TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

शौचक्रियाविधानम
श्रीआनन्दभैरवी उवाच
आनन्दसागराम्भोजमध्यस्थ परमप्रिय ।
इदानीं कालजालादिवारणं श्रृणु भैरव ॥१॥

सम्पूर्य सञ्चयाच्छन्नं वायु स्वाभाविकीगतिम् ।
कुम्भयित्वा स्वभावेन चिरकालं सुखी भवेत‍ ॥२॥

शनैः शनैः रेचयित्वा सर्वदा तद्गतो भवेत् ।
कालजालवशो याति तत्क्षणान्नात्र संशयः ॥३॥

विना वाय्वाकुञ्चनेन न सिध्यति च को जनः ।
वायुचालनमात्रेण सूक्ष्ममार्गोद्गमेन च ॥४॥

सिध्यत्येव महायोगी कालजालवशोऽपि च ।
कालवशं न करोति मोहादतिसुखायते ॥५॥

कालभक्षो भवेत् सोऽपि म्रियते नात्र संशयः ।
मणिपुरे मनो दत्त्वा साधयेद् देवताः सदा ॥६॥

स्तोत्रं ध्यानं नाम गुणं पठित्वा च पुनः पुनः ।
मनोयोगञ्च सर्वत्र वायुना कारयेद् बुधः ॥७॥

कुम्भयित्वा धारयित्वा रेचयित्वा पुनः पुनः ।
सर्वकालवशं नीत्वा जीतात्मा चामरो भवेत् ॥८॥

लोभमोहौ वर्जयित्वा कामक्रोधदिपातकम् ।
सर्वदा वायुपानञ्च कृत्वा रहसि संवशी ॥९॥

नित्यं वायुसाधनानि षट्‌चक्रभेदनाय च ।
शनैः शनैर्धारयेद्वै चिरजीवित्वसाधनात् ॥१०॥

यदि न चिरजीवी स्यात् कालात्मा वायुसेवकः ।
षट्‌चक्रभावसिद्ध्यन्ते ज्ञानी मृत्युवशो भवेत् ॥११॥

अतः कुर्याच्छिवज्ञानं वायुसंसिद्धकारणम् ।
तत्क्रियासाधनार्थाय आदौ पञ्चामराविधिम् ॥१२॥

कुर्यात् साधकमुख्यश्च निजकायप्रसाधनात् ।
नेतीयोगं तदा कुर्याद् यथा भवति संवशी ॥१३॥

धौतीयोगं तदा कुर्याद् यथा भवति संवशी ।
नेउलीयोगमाकुर्याद् यत्र लोको न विद्यते ॥१४॥

दन्तीयोगं तदा कुर्याद् यदा मुख्यक्रियावतः ।
तदा क्षणेन यः कुर्याद् यदा तृष्णविवर्जितः ॥१५॥

तृष्णनाशो भवेन्मोक्ष इति मे योगनिर्णयः ।
विशेषण प्रवक्ष्येऽहं श्रृणु कैलासपावन ॥१६॥

एतत्कार्यं पुरा कृत्वा दिवि देवा मुनीश्वराः ।
कायसिद्धिं मुदा कृत्वा छायामायाविवर्जिताः ॥१७॥

सर्वत्र गामिनः सर्वे धर्माशास्त्रर्थपण्डिताः ।
चिरजीविन एवापि सकलश्रीसमन्विताः ॥१८॥

तत्तद्भेदान् प्रवक्ष्यामि साधनं कायरक्षणम् ।
यः करोति महादेव कायसाधनमुत्तमम् ॥१९॥

स आयति ममानन्दसदने नात्र संशयः ।
प्रभाते च समुत्थाय ब्राह्ये कालफलोदये ॥२०॥

सहस्त्रारे गुरोः पादपङ्कजध्यानमाचरेत् ।
विचिन्तयेत्ततः श्रीमान् गुरुरुपां सरस्वतीम् ॥२१॥

स्वदेवतां परानन्दसिको योगबुद्धिमान् ।
प्रणम्य शिरसा नित्यं शौचकार्य समाचरेत् ॥२२॥

शौचक्रियाक्रमेणैव्ब सिद्धः शुचिगुणान्वितः ।
प्रगच्छेच्छौचकार्यार्थं घटमानं तु यत्नतः ॥२३॥

मृत्तिकाप्रस्थामानञ्च नीत्वा शौचं समाचरेत् ।
कुल्कुलं सप्तदशकं वर्चत्यागं पुनः पुनः ॥२४॥

ततस्तर्जन्या चालोड्य वामहस्तस्य शङ्कर ।
गुदरन्ध्रे समायोज्य क्षालनं हि पुनः पुनः ॥२५॥

यावच्च विससंत्यागं निःशिषेण मलक्षयम ।
तावन्मृत्पयसा क्षाल्य शोधयेदुदरं सुधीः ॥२६॥

यावन्न जायते सौख्यं तावत्कालं समाचरेत् ।
तत उत्थाय विधिना मृत्तिकाशौचमाचरेत् ॥२७॥

येन क्रमेण विष्ठाया गन्धनाशोऽपि जायते ।
पादद्वयं समाक्षाल्य चान्तःशौचं समाश्रयेत् ॥२८॥

तत्क्रियासफलं वक्ष्ये श्रृणु योगेश्वर प्रभो ।
सूक्ष्मवस्त्रसमुद्भूतं डोरकं सूक्ष्मरन्ध्रके ॥२९॥

नासिकाया दृढतरं कोमलं चातिनिर्मलम् ।
शनैः शनैर्नियोज्याथ जिहवामूले निवेशयेत् ॥३०॥

जिहवामूलात् सदादाय वारं द्वादशकं सुधीः ।
मन्दमन्दाघर्षणं तु कृत्वा भेदं समानयेत् ॥३१॥

मायात्रयेण बीजेन देवीबीजत्रयेण च ।
रमाबीजत्रयेणापि योगिन्यै नम इत्यपि ॥३२॥

एतन्मन्त्रेण योगीन्द्रो नेतीयोगं समाचरेत् ।
शिरःस्थाङु समाकृत्य कण्ठशोधनमाचरेत् ॥३३॥

ततो वक्षः शोधनं तु ततो नाभेश्च शोधनम् ।
क्रमेण कुर्यात् कार्यार्थे तत्प्रकारं श्रृणु प्रभो ॥३४॥

धौतिक्रियां समाकुर्यात् तप्तोदकनिसेवनम् ।
शुक्लवस्त्रं सूक्ष्मसूत्रं चाष्टाङ्‌गुलप्रमाणकम् ॥३५॥

द्वात्रिंशद्धस्तमानं तु पूर्णसंख्या उदीरिता ।
मन्त्री प्रथमतः कुर्यात् चतुरङ्‌गुलवस्त्रकम् ॥३६॥

दीर्घे पञ्चहस्तमानं तप्तोदकसमन्वितम् ।
भक्षयेत् शेषजिहवाग्रे संस्थाप्य वसनं सुखम् ॥३७॥

तर्जनीमध्यमाङ्‌गुष्ठामुद्राभिर्भक्षयेत् सुधीः ।
क्रमेण वर्धयेन्नित्यं दीर्घे च प्रसवे तथा ॥३८॥

एतन्मन्त्रेण देवेश पूर्वोक्तमनुना तथा ।
सर्वत्र पूर्वबीजेन संशोध्य बीजमुच्चरेत् ॥३९॥

शक्तिबीजत्रयं पश्चात् कामबीजत्रयं तथा ।
लक्ष्मीबीजत्रयं पश्चान्महाधौतनिवासिनी ॥४०॥

मेवाडीमलमन्त्रे तु क्षालयद्वयमेव च ।
भार्या वहेत्ततः पश्चादुदरे सन्निवेशयेत् ॥४१॥

शनैर्निवेशनाकृत्य यावत् सर्वः प्रजायते ।
एतद्योगप्रसादेन वायवी सुकृपा भवेत् ॥४२॥

ततः कुर्यात् साधकेन्द्रो विग्रहक्षेमकारणात् ।
नेउलीपरमं योगं गात्रदृढनिबन्धनम् ॥४३॥

घूर्णायमानमाकुर्यादुदरं परमेश्वर ।
सर्वदा चालनं कुर्यात् प्राणवायुप्रधारणम् ॥४४॥

वामे घूर्णितमाकृत्य दक्षिणे घूर्णीतं चरेत् ।
एवं क्रमेण देवेश पुटपाकं समाचरेत् ॥४५॥

एतन्मत्रेण देवेश शुभासने हठो भवेत् ।
ब्रह्मबीजत्रयं पश्चात् कालीबीजत्रयं ततः ॥४६॥

देवीप्रणवयुग्मं तु गात्रस्थायै नमो द्विठः ।
तदन्ते नाडिकादीनां क्षालनं परमाद्भुतम् ॥४७॥

वक्षःस्थानं महादेव दन्तीयोगेन कारयेत् ।
गजमानं दन्तकाष्ठं निर्मलं सुन्दरं मतम् ॥४८॥

दन्तकाष्ठं क्षालयेद्वै मनुना साधकाग्रणीः ।
मायाबीजत्रयं पश्चाद् भैरवीबीजकत्रयम् ॥४९॥

मर्दिनीबीजयुगलं दन्तकाष्ठनिवासिनी ।
मे ह्रद‌ग्रन्थं छेदय इति युगलं वहिनसुन्दरी ॥५०॥

क्रमेण विधिनानेन गलरन्ध्रे निवेशयेत् ।
यावन्नाभेरहो याति यावत् सुखमयानि च ॥५१॥

तावद्दन्तीयोगकार्यं प्रभाते सर्वकार्यकम् ।
एतदन्ते ततः कुर्यान्नाडीक्षालनमेव च ॥५२॥

तन्मत्रं श्रृणु वीरेन्द्र चामरत्वप्रदायकम् ।
आदौ प्रणवमुद्धृत्य दीर्घप्रणवयुग्मकम् ॥५३॥

भुवनेशीबीजयुग्मं चन्द्रबीजत्रयं ततः ।
कृष्णबीजत्रयं पश्चादर्कबीजत्रयं ततः ॥५४॥

वाग्भवत्रममुद्धृत्य वहिनबीजत्रयं ततः ।
श्रीबीजं मन्मथं लक्ष्मीं शीतले तदनन्तरम् ॥५५॥

स्वोदरं नाडिकामूलं मलक्षालययुग्मकम् ।
स्वाहान्तमनुना नित्यं क्षालयेन्नादिकाधमाः ॥५६॥

यावत्तृष्णानाशकः स्यात्तवत्कालं समाचरेत् ।
यावदुद्गमशक्तित्वं त्रिदण्डावधि धारणा ॥५७॥

तावन्न जायते नाथ क्षालनं सुखसाधनम् ।
यदि भाग्यवशादेव त्रिदण्डवायुकुम्भकम् ॥५८॥

स्वयमेव समायाति नाडिकाक्षालनं शुभम् ।
यावत्सूक्ष्मानिलालापं मधुपानं निरन्तरम् ॥५९॥

पादाम्भोजनिःसृतं तु परमानन्दवर्धनम् ।
तत्सुखेनापरिच्छिन्नं संज्ञाननिर्मलेन च ॥६०॥

चिदानन्दस्वरुपेण आनन्दश्रुविमोचनम् ।
तदा हि ह्रदयग्रन्थिभेदनं देहवर्धनम् ॥६१॥

तदा हि पुलकं स्थैर्यं देहावेशस्थिरं तथा ।
तदा षट्‌कञ्ज सिद्धान्तज्ञानं चैतन्यनिर्मलम् ॥६२॥

चिदानन्दमयो भूत्वा तृष्णाज्ञानविवर्जितः ।
जीवमुक्तः परानन्दरसिकः प्रणयप्रियः ॥६३॥

स्थिरचेता महायोगी भवत्येव न संशयः ।
आस्तिको देवभक्तश्च निन्दावादविवर्जितः ॥६४॥

स एवात्मा महाज्ञानी भवत्येव न संशयः ।
पञ्चयोगं समाकृत्यं नित्यादिकमनुत्तमम् ॥६५॥

स्नानं कुर्याद्विधानेन तीर्थराजनिकेतने ।
इडा गङाजले वापि पिङुला यमुनाजले ॥६६॥

सुषुम्नायां सरस्वत्यां वसुपुष्करकोटिषु ।
तथापि बाह्यस्नाने तु सर्वाङुमस्तकं विना ॥६७॥

सप्तवारं समासिञ्चेत् मस्तकं बाह्यवारिणा ।
मार्जनेनापि मनुना मूलमन्त्रेण वा पुनः ॥६८॥

ततोऽङुं मार्जयित्वा च सन्ध्यावन्दनमाचरेत् ।
बाह्यसन्ध्यां तु मन्त्रेणैवान्तरे प्रकृतीश्वरम् ॥६९॥

ऊर्ध्वाधस्तैजसं बिन्दुं नादमण्डलसम्पुटम् ।
सन्ध्यावन्दनमाकृत्य महौषधिं प्रभक्षयेत् ॥७०॥

मूलमन्त्रेणाभिमन्त्र्य पञ्चगव्यं कुलेश्वर ।
ततः कुर्यान्महापूजां स्वस्वमन्त्रोक्तसाधिताम् ॥७१॥

षट्‌चक्रार्थं ततो ध्यायेद् यदुक्तं विधिना प्रभो ।
कुण्डलिन्या महापूजा सहस्त्रनाममङुलम् ॥७२॥

देवताना पठेद्धीमान् सर्वकाले सुसिद्धये ।
मूलाधारं मुदा भित्वा सूक्ष्मवायुद्वयेन च ॥७३॥

ततो भेदं स्वाधिष्ठानं राकिणीविष्णुसङुमम् ।
तयोरनुक्रमं नाथ सहस्त्रनाममङुलम् ॥७४॥

अन्यन्तगुह्यकथनं सत्त्वभक्तिप्रकारकम् ।
भित्वा भेदं मुदा कुर्यान्मणिपीठदेवयोः ॥७५॥

ध्यानं ज्ञानं स्तवं नित्यं यजनं नामकीर्तनम् ।
चैतन्यं रुद्रलाकिन्यास्तथा मृत्युञ्जयस्य च ॥७६॥

नित्यं गुरुमयं ध्यात्वा सर्वगामिनीश्वरम् ।
चिरजीवी महायोगी भवत्येव न संशयः ॥७७॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरभेदो नाम त्रिपञ्चाशत्तमः पटलः ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-30T04:19:42.8800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

in furtherence of

  • --च्या अभिवृद्धर्थ 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.