TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पञ्चविशं पटलः - सूक्ष्मसृष्टिस्थितिसंहारकथनम्

षट्‍चक्रसारसंकेते योगशिक्षाविधिनिर्णयः


सूक्ष्मसृष्टिस्थितिसंहारकथनम्
आनन्दभैरव उवाच
वद कान्ते रहस्यं मे तत्त्वावधानपूर्वकम् ।
यद् यज्ज्ञात्वा महायोगी प्रविशत्यलाम्बुजे ॥१॥

यदि स्नेहदृष्टिरस्ति मम ब्रह्मानिरुपणम् ।
योगसारं तत्त्वपथं निर्मलं वद योगिने ॥२॥

आनन्दभैरवी उवाच
श्रृणु प्राणेशा वक्ष्यामि योगनाथ क्रियागुरो ।
योगाङ योगिनामिष्टं तत्त्वब्रह्मनिरुपणम् ॥३॥

एतत् सृष्टिप्रकारञ्च प्रपालनविधि तथा ।
असंख्यसृष्टिसंहारं वदामि तत्त्वतः श्रृणु ॥४॥

सूक्ष्मसृष्टिस्थितिसंहारकथनम्
त्वमेव संहारकरो वरप्रियः प्रधानमेषु त्रितयेषु शङ्कर ।
संहारभाव मलभूतिनाशंन प्रधानद्यस्य जगत्प्रलानम् ॥५॥

तत्राधन मेरुभुजङुमङं सृष्टिप्रकारं खलु तत्र मध्यमम् ।
तत्पालनञ्चेति मयैव राज्ये संहाररुप प्रकृतेर्गुनार्थकम् ॥६॥

एतत्त्रंय नाथ भयादिकारणं तन्नाशनाम्नें प्रणवं गुणात्मकम् ।
त्रयं गुणातीरमनन्तमक्षरं सम्भाव्य योगी भवतीह साधकः ॥७॥

अव्यक्तरुपात् प्रणवाद्धि सृष्टिस्तल्लीयते व्यक्ततनोः समासा ।
सूक्ष्माद्यकारात् प्रतिभान्ति खे सदा प्रणश्यति स्थूलकलान्निरक्षरात् ॥८॥

अतीव चित्रं जगतां विचित्रं नित्यं चरित्रं कथितुं न शक्यते ।
हंसाश्रितास्ते भववासिनो जना ज्ञात्वा न देहस्थमुपाश्रयन्ते ॥९॥

देहाधिकारी प्रणवादिदेव मायाश्रितो निद्रित एष कालः ।
प्रलीयते दीर्थपथे च काले तदा प्रणश्यन्ति जगत् स्थिता जनाः ॥१०॥

कालो जगद्भक्षक ईशवेशो तरी तु जीर्णा पतिहीनदीना ।
स एव मृत्युर्विहितं चराचरं प्रभुञ्जति श्रीरहितं पलायनम् ॥११॥

पञ्चेनदुतत्त्वेन महेन्द्रसृष्टिः प्रतिष्ठिता यज्ञविधानहेतुना ।
सदैव यज्ञं कुरुते भवार्णवे निःसृष्टिकाले वरयज्ञसाधनम् ॥१२॥

हिताहितं तत्र महार्णवे भयं विलोक्य लोका भयविहवलाह सदा ।
विशन्ति ते कुत्सितमार्गमण्डले अतो महानारकिबुद्धिहीनाः ॥१३॥

मायामये धर्मकुलानले भवे लीनो हरेर्याति पथानुसारी ।
म्रियेत कालानलतुल्यमृत्युना कथ तु योगी कथमेव साधकः ॥१४॥

यः साधकः प्रेम-कलासुभक्त्या स एव मुर्खो यदि याति संसृतौ ।
संसारहीनः प्रियचारुकाल्याः सिद्धो भवेत् कामदचक्रवर्ती ॥१५॥

वसेन्न सिद्धो गृहीणीसमृद्ध्यां महाविपद्दुःखविशोषिकायाम् ।
यदीह काले प्रकरोति वासनां तदा भवेन्मृत्युरतीव निश्चितम् ॥१६॥

कृपावलोक्यं वदनारविन्दं तदैव हे नाथ ममैव चेद्यदि ।
सदैव यः साधुगणाश्रितो नरो ध्यात्वा नूगूढमतिभागगद्वतः ॥१७॥

स एव साधुः प्रकृतेर्गुणाश्रितः कृती वशी वेदपुराणवक्ता ।
सत्त्वं महाकाल इतीह चाहं प्रणिश्चं ते कथितं श्रिये मया ॥१८॥

गुणेन भक्तेन्द्रगणाधिकानां साक्षात् फल्म योगजपाख्यसङतिम् ।
अष्टाङुभेदेन श्रृणुष्व कामप्रेमाय भावाय जयाय वक्ष्ये ॥१९॥

मायादिकं यः प्रथमं वशं नयेत् स एव योगी जगतां प्रतिष्ठितः ।
रविप्रकारं यमवासनावशे श्रृणुष्व तं कालवशार्थकेवलम् ॥२०॥

सर्वत्र कामादिकमाशु जित्वा जेतुं समर्थो यमकर्मसाधकः ।
कामं तथा क्रोधमतीव लोभं मोहं मदं मात्सरितं सुदुष्टकृतम् ॥२१॥

अतो मया द्वादश शब्द घातकं वश्म समाकृत्य महेन्दतुल्यम् ।
सर्वत्र वायोर्वशकारणाय करोति योगी सचलान्यथा भवेत् ॥२२॥

अहिंसनं सत्यवाक्यसुप्रियमस्तेयभावं कुरुते वसिष्ठवत् ।
सुब्रह्मचर्य सुदृढार्ज्जव्म सदा क्षमाधृतिं सेवसुसूक्ष्मवायुनः ॥२३॥

तथा मिताहारमसंशय मनः शौचं प्रपञ्चार्थविवर्जनं प्रभो ।
करोति यः साधकचक्रवर्ती वाद्योत्सवाज्ञाविवर्जनं सदा ॥२४॥

वशी यमद्वादशसंख्ययेति करोति चाष्टाङुफलार्थसाधनम् ।
वरानना श्रीचरणारविन्दं सत्त्वादशाच्छत्रिनेत्रगोचरम् ॥२५॥

तपश्च सन्तोषमनस्थिरं सदा आस्तिक्यमेवं द्विजदानपूजनम् ।
नितान्तदेवार्चनमेव भक्त्या सिद्धान्तशुद्धश्रवणं च ह्रीर्मतिः ॥२६॥

जपोहुतं तर्पणमेव सेवनं तद्भावनं चेष्टनमेव नित्यम् ।
इतीहं शास्त्रे नियमाश्चतुर्दशा भक्तिक्रियामङुलसूचनानि ॥२७॥

पूर्वोक्तयोन्यासनमेव सत्यं भेकासनं बद्धमहोत्पलासनम् ।
वीरासनं भद्रसुभकसनं च पूर्वोक्तमेवासनमाशु कुर्यात् ॥२८॥

सर्वाणि तन्त्राणि कृतानि नाथ सूक्ष्माणि नालं वशहेतुना मया ।
तथापि मूढो यदि वायुपान माह्रत्य योनौ भ्रमतीह पातकी ॥२९॥

प्राणानिलानन्दवशेन मत्तो गजेन्द्रगामी पुरुषोत्तमं स्मृतम् ।
तस्यैव सेवानिपुणो भवेद्वशी ब्रह्माण्डलोकं परिपाति यो बली ॥३०॥

वदामि देवादिसुरेश्वर प्रभो सूक्ष्मानिलं प्राणवशेन धारयेत् ।
सिद्धो भवेत् साधकचक्रवतीं सर्वानरस्थं परिपश्यति प्रभुम् ॥३१॥

आनन्दभैरव उवाच
वद कान्ते महाब्रह्मज्ञान सर्वत्र शोभनम् ।
येन वायुवशं कृत्त्वा खेचरो भूभृतां पतिः ॥३२॥

साधको ब्रह्मरुपी स्यात् ब्रह्मज्ञानप्रसादतः ।
ब्रह्मज्ञानात् परं ज्ञानं कुत्रास्ति वद सुन्दरि ॥३३॥

आनदभैरवी उवाच
श्रृणुष्व योगिनाम नाथ धर्मज्ञो ब्रह्मसञ्ज्ञक ।
अज्ञानध्वान्तमोहानां निर्मलं ब्रह्मसाधनम् ॥३४॥

ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ।
यदि ब्रह्मज्ञानधर्मी स सिद्धो नात्र संशयः ॥३५॥

कोटिकन्याप्रदानेन कोटिजापेन किं फलम् ।
ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ॥३६॥

सरोवरसहस्त्रेण कोटिहेमाचलेन च ।
कोटिब्राह्मणभोज्येन कोतितीर्थेन किं फलम् ॥३७॥

कामरुपे महापीठे साधकैर्लभ्यते यदि ।
ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ॥३८॥

ब्रह्मज्ञानं तु द्विविधं प्राणायामजमव्ययम् ।
भक्तिवाक्यं शब्दरसं स्वरुप्म ब्रह्मणः पथम् ॥३९॥

प्राणायामं तु द्विविध सुगर्भञ्च निगर्भकम् ।
जपध्यानं सगर्भ तु तदा युक्तं निगर्भकम् ॥४०॥

अव्यया लक्षणाक्रान्तं प्राणायामं परात् परम् ।
ब्रह्मज्ञानेन जानाति साधको विजितोन्द्रियः ॥४१॥

तत्प्रकारद्वयं नाथ मालावृत्ति जपक्रमम् ।
मालावृत्ति द्वादशकं जपक्रमं तु षोडश ॥४२॥

नासिकायां महादेव लक्षणत्रयमनुत्तमम् ।
पूरकं कुम्भंक तत्र रेचकं देवतात्रयम् ॥४३॥

एतेषामप्यधिष्ठाने ब्रह्मविष्णुशिवाः प्रजाः ।
त्रिवेणी सङमे यान्ति सर्वपापापहारकाः ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-04-16T04:42:05.9270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शेम्न

  • न. ( ग्राम्य ) शेमणे ; शिस्न ; पुरुषांचे जननेंद्रिय . 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site