षड्‌विंशः पटलः - पंञ्चमकार माहात्म्यम्

षट्‍चक्रभेदः


ज्ञानिनां योगिनामेव अन्तर्यागो हि सिद्धिदः ।
अथान्तः पञ्चमकारयजनं श्रॄणु शङ्कर ॥१३०॥

अन्तर्यजनकाले तु दृढभावेन भावयेत् ।
त्वां मां नाथैकथां ध्यात्वा दिवारात्र्यैकतां यथा ॥१३१॥

सुराशक्तिः शिवो मांसं तद्‌भक्तो भैरवः स्वयम् ।
तयोरैक्यसमुत्पन्न आनन्दो मोक्षनिर्णयः ॥१३२॥

आनन्दं ब्रह्मकिरणं देहमध्ये व्यवस्थितम् ।
तदभिव्यञ्जकैर्द्रव्यैः कुर्याद्‍ ब्रह्मादितर्पणम् ॥१३३॥

आनन्दं जगतां सारं ब्रह्मरुपं तनुस्थितम् ।
तदाभिव्यञ्जकं द्रव्यं योगिभिस्तैः प्रपूजयेत् ॥१३४॥

लिङुत्रयं च षट्‍पद्माधारमध्येन्दुभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥१३५॥

मूलाम्भोजो ब्रह्मारन्ध्रं चालयेदसुचालयेत् ।
गत्वा पुनः पुनस्तत्रं चिच्चन्द्रः परमोदयः ॥१३६॥

चिच्चन्द्रः कुण्डलीशक्तिः सामरस्यमहोदयः ।
व्योमपङ्कजनिस्पन्दसुधापानरतो नरः ॥१३७॥

मधुपानमिदं नाथ बाह्ये चाभ्यन्तरे सताम् ।
इतरं मद्यपानं तु योगिनां योगघातनात् ॥१३८॥

इतरं तु महापानं भ्रान्तिमित्याविवर्जितः ।
महावीरः सङ्करोति योगाष्टाङुसमृद्धये ॥१३९॥

पुण्यापुण्यपशुं हत्वा ज्ञानखड्‌गेन योगवित् ।
परशिवेन यश्चित्तं नियोजयति साधकः ॥१४०॥

मांसाशी स भवेदेव इतरे प्राणिघातकाः ।
शरीरस्थे महावहनौ दग्धमत्स्यानि पूजयेत् ॥१४१॥

शरीरस्थजलस्थानि इतराण्यशुभानि च ।
महीगतस्निसौम्योद्‌भवमुद्रामहाबलाः ॥१४२॥

तत्सर्वं ब्रह्मकिरणे आरोप्य तर्पयेत् सुधीः ।
तत्र मुद्राभोजनानि आनन्दवर्द्धकानि च ॥१४३॥

इतराणि च भोगार्थे एतद्वि परम् ।
परशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ॥१४४॥

मुक्तास्ते मैथुनं तत्स्यादितरे स्त्रीनिषेवकाः ।
एतत्पञ्चमकारेण पूजयेत् परनायिकाम् ॥१४५॥

पुरश्चरणगूढार्थसारमन्त्रप्रपूजनम् ।
एतद्‌योगं सदाभ्यसेद्‍ निद्रालस्यविवर्जितः ॥१४६॥

प्राणवायुरयं कुर्यात् कालकारणवारणात् ।
एतत्क्रियां प्राणवशे यः करोति निरन्तरम् ॥१४७॥

तस्य योगसमृद्धिः स्यात् कालसिद्धिमवाप्नुयात् ॥१४८॥

॥ इति श्रीरुद्रयामले उत्तरमन्त्रे महातन्त्रोद्‌दीपने भावनिर्णये सूक्ष्मयोगसिद्धयधिकरणे पाशवकल्पे षट्‌चक्रसारसङ्केते सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे षड्‌विंशः पटलः ॥२६॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP