आनन्दभैरवी उवाच
श्रृणु नाथ प्रवक्ष्यामि श्रीकृष्णसाधनोत्तमम् ।
येन क्रमेण भक्तिः स्यात्कालजालवशो भवेत् ॥१॥

मम पादाम्बुजे भक्तिर्भवत्येव न संशयः ।
भक्तिमान् यः साधकेन्द्रो महाविष्णुं भजेद्यदि ॥२॥

शिवतुल्यो भवेन्नाथ मम भक्तो महीतले ॥३॥

श्रीकृष्णं जगदीश्वरं त्रिजगतामानन्दमोक्षात्मंक
सम्पूर्णं त्रिगुणावृतं गुणधरं सत्त्वधिदैवं परम् ।
लिङाधः स्थितिराज्यपालपुरुषं पञ्चाननास्थायिनं
श्रीविष्णु शुभदं जनो यदि भजेल्लोकः सशक्तिं सुखे ॥४॥

आदौ कामं त्रिसर्गं कुलवधुनियुतं कामबीजं त्रिसर्गं
श्रीकृष्ण वारयुग्मं प्रणययुगलकं चन्द्रिकाकाशयुक्तम् ।
ब्रह्माद्वन्द्वं भजामि प्रकृति पुरुषिकां काकिनीं तत्परे च
भूयो भूयो भजामि श्रवणगलयनं वहिनजायाविलग्नम् ॥५॥

एतन्मन्त्रं जपित्वा प्रणवमिति नमोऽन्तं तथाद्ये मिलित्वा
भूयो भूयो नमोऽन्तं त्रिभुवनसहितं क्षोभयेत्तत् क्षणेण ।
राजश्रीस्तस्य शीर्षे निरवधि वसुधा मन्दिरे संस्थिरा स्यात्
कालच्छेदं प्रकृत्य प्रवसति सुमुखी ब्रह्मदण्डे च काले ॥६॥

ततः प्राणे दैवनाथ मम सन्तोषवर्द्धन ।
इदानीं नरसिंहस्य मन्त्रं श्रृणु महाप्रभो ॥७॥

कान्तबीजं समुद्धत्य युगलं युगलं स्मृतम् ।
महानृसिंहमन्त्रेण पूजयामि नमो नमः ॥८॥

स्वाधिष्ठाने महापद्मे मनोनिष्पाहेतुना ।
मनो विधाय यो योगी जपेमन्त्रं पुनः पुनः ॥९॥

एतमन्त्रजपेनापि सिद्धो भवति साधकः ।
एतन्मन्त्रभावेण भावसिद्धिं क्षणाल्लभेत् ॥१०॥

साधको यदि भूमिस्थः साधयेत्तु हरेर्मनुम् ।
रेणुसंख्या क्रमेणैव सिद्धिं प्राप्नोति वीर्यतः ॥११॥

अथ वक्ष्ये महादेव सर्ववर्णसुसारकम् ।
वर्णमालास्वसंशक्तो जप्त्वा सिद्धिमवाप्नुयात् ॥१२॥

सिद्धिमन्त्रं प्रार्थयते यदि मर्त्यो निराश्रयः ।
निर्जने संस्थिरो भूत्त्वा एकाकी दीपवर्जितः ॥१३॥

निःशङ्क प्रजपेन्मन्त्रं स्वाधिष्ठानाब्जसङुते ।
वशीकृतं जगत्सर्वं येन तत्क्रममाश्रृणु ॥१४॥

प्रणवं पूर्वमुच्चार्य नान्तबीजं तथोद्‌गरेत् ।
वहिनबीजसमालग्नमधोदन्तस्वरान्वितम् ॥१५॥

नादबिन्दुसमायुक्तं पुनर्वाद्वयं वदेत् ।
नरसिंहाय शब्दान्ते पुनर्वात्रयं वदेत् ॥१६॥

देवीबीजं शक्तिबीजं स्वाहान्तं मनुमुद्‌गरेत् ।
एतन्मन्त्रप्रयोगेण कुण्डलीवशमानयेत् ॥१७॥

