श्रीआनन्दभैरव उवाच
वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते ।
ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥१॥

कालिके कालरात्रिस्थे महाकालनिषेविते ।
शब्दब्रह्मस्वरुपे त्वं वक्तुमर्हसि सादरात्‍ ॥२॥

सहस्त्रनामयोगाख्यम्‍ अष्टोत्तरमनन्तरम्‍ ।
अनन्तकोटिब्रह्माण्डं सारं परममङुलम्‍ ॥३॥

ज्ञानसिद्धिकरं साक्षाद्‍ अत्यन्तानन्दवर्धनम्‍ ।
सङ्केशब्दमोक्षार्थं काकिनीश्वरसंयुतम्‍ ॥४॥

परानन्दकरं ब्रह्म निर्वाणपदलालितम्‍ ।
स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥५॥

इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि ।
स्नेहानन्दसोद्रेकसम्बन्धान्‍ कथय द्रुतम्‍ ॥६॥

श्रीआनन्दभैरवी उवाच
ईश्वर श्रीनीलकण्ठ नागमालाविभूषित ।
नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वर ॥७॥

काकिनीश्वरयोगाढ्यं सहस्त्रनाम मङुलम्‍ ।
अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम्‍ ॥८॥

आयुरारोग्यजननं श्रृणुष्वावहितो मम ।
अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम्‍ ॥९॥

साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम्‍ ।
सार्वज्ञगुह्यसंस्कार संस्कारदिफलप्रदम्‍ ॥१०॥

वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम्‍ ।
महादारिद्रयशमनं महैश्वर्यप्रदायकम्‍ ॥११॥

जपेद्यः प्रातरि प्रीतो मध्याहनेऽस्तमिते रवौ ।
नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥१२॥

काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम्‍ ।
आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥१३॥

ध्यायेद्‍ देवीं महाकालीं काकिनीं कालरुपिणीम्‍ ।
परानन्दरसोन्मत्तां श्यामां कामदुघां पराम्‍ ॥१४॥

चतुर्भुजा खड्‌गचर्मवरपद्मधरां हराम्‍ ।
शत्रुक्षकरीं रत्नाऽलङ्कारकोटिमण्डिताम्‍ ॥१५॥

तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम्‍ ।
केयूरहारललितां ताटङ्कद्वयशोभिताम्‍ ।
सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम्‍ ॥१७॥

ह्रत्पद्म कर्णिकामध्याकाशसौदामिनीप्रभम्‍ ।
एवं ध्यात्वा पठेन्नाममङुलानि पुनः पुनः ॥१८॥

ईश्वरं कोटिसूर्याभं ध्यायेद्‌धृदयमण्डले ।
चतुर्भुजं वीररुपं लावण्यं भावसम्भवम्‍ ॥१९॥

श्यामं हिरण्यभूषाङं चन्द्रकोटिसुशीतलम्‍ ।
अभयं वरदं पद्मं महाखड्‌गधरं विभुम्‌ ॥२०॥

किरीटिनं महाकायं स्मितहास्यं प्रकाशकम्‍ ।
ह्रदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम्‍ ॥२१॥

कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम्‍ ।
एवं विचिन्त्य मनसा योगिनं परमेश्वरम्‍ ॥२२॥

ततः पठेत्‍ सहस्त्राख्यं वदामि श्रृणु तत्प्रभो ॥२३॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP