TransLiteral Foundation

षड्‌विंशः पटलः - देव्या वीरध्येयरूपम्

षट्‍चक्रभेदः

देव्या वीरध्येयरूपम्
आनन्दभैरवी उवाच
श्रृणु प्राणेश सकलं प्राणायामनिरुपणम् ।
प्राणायामे जपं ध्यानं तत्त्वयुक्तं वदामि तत् ॥१॥

प्रकारयेय मुल्लासं प्राणायामेषु शोभितम् ।
देवताविधिविष्णवीशास्ते तु मध्यममध्यमाः ।
कामक्रोधादिकं त्यक्त्वा योगी भवति योगवित् ॥३॥

रजोगुणं नृपाणां तु तमोगुणमतीव च ।
अधिकं तु पशूनां हि साधूनां सत्त्वमेव च ॥४॥

सत्त्वं विष्णुं वेदरुपं निर्मलं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं त्रिमूर्तिमूलमाश्रयेत् ॥५॥

सत्त्वगुणाश्रयादेव निष्पापी सर्वसिद्धिभाक्‍ ।
जितेन्द्रियो भवेत् शीघ्रं ब्रह्मचारिव्रतेन च ॥६॥

प्राणवायुवशेनापि वशीभूताश्चराचराः ।
तस्यैव कारणे नाथ जपं ध्यानं समाचरेत् ॥७॥

वक्ष्यामि तत्प्रकारं जपध्यानं विधिद्वयम् ।
एतत्करणमात्रेण योगी स्यान्नात्र संशयः ॥८॥

जपं च त्रिविधं प्रोक्तं व्यक्ताव्यक्तातिसूक्ष्मगम् ।
व्यक्तं वाचिकमुपांशुमव्यक्तं सूक्ष्ममानसम् ॥९॥

तत्र ध्यानं प्रवक्ष्यामि प्रकारमेकविंशातिम् ।
ध्यानेन जपसिद्धिः स्यात् जपात् सिद्धिर्न संशयः ॥१०॥

आदौ विद्यामहादेवीध्यानं वक्ष्यामि शङ्कर ।
एषा देवी कुण्डलिनी यस्या मूलाम्बुजे मनः ॥११॥

मनः करोति सर्वाणि धर्मकर्माणि सर्वदा ।
यत्र गच्छति स श्रीमान् तत्र वायुश्च गच्छति ॥१२॥

अतो मूले समारोप्य मानसं वायुरुपिणम् ।
द्वादशाङ्‌‍गुलकं बाह्ये नासाग्रे चावधारयेत् ॥१३॥

मनःस्थं रुपमाकल्प मनोधर्म मुहुर्मुहुः ।
मनस्तत् सदृशं याति गतिर्यत्र सदा भवेत् ॥१४॥

मनोविकाररुपं तु एकमेव न संशयः ।
अज्ञानिनां हि देवेश ब्रह्मणो रुपकल्पना ॥१५॥

अव्यक्तं ब्रह्मरुपं हि तच्च देहे व्यवस्थितम् ।
धर्मकर्मविनिर्मुक्तं मनोगम्यं भजेद्यतिः ॥१६॥

पद्मं चतुर्दलं मूले स्वर्णवर्ण मनोहरम् ।
तत्कर्णिकामध्यदेशे स्वयम्भूवेष्टितां भजेत् ॥१७॥

कोटिसूर्यप्रतिकाशां सुषुम्नारन्ध्रगामिनीम् ।
ऊद्‌र्ध्वं गलत्सुधाधारामण्डितां कुण्डलीं भजेत् ॥१८॥

स्वयम्भूलिङ परमं ज्ञानं चिरविवर्द्धनम् ।
सूक्ष्मातिसूक्ष्ममाकाशं कुण्डलिजडितं भजेत् ॥१९॥

पूर्वोक्तयोगपटलं तत्र मूले विभावयेत् ।
कुण्डलीध्यानमात्रेण षट्‌चक्रभेदको भवेत् ॥२०॥

ध्यायेद्‍ देवीं कुण्डलिनीं परापरगुरुपियाम् ।
आनन्दां भुवि मध्यस्थां योगिनीं योगमातरम् ॥२१॥

कोटिविद्युल्लताभसां सूक्ष्मातिसूक्ष्मवर्त्मगाम् ।
ऊद्‌र्ध्वमार्गव्याचलन्तीं प्रथमारुणविग्रहाम् ॥२२॥

प्रथमोद‌गमने कौलीं ज्ञानमार्गप्रकाशिकाम् ।
प्रति प्रयाणे प्रत्यक्षाममृतव्याप्तविग्रहाम् ॥२३॥

धर्मोदयां भानुमतीं जगतस्थावरजङमाम् ।
सर्वान्तस्थां निर्विकल्पाञ्चैतन्यानन्दनिर्मलाम् ॥२४॥

आकाशवाहिनीं नित्यां सर्ववर्नस्वरुपिणीम् ।
महाकुण्डलिनीं ध्येयां ब्रह्मविष्णुशिवादिभिः ॥२५॥

प्रणवान्तः स्थितां शुद्धांशुद्धज्ञानश्रयां शिवाम् ।
कुलकुण्डलिनीं सिद्धिं चन्द्रमण्डलभेदिनीम् ॥२६॥

मूलाम्भोजस्थितामाद्यां जगद्योनिं जगत्प्रियाम् ।
स्वाधिष्ठानादिपद्मस्थां सर्वशक्तिमयीं पराम् ॥२७॥

आत्मविद्यां शिवानन्दां पीठस्थामतिसुन्दरीम् ।
सर्पाकृतिं रक्तवर्णा सर्वरुपविमोहिनीम् ॥२८॥

कामिनीं कामरुपस्थां मातृकामात्मदायिनीम् ।
कुलमार्गानन्दमयीं कालीं कुण्डलिनीं भजेत् ॥२९॥

इति ध्यात्वा मूलपद्मे निर्मले योगसाधने ।
धर्मोदये ज्ञानरुपीं साधयेत् परकुण्डलीम् ॥३०॥

कुण्डलीभावनादेव खेचराद्यष्टसिद्धिभाक्‍ ।
ईश्वरत्वमवाप्नोति साधको भूपतिर्भवेत् ॥३१॥

योगाभ्यासे भावसिद्धो स्मृतो वायुर्महोदयः ।
प्राणानामादुर्निवार्यो यत्नेन तं प्रचालयेत् ॥३२॥

प्रतिक्षणं समाकृष्ण मूलपद्मस्थं कुण्डलीम् ।
तदा प्राणमहावायुर्वशी भवति निश्चितम् ॥३३॥

ये देवाश्चैव ब्रह्माण्डे क्षेत्रे पीठे सुतीर्थके ।
शिलायां शून्यगे नाथ सिद्धाः स्युः प्राणवायुना ॥३४॥

ब्रह्माण्डे यानि संसन्ति तानि सन्ति कलेवरे ।
ते सर्वे प्राणसंलग्नाः प्राणातीतं निरञ्जनम् ॥३५॥

यावत्प्राणः स्थितो देहे तावन्मृत्युभयं कुतः ।
गते प्राणे समायान्ति देवताश्चेतनास्थिताः ॥३६॥

सर्वेषां मूलभूता सा कुण्डली भूतदेवता ।
वायुरुपा पाति सर्वमानन्दचेतनामयी ॥३७॥

जगतां चेतनारुपी कुण्डली योगदेवता ।
आत्ममनः समायुक्ता ददाति मोक्षमेव सा ॥३८॥

अतस्तां भावयेन्मन्त्रीं भावज्ञानप्रसिद्धये ।
भवानीं भोगमोक्षस्थां यदि योगमिहेच्छसि ॥३९॥

वायुरोधनकाले च कुण्डली चेतनामयी ।
ब्रह्मरन्ध्रावधि ध्येया योगिनं पाति कामिनी ॥४०॥

वायुरुपां परां देवीं नित्यां योगेश्वरी जयाम् ।
निर्विकल्पां त्रिकोणस्थां सदा ध्यायेत् कुलेश्वरीम् ॥४१॥

अनन्तां कोटिसूर्याभां ब्रह्मविष्णुशिवात्मिकाम् ।
अतन्तज्ञाननिलयां यां भजन्ति मुमुक्षवः ॥४२॥

अज्ञानतिमिरे घोरे सा लग्ना मूढचेतसि ।
सुप्ता सर्पासना मौला पाति साधकमीश्वरी ॥४३॥

ईश्वरीं सर्वभूतानां ज्ञानज्ञानप्रकाशिनीम् ।
धर्माधर्मफलव्याप्तां करुणामयविग्रहाम् ॥४४॥

नित्यां ध्यायन्ति योगीन्द्राः काञ्चनाभाः कलिस्थिताः ।
कुलकुण्डलिनां देवीं चैतन्यानन्दनिर्भराम् ॥४५॥

ककारादिमान्तवर्णां मालाविद्युल्लतावृताम् ।
हेमालङ्कारभूषाङी ये मां सम्भावयन्ति ते ॥४६॥

ये वै कुण्डलिनीं विद्यां मुलमार्गप्रकाशिनीम् ।
ध्यायन्ति वर्षसंयुक्तास्ते मुक्ता नात्र संशयः ॥४७॥

ये मुक्ता पापराशेस्तु धर्मज्ञानसुमानसाः ।
तेऽवश्यं ध्यानकुर्वन स्तुवन्ति कुण्डलीं पराम् ॥४८॥

कुलकुण्डलिनीध्यानं भोगमोक्षप्रदायकम् ।
यः करोति महायोगी भूतले नात्र संशयः ॥४९॥

त्रिविधं कुण्डलिनीध्यानं दिव्यवीरपशुक्रमम् ।
पशुभावादियोगेन सिद्धो भवति योगिराट्‌ ॥५०॥

दिव्यध्यानं प्रवक्ष्यामि सामान्यनन्तरं प्रभो ।
आदौ सामान्यमाकृत्य दिव्यादीन् कारयेत्ततः ॥५१॥

कोटिचन्द्रप्रतीकाशां तेजोबिम्बा निराकुलाम् ।
ज्वालामाला सहस्त्राढ्यां कालानलशतोपमाम् ॥५२॥

द्रंष्ट्राकरालदुर्धर्षां जटामण्डलमण्डिताम् ।
घोररुपां महारौद्रीं सहस्त्रकोटिचञ्चलाम् ॥५३॥

कोटिचन्द्रसमस्निग्धां सर्वत्रस्थां भयानकाम् ।
अनन्तसृष्टिसंहारपालनोन्मत्तमानसाम् ॥५४॥

सर्वव्यापकरुपाद्यामादिनीलाकलेवराम् ।
अनन्तसृष्टिनिलयां ध्यायन्ति तां मुमुक्षवः ॥५५॥

वीरध्यानं प्रवक्ष्यामि यत्कृत्वा वीरवल्लभः ।
वराणां वल्लभो यो हि मुक्तो भोगी स उच्यते ॥५६॥

वीराचारे सत्त्वगुणं निर्मलं दिव्यमुत्तमम् ।
सम्प्राप्य च महावीरो योगी भवति तत्क्षणात् ॥५७॥

वीराचारं बिना नाथ दिव्याचारं न लभ्यते ।
ततो वीराचारधर्मं कृत्वा दिव्यं समाचरेत् ॥५८॥

वीराचारं कोटिफलं वारैकजपसाधनम् ।
कोटिकोटिजन्मपापदुःखनाशं स भक्तकः ॥५९॥

कुलाचारं समाचारं वीराचारं महाफलम् ।
कृत्वा सिद्धिश्च वै ध्यानं कुलध्यानं मदीयकम् ॥६०॥

कुलकुण्डलिनीं देवीं मां ध्यात्वा पूजयन्ति ये ।
मूलपद्मे महावीरो ध्यात्वा भवति योगिराट्‌ ॥६१॥

कालीं कौलां कुलेशीं कलकल-कलिजध्यानकालानलार्कां
कल्योल्कां कालकवला किलिकिलिकलिकां केलिलावण्यलीलाम् ।
सूक्ष्माख्यां संक्षयाख्या क्षयकुलकमले सूक्ष्मतेजोमयीन्ता-
माद्यन्तस्थां भजन्ति प्रणतजनाः सुन्दरीं चारुवर्णाम् ॥६२॥

अष्टादशभुजैर्युक्तां नीलेन्दीवरलोचनाम् ।
मदिरासागरोत्पन्नां चन्द्सूर्याग्निरुपिणीम् ॥६३॥

चन्द्रसूर्याग्निमध्यस्थां सुन्दरीं वरदायिनीम् ।
कामिनीं कोटिकन्दर्पदर्पान्तकपतिप्रियाम् ॥६४॥

आनन्दभैरवाक्रान्तामानन्दभैरवीं पराम् ।
भोगिनीं कोटिशीतांशुगलद्‌गात्रमनोहराम् ॥६५॥

कोटिविद्युल्लताकारां सदसद्‌व्यक्तिवर्जिताम् ।
ज्ञानचैतन्यनिरतां तां वीरा भावयन्ति हि ॥६६॥

अस्या ध्यानप्रसादेन त्वं तुष्टो भैरवः स्वयम् ।
अहं च तुष्टा संसारे सर्वे तुष्टा न संशयः ॥६७॥

प्राणायामान् स करोति साधकः स्थिरमानसः ।
ध्यात्वा देवीं मूलपद्मे वीरो योगवाप्नुयात् ॥६८॥

वीरभावं सूक्ष्मवायुधारणेन महेश्वर ।
साधको भुवि जानाति स्वमृत्युं जन्मसङ्कटम् ॥६९॥

मासादाकर्षणीसिद्धिर्वाक्‍सिद्धिश्च द्विमासतः ।
मासत्रयेण संयोगाज्जायते देवल्लभः ॥७०॥

एवञ्चतुष्टये मासि भवेदि‌दकपालगोचरः ।
पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः ॥७१॥

वीरभावस्य माहात्म्यं कोटिजन्मफलेन च ।
जानाति साधकश्रेष्ठी देवीभक्तः स योगिराट्‌ ॥७२॥

वीराचारं महाधर्मं चित्तस्थैर्यस्य कारणम् ।
यस्य प्रसादमात्रेण दिव्यभावाश्रितो भवेत् ॥७३॥

स्वयं रुद्रो महायोगी महाविष्णुः कृपानिधिः ।
महावीरः स एवात्मा मोक्षभोगी न संशयः ॥७४॥

अथ नाथ महावीर भावस्नानं कुलाश्रयम् ।
यत्कृत्वा शुचिरेव स्यात् शुचिश्चेत् किं न सिद्‌ध्यति ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-16T04:49:06.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

alpha error

  • आल्फा त्रुटी 
  • पु. अल्फा दोष 
  • (also called rejection error) 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.