स्वाधिष्ठाने स्थिरीभावं प्राप्नोति साधकग्रणीः ।
सर्वेषां प्राणगो भूत्वा प्रबलोऽसौ महीतले ॥१८॥

शीतं रौद्रं समं तस्य पापापापं जयाजयम् ।
धर्माधर्मः सदा ज्ञानं नित्यज्ञानं समाप्नुयात् ॥१९॥

पुनः श्रीकृष्णमन्त्राश्च सर्वदेवानिषेवकाः ।
यज्ज्ञात्वा देवताः सर्वा सर्वदिङ्‌मुखपालकाः ॥२०॥

तत्प्रयोगं महादेव श्रृणु सिद्धेश्च लक्षणम् ।
विना कृष्णाश्रयेणापि ब्रह्मा तुष्टो च कुत्रचित् ॥२१॥

न तुष्टा कुण्डली देवी पशुभावं विना प्रभो ।
पशुभावे ज्ञानसिद्धिर्वीरभावे हि मोक्षभाक् ॥२२॥

दिव्यभावे समाधिस्थो जीवन्मुक्तः स उच्यते ।
कान्तबीजं समुद्धत्य शक्रवामस्वरान्वितम् ॥२३॥

नादबिन्दुसमाक्रान्तं कृष्णसम्बोधनं पदम् ।
पुनः पूर्वमनुं युक्ता त्र्यक्षरात्मा महामनुः ॥२४॥

एतन्मन्त्रजपं कृत्वा योगी भवति योगिराट्‌ ।
योगोऽयं परमाहलादकारकोऽनन्तरुपकः ॥२५॥

बहुभिः किं कथनीयं यः करोति फलं लभेत् ।
ध्यायेत् श्रीगोपिकानाथं राकिणीमण्डलेश्वरम् ॥२६॥

जगतां सत्त्वनिलय़ं श्रीकृष्णं गोकुलेश्वरम् ।
स्वाधिष्ठानस्थितं श्यामं यजेद्‍ भुजचतुष्ठयम् ॥२७॥

शङ्काचक्रगदापद्म - महाशोभामनोरमम् ।
सर्वविद्यागतं काम्यं श्रीगोविन्दं सुशीतलम् ॥२८॥

महामोहहरं नाथं वनमालाविभूषितम् ।
कोटिकन्याकराम्भोजजयितं सर्वङुतम् ॥२९॥

किरीटिनं महावीरं बालेन्दुं चूडयान्वितम् ।
गुञ्जामाला शोभोताङुं श्रीनाथं परमेश्वरम् ॥३०॥

पीताम्बरं मन्दहास्यं षट्‌पद्मदलमध्यगम् ।
कामिनीप्राणनिलयं वसुदेवसुतं हरिम् ॥३१॥

एवं ध्यात्वा षड्‌दले च सदा वक्षःस्थकौस्तुभम् ।
राजराजेश्वरं शौरिं भाव्यं श्रीवत्सलाञ्छनम् ॥३२॥

स्वाधिष्ठानगतं ध्यायेन्मुरारिसिद्धिगो नरः ।
एवं ध्यात्वा पुरा ब्रह्मा नारायणगुणोदयः ॥३३॥

मनः कल्पितद्रव्यैश्च पूजयेत्परमेश्वरम् ।
षड्‌दले च महापद्मे संध्यायेत् हरिमायजेत्‍ ॥३४॥

षोडशोपचारयुक्तैर्मानसक्षेत्रसम्भवैः ।
मनः कल्पितपीठे च स्थापयित्वा हरिं गुरुम् ॥३५॥

योगेश्वरं कृष्णमीशं राधिकाराकिणीश्वरम् ।
एकान्तचित्ते चारोप्य कृष्णं पीठे प्रपूजयेत् ॥३६॥

तत्र दलाष्टकं पद्मं तत्र षट्‌कोणकर्णिकम् ।
वेदद्वारोपशोभञ्च संनिर्म्माय मनोहरम‍ ॥३७॥

पुनः पुनर्यदा ध्यायेत षड्‌दलेषु दलेष्टकम् ।
पञ्चोपचारैर्दशकैः श्रीविष्णुं परिपूजयेत् ॥३८॥

गन्धादयो नैवेद्यान्ता पूजापञ्चोपचारिका ।
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥३९॥

मधुपर्काचमनस्नान- वसनाभरणानि च ।
सुगन्धिसुमनो धूपदीपनैवेद्यवन्दनम् ॥४०॥

प्रयोजयेदर्चनायामुपचारांस्तु षोडश ।
विष्णोराराधने कुर्यात् सर्वत्र विधिरेष यः ॥४१॥

विधि स्यात् कृष्णविश्वेश समुद्‌भूतस्य सप्ततेः ।
दशोपचारकथनं श्रूयतां वल्लभ प्रभो ॥४२॥

पाद्यमर्घ्यं तथाचामं मधुपर्काचमनं तथा ।
गन्धादयो नैवेद्यान्ता उपचारा दशक्रमात् ॥४३॥

विष्णुं सम्पूज्य धीमान् हविष्याशीर्जिन्द्रियः ।
सर्वदा परमानन्दः कालिकावशसेवकः ॥४४॥

सर्वज्ञानधरो वीरो विवेकी सर्वदर्शकः ।
संभावयेत् स्वाधिष्ठाने निरन्तरं महाशुचिः ॥४५॥

बालकक्रियया व्याप्तो भावज्ञानी निरामयः ।
स भवेत् कालिकापुत्रो यः कृष्णभावतत्परः ॥४६॥

कृष्णं सञ्चिन्तयेन्मूलकमलोद्‌र्ध्वे कुलात्मकम् ।
स भवेत्कालिकापुत्रोऽष्टाङुसिद्धिगुणान्वितः ॥४७॥

मानसैः पूजनं कृत्वा शङ्कस्थापनमाचरेत् ।
यत्कृत्वा मानसं योगं न कुर्याद्‌बहिर्चनम् ॥४८॥

मूलमन्त्रदेवतायाः साधने दैवतं यजेत् ।
देवस्य दक्षिणस्थांश्च पूर्वोपास्यसुसंस्थितान् ॥४९॥

पूजयेद्‍ गन्ध पुष्पाद्यैस्तुल्यमन्त्रेण मन्त्रवित् ।
ततः श्रीकृष्णपादाब्जं ध्यानं कुर्यान्मनोलयम् ॥५०॥

एवं क्रमेण तत्पद्मे स्थिरो भवति योगिराट्‌ ।
यः करोति शुद्धभावं महामोहहरं हरिम् ॥५१॥

स्थापयित्वा च षट्‌पद्मे महामोक्षमवाप्नुयात् ।
यः प्रधानगुणज्ञश्च स मे शास्त्रार्थमाश्रयेत् ॥५२॥

इहकाले शत्रुलोके निवसत्येव योगिराट्‌ ।
पादाम्भोजे मनो दद्यान्मखकिञ्जल्कचित्रिते ॥५३॥

जङ्कायुगे चारुरामदलीकाण्डमण्डिते ।
ऊरुद्वये मत्तगजकरदण्डसमप्रभे ॥५४॥

गङावर्तगभीरे तु नाभौ शुद्धविलेऽमले ।
उदरे वक्षसि तथा हरौ श्रीवत्सकौस्तुभे ॥५५॥

पूर्णचन्द्रायुतपक्षे ललाटे चारुकुण्डले ।
शङ्कचक्रगदाम्भोजे दोर्दण्डोपरिमण्डिते ॥५६॥

सहस्त्रदित्यसङ्काशे सकिरीटकुलद्वयम् ।
स्थानेष्वेषु यजेन्मन्त्री विशुद्धः शुद्धचेतसा ॥५७॥

मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् ।
यावन्मनोलयं याति कृष्णे स्वात्मनि चिन्मये ॥५८॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवभैरवीसंवादे श्रीकृष्णस्वाधिष्ठानप्रवेशो नाम अष्टात्रिंशत्तमः पटलः ॥३८॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP