तत्त्वतीर्थे महादेव तर्पणं यः करोति हि ।
त्रैलोक्यं तर्पितं तेन तत्प्रकारं श्रृणु प्रभो ॥९७॥

मूलाम्भोजे कुण्डलिनी चन्द्रसूर्याग्निरुपिणीम् ।
समुत्थाप्य कुण्डलिनीं परं बिन्दुं निवेश्य च ॥९८॥

तदुद्‍भवामृतेनेह तर्पयेद्‌ देहदेवताम् ।
कुलेश्वरीमादिविद्यां स सिद्धो भवति ध्रुवम् ॥९९॥

चन्द्रसूर्यमहावहिनसम्भूतामृतधारया ।
तर्पयेत‍ कौलिनीं नित्याममृताक्तां विभावयेत् ॥१००॥

एतत्परपदा काली स्त्रीविद्यादिप्रतर्पणम् ।
कृत्वा योगी भवेदेव सत्यं सत्यं कुलेश्वर ॥१०१॥

मूले पात्रं चान्द्रमसं ललाटेन्द्वमृते न च ।
सम्पूर्य ज्ञानमार्गेण तर्पयेत्तेन खेचरीम् ॥१०२॥

सुधासिद्धोर्मध्यदेशे कुलकन्यां प्रतर्पयेत् ।
मदिरामृतधाराभिः सिद्धो भवति योगिराट्‍ ॥१०३॥

तत्र तीर्थे महाज्ञानी ध्यानं कुर्यात् प्रयन्ततः ।
तद‌गर्भमभ्य सेन्नित्यं ध्यानमेतद्धि योगिनाम् ॥१०४॥

स्वीयां कन्यां भोजयेद्वै परकीयामथापि वा ।
परितोषाय सर्वेषां युवतीं वा प्रतोषयेत् ॥१०५॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP