श्रीआनन्दभैरवी उवाच
नाथ कान्त प्रवक्ष्यामि सिद्धसाधनमुत्तमम् ।
येन साधनमात्रेण नरो योगी भवेद् ध्रुवम् ॥१॥

त्रिवीरं त्रिविधं प्रोक्तमुत्तमाधममध्यमम् ।
तत्रैव त्रिविधं सङुमूर्ध्वपातालभूतलम् ॥२॥

सप्त ऊर्ध्वं तथा नाथ सप्त भूतलमेव च ।
सप्त पातालमेवं हि सप्तत्रिसप्तसंख्यकम् ॥३॥

तन्मध्ये त्रिविधं भावं दिव्यवीरपशुक्रमम् ।
दिवि तिष्ठन्ति देवाश्च वीरास्तिष्ठन्ति भूतले ॥४॥

पशवः सन्ति पाताले क्रमशः क्रमशः प्रभो ।
सर्वत्र त्रिगुणाच्छन्न सत्त्वरजस्तमादिकम् ॥५॥

सत्त्वगुणं स्वर्गमध्ये सर्वे विष्णुपरायणाः ।
तदा सर्वे दृढाः स्वर्गे भूतले च रजोगुणम् ॥६॥

ब्रह्मसेवापराः सर्वे ब्रह्मज्ञानिन एव च ।
पाताले शिवसेवाश्च शिवरुपिण एव च ॥७॥

तमोगुणात् पशोर्भावं तमोदृष्टिं समाप्य च ।
ततो विहाय तज्ज्ञानं वीरो भवति साधकः ॥८॥

वीरभावे ज्ञानदृष्टिं ब्रह्मसिद्धिं समाप्य च ।
देवता भवति क्षिप्रं सत्त्वे निर्मलभावके ॥९॥

स्थिरो भूत्वा महादेवो भवत्येव क्रमेण तु ।
आकाशगामिनी सिद्धिः क्रमशो भवति ध्रुवम् ॥१०॥

मूलाधारस्य चाधो वै पातालतलवासिनः ।
तदूर्ध्वे ब्रह्मलोके तु भूतलादिनिवासिनः ॥११॥

तदूर्ध्वे सत्त्वनिलयं स्वाधिष्ठानं हि दैवतम् ।
विधिविद्याप्रकाशश्च वरदेवस्य सम्पदम् ॥१२॥

तदूर्ध्वे सर्वरुपञ्च सर्वज्ञानाश्रयं परम् ।
परस्थानां महादेव मणिपूरं मनोहरम् ॥१३॥

रुद्रशक्त्यामकं चक्रं श्रीविद्याचक्रमण्डलम् ।
लाकिनी परमा माया महारुद्रेण सेविता ॥१४॥

मणिपूरप्रकाशाय रुद्रशक्तिर्विभाति च ।
सर्वज्ञानानन्दमयं सर्वसिद्धिप्रकारम् ॥१५॥

महासूक्ष्मशब्दमयं कुण्डलं ज्ञानसाधनम् ।
यस्याः साधनमात्रेण योगी भवति भैरव ॥१६॥

प्रकार एव सेवायां महासिद्धिश्वरो भवेत् ।
सर्वे च पशवः सन्ति तलवद् भूतले नराः ॥१७॥

तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः ।
वीरभावं मुदा प्राप्य क्रमेण देवता भवेत् ॥१८॥

यत्काले वीरभावादिसिद्धिं प्राप्नोति मानवः ।
तत्कालनिर्णयं वक्ष्ये वीराद्देवत्वमाप्नुयात् ॥१९॥

मासेनाकर्षिणी सिद्धिर्मासेन वाक्‌पतिर्भवेत् ।
मासत्रयेण संयोगज्जायते सुरवल्लभः ॥२०॥

एवं चतुष्टये मासि भवेद् दिक्‌पालगोचरः ।
पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः ॥२१॥

वीरभावं समाश्रित्य सर्वदा योगमाश्रयेत् ।
पशोरधीनं देवेश वीरभावं मनोहरम् ॥२२॥

वीराधीनं दिव्यभावं दिव्येन रुद्रतर्पणम् ।
रुददर्शनमात्रेण जीवन्मुक्तो भवेद् ध्रुवम् ॥२३॥

जीवन्मुक्तिपदं प्राप्य किन्न सिध्यति भूतले ।
मनोनिवेशमाकृत्य पशुभावाश्रितो नरः ॥२४॥

वीरभावं समाश्रित्य चादौ योगं समाश्रयेत् ।
सर्वदा चाभ्यसेद् योगं मन्त्रन्यासपरायणः ॥२५॥

योगसिद्धि ज्ञानसिद्धिं मोक्षसिद्धिं ततः परम् ।
यदि मोक्षमिहेच्छन्ति पशवः शास्त्रमोहिताः ॥२६॥

समज्ञानं वीरभावमाश्रित्य योगमाप्नुयात् ।
योगाभ्यासस्य चाद्ये च शरीरं परिशोधयेत् ॥२७॥

आदौ पञ्चामराः कार्याः सर्वकार्यनिराश्रयाः ।
केवलं योगमाश्रित्य सदा पञ्चामरा भवेत् ॥२८॥

द्विप्रकारं महाकाल पञ्चामराभिधानकम् ।
नेती दन्ती तथा धौती नेउली क्षालनं तथा ॥२९॥

एकप्रकारमेवं हि कथितं परमेश्वर ।
दन्ती नेती तथा धौति नेउली क्षालनक्रमात ॥३०॥

एवं वा नित्यमाकुर्याद् योगसिद्धिसमृद्धये ।  द्
पञ्चामरासाधनादिकाले कुर्यान्निजक्रियाम् ॥३१॥

औषधी पञ्चमं ग्राह्यं पञ्चयोगसुसिद्धये ।
बिल्वपत्रं जयापत्रं तुलसीश्यामपत्रकम् ॥३२॥

निर्गुण्डीपत्रमेवं तु दूर्वाग्रन्थिरसेन च ।
एषां प्रकृतिनामानि वक्ष्यामि श्रृणु शङ्कर ॥३३॥

अमरा बिल्वपत्रं तु चामरा विजयादलम् ।
अमरलता ग्रन्थिदूर्वा निर्गुण्डी चामरेश्वरी ॥३४॥

अमरा श्यामतुलसी पञ्चामरास्तरुद्भवाः ।
कथिता योगसिद्धयर्थे तत्प्रमाणं क्रमात् श्रृणु ॥३५॥

पञ्चतोककमानं तु विजयापत्रमेव च ।
अन्येषां तोलकं चैकं संशोध्य भक्षणं चरेत् ॥३६॥

एतद्भक्षणमात्रेण पञ्चयोगे जयी भवेत् ।
पुनस्तेषां महाकाल मनुं वक्ष्यामि तत्त्वतः ॥३७॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP