श्रीआनन्दभैरवी उवाच
कैलासशिखरारुढ पञ्चवक्त्र त्रिलोचन ।
सर्वभूताप्रपूज्याथ शाकिनीयजनं श्रृणु ॥१॥

त्रिविधपूजाकथनम्
पूजनं त्रिविधं प्रोक्तं मनः साक्षाद्वचोमयम् ।
मानसं योगिनां प्रोक्तं साक्षात् पूजागृहं प्रभो ॥२॥

वाचामयं तामसानां नृपाणां कामिनां प्रभो ।
एका पूजा च त्रिविधा कथिता परमेश्वर ॥३॥

सा पूजा सिद्धिदा काले त्रिकाले सर्वकालके ।
काले सिद्धिर्गृहस्थानां त्रिकाले ब्रह्मचारिणाम् ॥४॥

योगिनां सर्वकालेऽपि विफला दुष्तचेतसाम् ।
भावत्रयं हि पूजानां रजः सत्त्वतमोमयम् ॥५॥

त्रिशक्तिपूजनं नाथ सर्वत्र परिकीर्तितम् ।
ब्रह्माणीं वैष्णवी तत्र पूजयेत् तां महेश्वरीम् ॥६॥

त्रिभावेन पूजयित्वा शक्तिं ब्रह्मत्रयेण च ।
पशुरुपवीररुपदिव्यरुपेण पूजयेत् ॥७॥

बलिदानं हि सर्वत्र परं मोक्षाय केवलम् ।
क्रमेण श्रूणु योगेश सर्वाविद्यादिपूजनम् ॥८॥

सर्वाविद्यादिपूजाविधिकथनम्
यत्कृत्वा सम्भवेद् योगी परं ब्रह्ममयोऽचिरात् ॥९॥

स्थानं वीक्ष्य महेन्द्र कोटिसदृशं श्रीलक्षणैर्लक्षित
देवानां दिवि वीरनाथ रुचिरं पुण्यं पवित्रं सुखम् ।
रम्यं देवगृहान्वितं परजलैर्व्याप्तं तरुच्छायया
सौगन्धादिषु मान्यशैलपवनं काले वसन्तेऽपि वा ॥१०॥

शून्ये देवगृहे तले वरतरोश्चित्तार्पितात्मा यति
श्चाम्भोजासनसंस्थितो मृदुकटे व्याघ्रजिने वारणे ।
आदौ पादयुगं भुवि स्थितमिति व्याशोध्य हस्तौ तथा
नीरं निर्मलगन्धराजमिलितं संक्षाल्य पद्मासनः ॥११॥

जलशोधनमन्त्रस्तु श्रूततां परमेश्वर ।
प्रणवं स्ताणप्रान्ते वज्रोदकमतः परम् ॥१२॥

शोधयामि ततः स्वाहा जलमन्त्र उदाह्रतः ।
प्रक्षिपेत्तज्जलं भिन्नजले भैरवशङ्कर ॥१३॥

हस्तौ पादौ तज्जलेन क्षालयेत् काममायया ।
विग्रहं मूलमन्त्रेण चाचमने द्वे उदाह्रते ॥१४॥

शिखाबन्धनमन्त्रस्तु श्रृणून्मत्तकुमारक ।
अप्रकाश्यं महामन्त्रं शिखाबन्धनमासनम् ॥१५॥

शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल ।
आसनं शोधयाम्यद्य द्वारपालो भवनिशम् ॥१६॥

प्रणवाद्यैर्नमोऽन्तेन शोधयेत् परमेश्वर ।
शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल ॥१७॥

शिखाग्रं बन्धयाम्यद्य द्वारपालो भवनिशम् ।
ततोऽर्घ्य स्थापयेद् विद्वान् शङ्काधारे मनोरमे ॥१८॥

मूलमन्त्रेण संक्षाल्य ततो मूलेन पूरयेत् ।
रक्तचन्दनयुक्तेन जलेन चन्दनेन च ॥१९॥

ततो दूर्वार्घ्यं पुष्पाणि साधारे दापयेत् सुधीः ।
दशधा मूलमन्त्रं तु तत्र सुधामयम् ॥२०॥

धेनुमुद्रां मत्स्यमुद्रां योनिमुद्रां प्रदशयेत् ।
जपेत् तत्र सारमन्त्रमाच्छाद्य मत्स्यमुद्रया ॥२१॥

आत्मानं प्रोक्षयेदादौ ततो द्रव्याणि प्रोक्षयेत् ।
ततः पीठं सुनिर्माय ताम्रे हेमशलाकया ॥२२॥

नवकोण विलिख्याथ षट्‌कोणञ्च तदन्तरे ।
बाह्ये च मण्डलद्वन्द्वं षोडशार्णं ततो लिखेत् ॥२३॥

तद्बाह्ये च चतुर्द्वारं भूबिम्बद्वितयं पुनः ।
एवं पीठ विनिर्माय दलेऽर्णान् विलिखेत्ततः ॥२४॥

ॐ सुरेखायै नमः स्वाहा मन्त्रेण परिलेखयेत् ।
प्रण्वञ्च महारेखाशब्दान्ते शोधयामि युक् ॥२५॥

वहिनबीजायादिमनून् शोधयेत् पीठचक्रकम् ।
पीठपूजा ततः कुर्यात् प्रणवादिनमोऽन्तकैः ॥२६॥

सांपदं पूर्वमुच्चार्य ह्रदयाय नमस्ततः ।
षड्‌दीर्घभाजा बीजेन पूजयेद् वामतः सुधीः ॥२७॥

पूर्वादीशानपर्यन्तं चतुर्दिक्षु च मध्यके ।
पूजयित्वा च तन्मध्ये वर्णोच्चारनपूर्वकैः ॥२८॥

पीठशक्तिं पूजयित्वा पीठनायकमर्चयेत् ।
प्रणवादिनमोऽन्तेन सर्वत्र प्रतिपूजयेत् ॥२९॥

पीठशक्तिं शाकिनी तु तथा शाकम्भरीं शिवाम् ।
लक्ष्मीं सरस्वतीं दुर्गां चण्डिकां गणनायिकाम् ॥३०॥

भद्रकालीं विशालाक्षीं श्रद्धां मायां दयां कलाम् ।
रणचण्डां मधुमतीं प्रसन्नां रत्नमालिनीम् ॥३१॥

हिरण्यवर्णां कौमारीं वाग्देवी त्रिजटां महीम् ।
त्रिशूलिनीं वेदमातां सिद्धाद्यां मधुनायिकाम् ॥३२॥

मधुपुरेश्वरीं कुब्जां तथा मधुमतीं यजेत् ।
शाकाख्या शाकचक्षाञ्च वरहस्तां हसन्मुखीम् ॥३३॥

कपालिनीं खड्‌गहस्तां वनमालाञ्च माधवीम् ।
विचित्राङी ललज्जिहवां चेकितानां प्रभामयीम् ॥३४॥

सर्वां सर्वाकर्षिणीञ्च बहुरुपां सुरां सुधाम् ।
सर्वमयीं वर्णमयीं मुण्डमालां त्रिकालिकाम् ॥३५॥

विश्वेश्वरीं विश्वमातां महाविद्यां सनातनीम् ।
एता विद्याः पूजनीयाः प्रणवादिनमोऽन्तिकाः ॥३६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP