यदि भक्तो भवेन्नथ तदा मुक्तो न संशयः ।
यदि मुक्तो महीमध्ये ध्यानयोगपरायणः ॥३२॥

तदा कालपरां ज्ञात्वा सर्वदर्शी च सर्ववित् ।
सर्वज्ञः सर्वतोभद्रो भवतीति न संशयः ॥३३॥

चित्रिणी मध्यदेशे च ब्रह्मनाडी महाप्रभा ।
सर्वसिद्धिप्रदा नित्या सा देवी सकला कला ॥३४॥

व्योमरुपा भगवती सर्वचैतन्यरुपिणी ।
एकरुपं परं ब्रह्म ब्रह्मातीतं जगत्त्रयम् ॥३५॥

यदा जगत्त्रंय ब्रह्म तदा सत्त्वालयं प्रभो ।
महालये मनो दत्वा सर्वकालजयो भवेत् ॥३६॥

मृत्युञ्जयो महावीरो महाच्छत्रो महागतिः ।
सर्वव्यापकरुपेण ईश्वरत्वेन भाषते ॥३७॥

सर्वदा मन्त्रसम्भूतो विशालाक्षः प्रसन्नधीः ।
एकस्थानस्थितो याति नक्षत्रं स हि शङ्कर ॥३८॥

एकदृष्टिः क्षुधातृष्णारहितो वाक्यवर्जितः ।
निराकारे मनो दत्यात्तदा महानयं प्रभो ॥३९॥

किन्तु नाथाज्ञानिनां हि नापि नापि महालयः ।
महप्रलय एवं हि योगिनां नात्र संशयः ॥४०॥

यदा मनोयोग विशुद्धये मनोलयं यः कुरुतेऽप्यहर्निशम् ।
स एव मोक्षो गुणासिन्धुरुपी कालाग्निरुपी निजदैवदैवतः ॥४१॥

महामनोयोग विकारवर्जितः
कामक्रिया काण्दविशुद्धमण्डितः ।
हितो गतीनां मतिमान्निरस्तो
महालयस्थोऽमर एव भक्तः ॥४२॥

मानी विचारार्थविवेकचित्तश-
चातुर्य चित्तोल्बणताविवर्जितः ।
योगी भवेत्साधक चक्रवर्ती
व्योमाम्बुजे चित्तविसर्जनं सदा ॥४३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने षट्‌चक्र प्रकाशे भैरवीभैरवसंवादे महाप्रलयनामा एकोणत्रिंशः पटलः ॥२९॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP