आनन्दभैरव उवाच
श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि ।
मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् ॥१॥

अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महाप्रियाम् ।
यस्य श्रवणमात्रेण पाठेन योगिनीवशम् ॥२॥

श्रीआनन्दभैरवी उवाच
परमानन्ददेवेश योगानामधिप प्रभो ।
स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् ॥३॥

यज्ज्ञात्वा योगिनः सर्वे षट्‌चक्रपरिभेदकाः ।
आकाशगामिनः सर्वे र्स्वगमोक्षाभिलाषुकाः ॥४॥

महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः ।
सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् ॥५॥

ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले ॥६॥

ॐ भजामि शम्भुं सुखमोक्षहेतुं
रुद्रं महाशक्तिसमाकुलाङुम् ।
रौद्रात्मकं चारुहिमांशुशेखरं
कालं गणेश सुमुखाय शङ्करम् ॥७॥

मृत्युञ्जयं जीवनरक्षकं परं
शिवं परब्रह्मशरीरमङुलम् ।
हिमांशुकोटिच्छविमादधानं
भजामि पद्मद्वयमध्यसंस्थितम् ॥८॥

सर्वात्मकं कामविनाशमूलं
तं चन्द्रचूडं मणिपूरवासिनम् ।
चतुर्भुजं ज्ञानसमुद्रयाढ्यं
पाशं मृगाक्षं गुणसूत्रव्यातम् ॥९॥

धरामयं तेजसमिन्दुकोटिं
वायुं जलेशं गगनात्मकं परम् ।
भजामि रुद्रं कुललाकिनीगतं
सर्वाङुयोगं जयदं सुरेश्वरम् ॥१०॥

शुक्रं महाभीमनयं पुराणं
प्राणात्मकं व्याघिविनाशमूलम् ।
यज्ञात्मकं कामनिवारणं गुरुं
भजामि विश्वेश्वरशङ्करं शिवम् ॥११॥

वेदागमानामतिमूलदेशं
तदुद्भवं भद्रहितं परापरम् ।
कालान्तकं ब्रह्मसनातनप्रियं
भजामि शम्भुं गगनादिरुढम् ॥१२॥

शिवागमं शब्दमयं विभाकरम्
भास्वत्प्रचण्डानलविग्रह ग्रहम् ।
ग्रहस्थित ज्ञानकरं करालम्
भजामि शम्भुं प्रकृतीश्वरं हरम् ॥१३॥

छायाकरं योगकरं सुखेन्द्रं
मत्तं महामत्तकुलोत्सवाढ्यम् ।
योगेश्वर योगकलानिधिं विधिं
विधानवक्तारमह्म भजामि ॥१४॥

हेमाचलालङ्‌कृतशुद्धवेशं
वराभयादाननिदानमूलम् ।
भजामि कान्तं वनमालशोभितं
चामूल पद्मामलमालिनं कुलम् ॥१५॥

स्वयं पुराणं पुरुषेश्वरं गुरुं
मिथ्या भयाहलादविभाविनं भजे ।
भावप्रियं प्रेमकलाधरं शिवं
गिरिश्वरं चारुपदारविन्दम् ॥१६॥

ध्यानप्रियं ज्ञानगभीरयोगं
भाग्यास्पदं भाग्यसमं सुलक्षणम् ।
शूलायुधं शूलविभूषिताङुं
श्रीशङ्कर मोक्षफलक्रियं भजे ॥१७॥

नमो नमो रुद्रगणेभ्य एवं
मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः ।
शक्तिप्रियेभ्यो विजयादिभूतये
शिवाय धन्याय नमो नमस्ते ॥१८॥

बाह्य त्रिशूलं वरसूक्ष्मभावं
विशालनेत्रं तनुमध्यगामिनम् ।
महाविपद् दुःखविनाशबीजं
प्रज्ञादया कान्तिकरं भजामि ॥१९॥

पुरान्तकं पूर्णशरीरिणं गुरुं
स्मरारिमाद्यं निजतर्कमार्गम् ।
अनादिदेवं दिवि दोषघातिनम्
भजामि पञ्चाक्षरपुण्यसाधनम् ॥२०॥

दिगग्बरं पद्ममुखं करस्थं
स्थितिक्रियायोगनियोजनं भवम् ।
भावात्मकं भद्रशरीरिणं शिवं
भजामि पञ्चाननमर्कवर्णम् ॥२१॥

मायामयं पङ्कजदामकोमलं
दिग्व्यापिनं दण्डधरं हरेश्वरम् ।
त्रिपक्षकं त्र्यक्षरबीजभावं
त्रिपद्ममूलं त्रिगुणं भजामि ॥२२॥

विद्याधरं वेदविधानकार्यं
कायागतं नीतनिनादतोषम् ।
नित्यं चतुर्वर्गफलादिमूलं
वेदादिसूत्रं प्रणमामि योगम् ॥२३॥

वेदानवेद्यं कुलशास्त्रविज्ञं
क्रियामयं योगस्वधर्मदानम् ।
भक्तेश्वरं भक्तिपरायणं वरं
भक्तं महाबुद्धिकरं भजाम्यहम् ॥२४॥

गतागतं गम्यगम्यभावं
समुल्लसत्मोटिकलावतंसम् ।
भावात्मक भावमय सुखासुखं
भजामि भर्गं प्रथमारुणप्रभम् ॥२५॥

बिन्दुस्वरुपं परिवादवादिनं
मध्याहनसूर्यायुतसन्निभं नवम् ।
विभूतिदानं निजदानदानं
दानात्मकं तं प्रणमामि देवम् ॥२६॥

कुम्भापहं शत्रुनिकुम्भघातिनं
दैत्यारिमीशं कुलकामिनीशम् ।
प्रीत्यान्वितं चिन्त्यचिन्त्यभावं
प्रभाकराहलादमहं भजामि ॥२७॥

त्रिमूर्तिमूलाय जयाय शम्भवे
हिताय लोकस्य वपुर्धराय ।
नमो भयच्छिन्नविघातिने पते
नमो नमो विश्वशरीरधारिणे ॥२८॥

तपःफलाय प्रकृतिग्रहाय
गुणात्मने सिद्धिकराय योगिने ।
नमः प्रसिद्धाय दयातुराय
वाञ्छाफलोत्साहविवर्धनाय ते ॥२९॥

शिवम मरमहान्तं पूर्णयोगाश्रयन्तं
धरणिधरकराब्जैर्वधमानं त्रिसर्गम् ।
विसम मरणघातं मृत्युपूज्यं जनेश
विधिगणपतिसेव्यं पूजये भावयामि ॥३०॥

एतत्स्तोत्रं पठेद् विद्वान् मुनिर्योगपरायणः ।  
नित्यं जग्न्नाथगुरुं भावयित्वा पुनः पुनः ॥३१॥

मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि ।
जीवन्मुक्तिश्च देहान्ते परं निर्वाणमाप्नुयात् ॥३२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं नाम अष्टचत्वारिंशत्तमः पटलः ॥४८॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP