तत्र एकदन्तारसायनाम् ।
कपालपीठं ताल्वाख्यं फणिपीठं मुखे यजेत् ॥८८॥

कण्ठे मधुपुरीपीठं सुधापीठं तदन्तिके ।
आहलादपीठं श्रीपीठं शून्यपीठं प्रियाञ्जलम् ॥८९॥

पुरञ्जनाख्यं भद्राख्यं कण्ठे अम्भपुरी मम ।
नाभौ महापीठराजमयोध्याभवपीठकम् ॥९०॥

लक्ष्मीपीठं ब्रह्मपीठं लाङुलीपीठमेव च ।
मानपीठं ज्ञानपीठं रुद्रपीठं तदन्तिके ॥९१॥

लाकिनी कुलपापीठं वलाकापीठमेव च ।
रौद्रपभामहापीठं म्लेच्छवासिसुपीठकम् ॥९२॥

मक्कासिद्धकरीपीठं निरञ्जनस्वपीठकम्
ब्राह्मीपीठं दत्तपीठभयापीठमेव च ॥९३॥

रंगिणीपीठमेवं हि फेत्कारीपीठमर्चयेत् ।
गर्गरीसिद्धपीठं च चन्द्रशेखरशैलकम् ॥९४॥

हरिद्वाराख्यपीठं तु समुद्रपीठमर्चयेत् ।
कट्यां सङ्केतपीठं च काञ्चीपीठं त्रिघर्घरम् ॥९५॥

शूलिनीपीठमभ्यर्च्य लङ्कापीठं समर्चयेत् ।
वारुणीपीठञ्च वज्रपीठं समरयेत् ॥९६॥

सिद्धकटाहपीठञ्च महासंहारपीठकम् ।
षट्‌पीठं द्राविडापीठं विष्णुपीठं रसान्वितम् ॥९७॥

दलपीठं तथा राधापीठं पञ्चनलाख्यकम् ।
कुण्डलीचक्रपीठं तु कामपीठं समर्चयेत् ॥९८॥

महावाय्वाकाशपीठं त्रिकालचक्रपीठकम् ।
ब्रह्मपीठं धरापीठं शत्रुपीठं समर्चयेत् ॥९९॥

कुञ्जराख्यं महापीठं कालधर्माख्यपीठकम् ।
तद्वामे डाकिनीपीठं गर्भपीठं तदन्तिके ॥१००॥

मयूरपीठमभ्यर्च्य गारुडीपीठमर्चयेत् ।
प्रणवं पूर्वमुच्चार्य चात्र पीठस्थितान् स्वरान् ॥१०१॥

पूजयामि पद्मपुष्पैः प्रसन्नाः प्रभवस्तु ते ।
पूजयित्वा पीठलोकं शिवलोकं समर्चयेत् ॥१०२॥

क्षेत्रपाललोकमेवं धूम्रलोकं त्रिलोककम् ।
पूजयेत् सागरान् सप्त भुवनानि चतुर्दश ॥१०३॥

तारग्रहणक्रान्तलोकपालयुतानि च ।
पूजयित्वा तद्बाह्ये च शक्तिविद्याः प्रपूजयेत् ॥१०४॥

डाकिनी राकिणी पूज्या लाकिनी काकिनी तथा ।
शाकिनी हाकिनी पश्चात् प्रभा नीला च बोधिनी ॥१०५॥

उन्मनी भाविनी चिन्ता प्रियाङी मानसेश्वरी ।
उल्कामुख्री क्रोधमुखी विप्रचित्ता सुभद्रिका ॥१०६॥

नागिनी नागमाला च पृथिवीतीर्थवासिनी ।
अकलङ्का जाहनवी च स्वर्गगङा मनोन्मनी ॥१०७॥

सं सत्वस्था रं रजः स्था तं तमः स्था प्रपूजयेत् ।
सर्वां देवीं पूजयेद् वै प्रणवादिनमोऽन्तिकाम् ॥१०८॥

धूपदीपौ स्वमूलेन दद्यात् साधकयोगिराट्‍ ।
नैवेद्यं शोधयित्वा च दद्यात् पानार्थकं प्रभो ॥१०९॥

विशेषबलि अर्पणाम्
पुनराचमनं दत्वा विशेषबलिमर्पयेत् ।
पूर्वोक्तस्तु मामानेन पञ्चतत्त्वक्रियादिभिः ॥११०॥

अनेन मनुना दद्यात् बलित्रयमनुत्तमम् ।
प्रणवं कालयायेऽन्ते सर्वपीठनिवासिनि ॥१११॥

तदन्ते कालिकाबीजं स्वबीजं तदनन्तरम् ।
आकाशवाहिनीत्यन्ते बलिं गृहण ततः परम ॥११२॥

पञ्चतत्त्वादिमिलितं कपाले तदनन्तरम् ।
परिगृहणयुगं पश्चात् शब्दबीजं ततो द्विजः ॥११३॥

अनेन मनुना दद्याद् बलित्रयमनुत्तमम् ।
सर्वत्र मान्सैर्योगी ददाति पूजनं बलिम् ॥११४॥

जपकथनम्
प्राणायामं त्रिधा कृत्वा जपेन्मन्त्रं यथाविधि ।
सहस्त्रं वा शतं वापि चाष्टोत्तरसमान्वितम् ॥११५॥

दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् ।
जपं समर्पयेद् देव्या वामहस्ते तु मन्त्रकैः ॥११६॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि ॥११७॥

प्राणायामं त्रिषट्‌कृत्वा वन्दनं च प्रदक्षिणम् ।
संवन्दे वरदे देवि त्रैलोक्यकुलपावनि ॥११८॥

सर्वसिद्धिप्रदे देवि शाकिनी त्वां नमाम्यहम् ।
वेदविद्याप्रकाशे त्वं नानाविद्याविनोदिनि ॥११९॥

भवानि सिद्धिदे देवि वरदा भव सर्वदा ।
सर्वदानवहन्त्री त्वं मम शत्रून् विनाशय ॥१२०॥

अकालमृत्युहरणं कुलकौमारिशाकिनि ।
सदाशिवयुते नित्ये सदाशिवविहारिणि ॥१२१॥

अमरत्वं सदा देहि भक्तिं मुक्तिं प्रयच्छ मे ।
शाकिनी प्राणदे देवि देवानां प्राणरक्षिणि ॥१२२॥

शाकम्भरि नमस्तेऽस्तु मम देहं समाश्रय ।
वाञ्छाकल्पतरोर्मूले स्थायिनि प्रेमदायिनि ॥१२३॥

सर्वलोकर्चिते सिद्धिकण्ठपद्मे स्थिरा भव ॥१२४॥

कण्ठाम्भोरुहमण्डले सुविमले वाञ्छाफले ज्वालिनी
कामाख्ये प्रणमामि शाकिनि पदं मातर्हि शाकम्भरि ।
देवानां जगतां हिताय विनये सम्यग्वश्रीप्रदे
स्थित्यादिक्रमसंस्थिता भव महाकाशप्रभाचञ्चले ॥१२५॥


इति प्रणम्य भावेन भुक्तिमुक्ती लभेद् ध्रुवम् ।
पूजाफलमवाप्नोति प्रदक्षिणरतो नरः ॥१२६॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवभैरवसंवादे शाकिनीयजनं नाम षष्ठष्टितमः पटलः ॥६६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP